अक्षर आकार:

गङ्गास्तवः

Gangastava

गङ्गास्तवः

श्रीगणेशाय नमः ॥ सूत उवाच -- श‍ृणुध्वं मुनयः सर्वे गङ्गास्तवमनुत्तमम् । शोकमोहहरं पुंसामृषिभिः परिकीर्तितम् ॥ १॥ ऋषय ऊचुः -- इयं सुरतरङ्गिणी भवनवारिधेस्तारिणी स्तुता हरिपदाम्बुजादुपगता जगत्संसदः । सुमेरुशिखरामरप्रियजलामलक्षालिनी प्रसन्नवदना शुभा भवभयस्य विद्राविणी ॥ २॥ भगीरथरथानुगा सुरकरीन्द्रदर्पापहा महेशमुकुटप्रभा गिरिशिरःपताका सिता । सुरासुरनरोरगैरजभवाच्युतैः संस्तुता विमुक्तिफलशालिनी कलुषनाशिनी राजते ॥ ३॥ पितामहकमण्डलुप्रभवमुक्तिबीजा लता श्रुतिस्मृतिगणस्तुतद्विजकुलालवालावृता । सुमेरुशिखराभिदा निपतिता त्रिलोकावृता सुधर्मफलशालिनी सुखपलाशिनी राजते ॥ ४॥ चरद्विहगमालिनी सगरवंशमुक्तिप्रदा मुनीन्द्रवरनन्दिनी दिवि मता च मन्दाकिनी । सदा दुरितनाशिनी विमलवारिसन्दर्शन- प्रणामगुणकीर्तनादिषु जगत्सु संराजते ॥ ५॥ महाभिषसुताङ्गना हिमगिरीशकूटस्तना सफेनजलहासिनी सितमरालसच्चारिणी । चलल्लहरिसत्करा वरसरोजमालाधरा रसोल्लसितगामिनी जलधिकामिनी राजते ॥ ६॥ क्वचिन्मुनिगणैः स्तुता क्वचिदनन्तसम्पूजिता क्वचित्कलकलस्वना क्वचिदधीरयादोगणा । क्वचिद्रविकरोज्ज्वला क्वचिदुदग्रपाताकुला क्वचिज्जनविगाहिता जयति भीष्ममाता सती ॥ ७॥ स एव कुशली जनः प्रणमतीह भागीरथीं स एव तपसां निधिर्जपति जाह्नवीमादरात् । स एव पुरुषोत्तमः स्मरति साधु मन्दाकिनीं स एव विजयी प्रभुः सुरतरङ्गिणीं सेवते ॥ ८॥ तवामलजलाचितं खगसृगालमीनक्षतं चलल्लहरिलोलितं रुचिरतीरजम्बालितम् । कदा निजवपुर्मुदा सुरनरोरगैः संस्तुतोऽप्यहं त्रिपथगामिनि प्रियमतीव पश्याम्यहो ॥ ९॥ त्वत्तीरे वसतिं तवामलजलस्नानं तव प्रेक्षणं त्वन्नामस्मरणं तवोदयकथासंलापनं पावनम् । गङ्गे मे तव सेवनैकनिपुणोऽप्यानन्दितश्चादृतः स्तुत्वा चोद्गतपातको भुवि कदा शान्तश्चरिष्याम्यहम् ॥ १०॥ इत्येतदृषिभिः प्रोक्तं गङ्गास्तवनमुत्तमम् । स्वर्ग्यं यश्स्यमायुष्यं पठनाच्छ्रवणादपि ॥ ११॥ सर्वपापहरं पुंसां बलमायुर्विवर्धनम् । प्रातर्मध्याह्नसायाह्ने गङ्गासान्निध्यता भवेत् ॥ १२॥ इत्येतद्भार्गवाख्यानं शुकदेवान्मया श्रुतम् । पठितं श्रावितं चात्र पुण्यं धन्यं यशस्करम् ॥ १३॥ अवतारं महाविष्णोः कल्केः परममद्भुतम् । पठतां श‍ृण्वतां भक्त्या सर्वाशुभविनाशनम् ॥ १४॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्ये तृतीयांशे ऋषिकृतो गङ्गास्तवः सम्पूर्णः ॥