अक्षर आकार:

गङ्गास्तवः

Gangastavah

गङ्गास्तवः

प्रयाताऽगात्तुङ्गाद्विधिभवनरङ्गालयतले निवासाकाशाच्चेदतितपस आशुप्रपतिता । अनङ्गारेरङ्गात्कनखलसुसङ्गात्प्रचलिता प्रयागात्सा गङ्गा प्रकटिततरङ्गाऽर्णवगता ॥ १॥ औदार्यन्तेऽनिवार्यं कथय कथमहो कार्यधार्यप्रपन्न मासन्नं ते विलसतिजने भुक्तिमुक्तिर्वदामि । स्वामित्वं त्वं दिशसि नितरां पामराणां नराणां मान्यं नान्यं भुवनभवने यत्परं प्रार्थयामि ॥ २॥ गाङ्गे जले यः प्रविगाहते तेऽमृते च शेतेऽहिपतेः शरीरे । तीरे गता ये दुरितावृताङ्गाः साङ्गाः परीवारयुता विशुद्धाः ॥ ३॥ पापी तापी सशापी सुरसरिदवनो मध्यगो यः सुरापी कापीयञ्चाभितापी सदयहृदयतश्चेत्प्रतापी च जापी । दाता माता जनकगुरुगोभक्तियुक्तः प्रयाति शम्भुत्वं ते जललवयुतश्चोद्धृतिर्वै विचित्रा ॥ ४॥ दानैर्ज्ञानैश्च गानैर्व्रतनियमगणैर्योगयागावदानै- र्यानैर्वायोर्विधानैर्जपभजनदयातीर्थयात्रादिकानाम् । सन्मानैर्भूसुराणां दिशति हरिहरावात्मलोकं हि गङ्गे ! पापीनां त्वं विनैभिर्हरिहरमकरोत्को वदाग्रस्तदन्यः ॥ ५॥ गङ्गेऽति चिन्ता हृदये मदीये लोकैस्तिरस्कारवृतं शरीरम् । क्लिन्नं गलत्कुष्ठयुतं विभिन्नं छिन्नं कथं विष्णुशिवं करोषि ॥ ६॥ नाश्चर्यमेत्तव लोकमातर्माताऽऽत्मपुत्रं कुरुते पवित्रम् । मूत्रैर्मलेधूलिभिरावृतं तं स्वाङ्के करोत्यम्बुनिजाञ्चलैश्च ॥ ७॥ चित्रगुप्त इह यस्य पातके लेखनेन शिथिलीकृताङ्गुलिः । तारयेद्यदि महत्त्वमम्ब ! तत्ते द्विजे खलु प्रयागदत्तके ॥ ८॥ इति श्रीमद्रामकुमारात्मजप्रयागदत्तविरचितः गङ्गास्तवः समाप्तः ।