अक्षर आकार:

गङ्गास्तवः ३

Gangastavah 3

गङ्गास्तवः ३

श्रीगणेशाय नमः । शार्दूलविक्रीडितं छन्दः यत्त्यक्तं जननीगणैर्यदपि न स्पृष्टं सुहद्वान्धवै यस्मिन् पान्थदृगन्तसन्निपतिते तैः स्मर्यते श्रीहरिः । स्वाङ्के न्यस्ततदीदृशं वपुरहो स्वीकुर्वती पौरुषं त्वं तावत् करुणापरायणपरा माताऽसि भागीरथि ? ॥ १॥ आर्याछन्द अच्युतचरणतरङ्गिणि शशिशेखरमौलिमालतीमाले । त्वयि तनुवितरणसमये देया हरता न मे हरिता ॥ २॥ मन्दाक्रान्ता शून्यीभूता शमननगरी नीरवा रौरवाद्या यातायातैः प्रतिदिनमहो भिद्यमाना विमानाः । सिद्धैः सार्द्ध दिवि दिविषदः सार्घ्यपात्रैकहस्ता मातर्गङ्गे! यदवधि तव प्रादुरासीत् प्रवाहः ॥ ३॥ उपजातिः पयो हि गाङ्गं त्यजतामिहाङ्ग पुनर्न चाङ्गं यदि यान्ति चाङ्गम् । करे ग्थाङ्ग शयने भुजङ्ग याने विहङ्ग चरणे च गाङ्गम् ॥ ४॥ शार्दूलविक्रीडितं कल्मक्षौणिकरोटयः कति कति द्वीपिद्विपानां त्वचः काकोलाः कति पन्नगाः कति सधाधाम्नश्च खण्डाः कति । किञ्च त्वञ्च कति त्रिलोकजननि ! त्वद्वारिपूरोदरे मज्जज्जन्तुकदम्बकं समुदयत्येकैकपादाय यत् ॥ ५॥ शिखरिणी कुतोऽवीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीताम्बरपुरनिवासं वितरसि । त्वदुत्सङ्गे गङ्गे ! यदि पतति कायस्तनुभृतां तदा मातः ! शातक्रतवपदलाभोऽप्यतिलघुः ॥ ६॥ त्वमम्भो लोकानामखिलदुरितान्येव दहसि प्रगन्त्री निम्नानामपि नयसि सर्वोपरि नतान् । स्वयं जाता विष्णोर्जनयसि मुरारातिनिवहान् अहो मातर्गङ्गे ! किमिह चरितं ते विजयते ॥ ७॥ मालिनीछन्दः सुरधुनि ! मुनिकन्ये ! तारयेः पुण्यवन्तं स तरति निजपुण्यैस्तत्र किन्ते महत्त्वम् । यदि च गतिविहीनं तारयेः पापिनं मां तदिह तव महत्त्वं तन्महत्त्वं महत्त्वम् ॥ ८॥ (रचनाकाल ः १६१९ ई० रङ्गून स्वसमुद्र, पृ० १७६ रचनास्थलं- दक्षिणेवरभागोरचितटः ।) इति दराफखांविरचितः गङ्गास्तवः सम्पूर्णः ।