अक्षर आकार:

गङ्गासहस्रनामावलिः

Gangasahasranamavali

गङ्गासहस्रनामावलिः

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोपलाभीत्यभीष्टाम् । विधिहरिरूपां सेन्दुकोटीरजूटां कलितसितदुकूलां जाह्नवी तां नमामि ॥ ॐ ओङ्काररूपिण्यै नमः । अजरायै । अतुलायै । अनन्तायै । अमृतस्रवायै । अत्युदारायै । अभयायै । अशोकायै । अलकनन्दायै । अमृतायै । अमलायै । अनाथवत्सलायै । अमोघायै । अपां योनये । अमृतप्रदायै । अव्यक्तलक्षणायै । अक्षोभ्यायै । अनवच्छिन्नायै । अपरायै । अजितायै नमः । २० ॐ अनाथनाथायै नमः । अभीष्टार्थसिद्धिदायै । अनङ्गवर्धिन्यै । अणिमादिगुणायै । अधारायै । अग्रगण्यायै । अलीकहारिण्यै । अचिन्त्यशक्तये । अनघायै । अद्भुतरूपायै । अघहारिण्यै । अद्रिराजसुतायै । अष्टाङ्गयोगसिद्धिप्रदायै । अच्युतायै । अक्षुण्णशक्तये । असुदायै । अनन्ततीर्थायै । अमृतोदकायै । अनन्तमहिम्ने । अपारायै नमः । ४० ॐ अनन्तसौख्यप्रदायै नमः । अन्नदायै । अशेषदेवतामूर्तये । अघोरायै । अमृतरूपिण्यै । अविद्याजालशमन्यै । अप्रतर्क्यगतिप्रदायै । अशेषविघ्नसंहर्त्र्यै । अशेषगुणगुम्फितायै । अज्ञानतिमिरज्योतिषे । अनुग्रहपरायणायै । अभिरामायै । अनवद्याङ्ग्यै । अनन्तसारायै । अकलङ्किन्यै । आरोग्यदायै । आनन्दवल्ल्यै । आपन्नार्तिविनाशिन्यै । आश्चर्यमूर्तये । आयुष्यायै नमः । ६० ॐ आढ्यायै नमः । आद्यायै । आप्रायै । आर्यसेवितायै । आप्यायिन्यन्यै । आप्तविद्यायै । आख्यायै । आनन्दायै । आश्वासदायिन्यै । आलस्यघ्न्यै । आपदां हन्त्र्यै । आनन्दामृतवर्षिण्यै । इरावत्यै । इष्टदात्र्यै । इष्टायै । इष्टापूर्तफलप्रदायै । इतिहासश्रुतीड्यार्थायै । इहामुत्रशुभप्रदायै । इज्याशीलसमिज्येष्ठायै । इन्द्रादिपरिवन्दितायै नमः । ८० ॐ इलालङ्कारमालायै नमः । इद्धायै । इन्दिरारम्यमन्दिरायै । इते । इन्दिरादिसंसेव्यायै । ईश्वर्यै । ईश्वरवल्लभायै । ईतिभीतिहरायै । ईड्यायै । ईडनीयचरित्रभृते । उत्कृष्टशक्तये । उत्कृष्टायै । उडुपमण्डलचारिण्यै । उदिताम्बरमार्गायै । उस्रायै । उरगलोकविहारिण्यै । उक्षायै । उर्वरायै । उत्पलायै । उत्कुम्भायै नमः । १०० ॐ उपेन्द्रचरणद्रवायै नमः । उदन्वत्पूर्तिहेतवे । उदारायै । उत्साहप्रवर्धिन्यै । उद्वेगघ्न्यै । उष्णशमन्यै । उष्णरश्मिसुताप्रियायै । उत्पत्तिस्थितिसंहारकारिण्यै । उपरिचारिण्यै । ऊर्जंवहन्त्यि । ऊर्जधरायै । उर्जावत्यै । उर्मिमालिन्यै । ऊर्ध्वरेतःप्रियायै । उर्ध्वाध्वायै । ऊर्मिलायै । उर्ध्वगतिप्रदायै । ऋषिवृन्दस्तुतायै । ऋद्धये । ऋणत्रयविनाशिन्यै नमः । १२० ॐ ऋतम्भरायै नमः । ऋद्धिदात्र्यै । ऋक्स्वरूपायै । ऋजुप्रियायै । ऋक्षमार्गवहायै । ऋक्षार्चिषे । ऋजुमार्गप्रदर्शिन्यै । एधिताखिलधर्मार्थायै । एकस्यै । एकामृतदायिन्यै । एधनीयस्वभावायै । एज्यायै । एजिताशेषपातकायै । ऐश्वर्यदायै । ऐश्वर्यरूपायै । ऐतिह्यायै । ऐन्दवद्युतये । ओजस्विन्यै । ओषधीक्षेत्रायै । ओजोदायै नमः । १४० ॐ ओदनदायिन्यै नमः । ओष्ठामृतायै । औन्नत्यदात्र्यै । भवरोगिणामौषधायै । औदार्यचञ्चवे । औपेन्द्र्यै । औग्र्यै । औमेयरूपिण्यै । अम्बराध्ववहायै । अम्बष्ठायै । अम्बरमालायै । अम्बुजेक्षणायै । अम्बिकायै । अम्बुमहायोनवे । अन्धोदायै । अन्धकहारिण्यै । अंशुमालायै । अंशुमत्यै । अङ्गीकृतषडाननायै । अन्धतामिस्रहन्त्र्यै नमः । १६० ॐ अन्धवे नमः । अञ्जनायै । अञ्जनावत्यै । कल्याणकारिण्यै । काम्यायै । कमलोत्पलगन्धिन्यै । कुमुद्वत्यै । कमलिन्यै । कान्तये । कल्पितदायिन्यै । काञ्चनाक्ष्यै । कामधेनवे । कीर्तिकृते । क्लेशनाशिन्यै । क्रतुश्रेष्ठायै । क्रतुफलायै । कर्मबन्धविभेदिन्यै । कमलाक्ष्यै । क्लमहरायै । कृशानुतपनद्युतये नमः । १८० ॐ करुणार्द्रायै नमः । कल्याण्यै । कलिकल्मषनाशिन्यै । कामरूपायै । क्रियाशक्तये । कमलोत्पलमालिन्यै । कूटस्थायै । करुणायै । कान्तायै । कूर्मयानायै । कलावत्यै । कमलायै । कल्पलतिकायै । काल्यै । कलुषवैरिण्यै । कमनीयजलायै । कम्रायै । कपर्दिसुकपर्दगायै । कालकूटप्रशमन्यै । कदम्बकुसुमप्रियायै नमः । २०० ॐ कालिन्द्यै नमः । केलिललितायै । कलकल्लोलमालिकायै । क्रान्तलोकत्रयायै । कण्ड्वै । कण्डूतनयवत्सलायै । खड्गिन्यै । खड्गधाराभायै । खगायै । खण्डेन्दुधारिण्यै । खेखेलगामिन्यै । खस्थायै । खण्डेन्दुतिलकप्रियायै । खेचर्यै । खेचरीवन्द्यायै । ख्यातायै । ख्यातिप्रदायिन्यै । खण्डितप्रणताघौघायै । खलबुद्धिविनाशिन्यै । खातैनः कन्दसन्दोहायै नमः । २२० ॐ खड्गखट्वाङ्ग खेटिन्यै नमः । खरसन्तापशमन्यै । पीयूषपाथसां खनये । गङ्गायै । गन्धवत्यै । गौर्यै । गन्धर्वनगरप्रियायै । गम्भीराङ्ग्यै । गुणमय्यै । गतातङ्कायै । गतिप्रियायै । गणनाथाम्बिकायै । गीतायै । गद्यपद्यपरिष्टुतायै । गान्धार्यै । गर्भशमन्यै । गतिभ्रष्टगतिप्रदायै । गोमत्यै । गुह्यविद्यायै । गवे नमः । २४० ॐ गोप्त्र्यै नमः । गगनगामिन्यै । गोत्रप्रवर्धिन्यै । गुण्यायै । गुणातीतायै । गुणाग्रण्यै । गुहाम्बिकायै । गिरिसुतायै । गोविन्दाङ्घ्रिसमुद्भवायै । गुणनीयचरित्रायै । गायत्र्यै । गिरिशप्रियायै । गूढरूपायै । गुणवत्यै । गुर्व्यै । गौरववर्धिन्यै । ग्रहपीडाहरायै । गुन्द्रायै । गरघ्न्यै । गानवत्सलायै नमः । २६० ॐ घर्महन्त्र्यै नमः । घृतवत्यै । घृततुष्टिप्रदायिन्यै । घण्टारवप्रियायै । घोराघौघविध्वंसकारिण्यै । घ्राणतुष्टिकर्यै । घोषायै । घनानन्दायै । घनप्रियायै । घातुकायै । घूर्णितजलायै । घृष्टपातकसन्तत्यै । घटकोटिप्रपीतापायै । घटिताशेषमङ्गलायै । घृणावत्यै । घृणिनिधये । घस्मरायै । घूकनादिन्यै । घुसृणापिञ्जरतनवे । घर्घरायै नमः । २८० ॐ घर्घरस्वनायै नमः । चन्द्रिकायै । चन्द्रकान्ताम्बवे । चञ्चदापायै । चलद्युतये । चिन्मय्यै । चितिरूपायै । चन्द्रायुतशताननायै । चाम्पेयलोचनायै । चारवे । चार्वङ्ग्यै । चारुगामिन्यै । चार्यायै । चारित्रनिलयायै । चित्रकृते । चित्ररूपिण्यै । चम्प्वै । चन्दनशुच्यम्बवे । चर्चनीयायै । चिरस्थिरायै नमः । ३०० ॐ चारुचम्पकमालाढ्यायै नमः । चमिताशेषदुष्कृतायै । चिदाकाशवहायै । चिन्त्यायै । चञ्चते । चामरवीजितायै । चोरिताशेषवृजिनायै । चरिताशेषमण्डलायै । छेदिताखिलपापौघायै । छद्मघ्न्यै । छलहारिण्यै । छन्नत्रिविष्टपतलायै । छोटिताशेषबन्धनायै । छुरितामृतधारौघायै । छिन्नैनसे । छन्दगामिन्यै । छत्रीकृतमरालौघायै । छटीकृतनिजामृतायै । जाह्नव्यै । ज्यायै नमः । ३२० ॐ जगन्मात्रे नमः । जप्यायै । जङ्घालवीचिकायै । जयायै । जनार्दनप्रीतायै । जुषणीयायै । जगद्धितायै । जीवनायै । जीवनप्राणायै । जगते । ज्येष्ठायै । जगन्मय्यै । जीवजीवातुलतिकायै । जन्मिजन्मनिबर्हिण्यै । जाड्यविध्वंसनकर्यै । जगद्योनये । जलाविलायै । जगदानन्दजनन्यै । जलजायै । जलजेक्षणायै नमः । ३४० ॐ जनलोचनपीयूषायै नमः । जटातटविहारिण्यै । जयन्त्यै । जञ्जपूकघ्न्यै । जनितज्ञानविग्रहायै । झल्लरीवाद्यकुशलायै । झलज्झालजलावृतायै । झिण्टीशवन्द्यायै । झङ्कारकारिण्यै । झर्झरावत्यै । टीकिताशेषपातालायै । एनोद्रिपाटने टङ्किकैयै । टङ्कारनृत्यत्कल्लोलायै । टीकनीयमहातटायै । डम्बरप्रवहायै । डीनराजहंसकुलाकुलायै । डमड्डमरुहस्तायै । डामरोक्तमहाण्डकायै । ढौकिताशेषनिर्वाणायै । ढक्कानादचलज्जलायै नमः । ३६० ॐ ढुण्ढिविघ्नेशजनन्यै नमः । ढणढ्ढणितपातकायै । तर्पण्यै । तीर्थतीर्थायै । त्रिपथायै । त्रिदशेश्वर्यै । त्रिलोकगोप्त्र्यै । तोयेश्यै । त्रैलोक्यपरिवन्दितायै । तापत्रितयसंहर्त्र्यै । तेजोबलविवर्धिन्यै । त्रिलक्ष्यायै । तारण्यै । तारायै । तारापतिकरार्चितायै । त्रैलोक्यपावनिपुण्यायै । तुष्टिदायै । तुष्टिरूपिण्यै । तृष्णाच्छेत्र्यै । तीर्थमात्रे नमः । ३८० ॐ त्रिविक्रमपदोद्भवायै नमः । तपोमय्यै । तपोरूपायै । तपःस्तोमफलप्रदायै var पदप्रदायै । त्रैलोक्यव्यापिन्यै । तृप्त्यै । तृप्तिकृते । तत्त्वरूपिण्यै । त्रैलोक्यसुन्दर्यै । तुर्यायै । तुर्यातीतफलप्रदायै । त्रैलोक्यलक्ष्म्यै । त्रिपद्यै । तथ्यायै । तिमिरचन्द्रिकायै । तेजोगर्भायै । तपःसारायै । त्रिपुरारिशिरोगृहायै । त्रयीस्वरूपिण्यै । तन्व्यै नमः । ४०० ॐ तपनाङ्गजभीतिनुदे नमः । तरये । तरणिजामित्रायै । तर्पिताशेषपूर्वजायै । तुलाविरहितायै । तीव्रपापतूलतनूनपाते । दारिद्र्यदमन्यै । दक्षायै । दुष्प्रेक्षायै । दिव्यमण्डनायै । दीक्षावत्यै । दुरावाप्यायै । द्राक्षामधुरवारिभृते । दर्शितानेककुतुकायै । दुष्टदुर्जयदुःखहृते । दैन्यहृते । दुरितघ्न्यै । दानवारिपदाब्जजायै । दन्दशूकविषघ्न्यै । दारिताघौघसन्ततायै नमः । ४२० ॐ द्रुतायै नमः । देवद्रुमच्छन्नायै । दुर्वाराघविघातिन्यै । दमग्राह्यायै । देवमात्रे । देवलोकप्रदर्शिन्यै । देवदेवप्रियायै । देव्यै । दिक्पालपददायिन्यै । दीर्घायुष्कारिण्यै । दीर्घायै । दोग्ध्र्यै । दूषणवर्जितायै । दुग्धाम्बुवाहिन्यै । दोह्यायै । दिव्यायै । दिव्यगतिप्रदायै । द्युनद्यै । दीनशरणायै । देहिदेहनिवारिण्यै नमः । ४४० ॐ द्राघीयस्यै नमः । दाघहन्त्र्यै । दितपातकसन्तत्यै । दूरदेशान्तरचर्यै । दुर्गमायै । देववल्लभायै । दुर्वृत्तघ्न्यै । दुर्विगाह्यायै । दयाधारायै । दयावत्यै । दुरासदायै । दानशीलायै । द्राविण्यै । द्रुहिणस्तुतायै । दैत्यदानवसंशुद्धिकर्त्र्यै । दुर्बुद्धिहारिण्यै । दानसारायै । दयासारायै । द्यावाभूमिविगाहिन्यै । दृष्टादृष्टफलप्राप्त्यै नमः । ४६० ॐ देवतावृन्दवन्दितायै नमः । दीर्घव्रतायै । दीर्घदृष्टिर्दीप्ततोयायै । दुरालभायै । दण्डयित्र्यै । दण्डनीतये । दुष्टदण्डधरार्चितायै । दुरोदरघ्न्यै । दावार्चिषे । द्रवते । द्रव्यैकशेवधये । दीनसन्तापशमन्यै । दात्र्यै । दवथुवैरिण्यै । दरीविदारणपरायै । दान्तायै । दान्तजनप्रियायै । दारिताद्रितटायै । दुर्गायै । दुर्गारण्यप्रचारिण्यै नमः । ४८० ॐ धर्मद्रवायै नमः । धर्मधुरायै । धेनवे । धीरायै । धृतये । ध्रुवायै । धेनुदानफलस्पर्शायै । धर्मकामार्थमोक्षदायै । धर्मोर्मिवाहिन्यै । धुर्यायै । धात्र्यै । धात्रीविभूषणाय । धर्मिण्यै । धर्मशीलायै । धन्विकोटिकृतावनायै । ध्यातृपापहरायै । ध्येयायै । धावन्यै । धूतकल्मषायै । धर्मधारायै नमः । ५०० ॐ धर्मसारायै नमः । धनदायै । धनवर्धिन्यै । धर्माधर्मगुणच्छेत्र्यै । धत्तूरकुसुमप्रियायै । धर्मेश्यै । धर्मशास्त्रज्ञायै । धनधान्यसमृद्धिकृते । धर्मलभ्यायै । धर्मजलायै । धर्मप्रसवधर्मिण्यै । ध्यानगम्यस्वरूपायै । धरण्यै । धातृपूजितायै । धूरे । धूर्जटिजटासंस्थायै । धन्यायै । धिये । धारणावत्यै । नन्दायै नमः । ५२० ॐ निर्वाणजनन्यै नमः । नन्दिन्यै । नुन्नपातकायै । निषिद्धविघ्ननिचयायै । निजानन्दप्रकाशिन्यै । नभोङ्गणचर्यै । नूतये । नम्यायै । नारायण्यै । नुतायै । निर्मलायै । निर्मलाख्यानायै । तापसम्पदां नाशिन्यै । नियतायै । नित्यसुखदायै । नानाश्चर्यमहानिधये । नद्यै । नदसरोमात्रे । नायिकायै । नाकदीर्घिकायै नमः । ५४० ॐ नष्टोद्धरणधीरायै नमः । नन्दनायै । नन्ददायिन्यै । निर्णिक्ताशेषभुवनायै । निःसङ्गायै । निरुपद्रवायै । निरालम्बायै । निष्प्रपञ्चायै । निर्णाशितमहामलायै । निर्मलज्ञानजनन्यै । निश्शेषप्राणितापहृते । नित्योत्सवायै । नित्यतृप्तायै । नमस्कार्यायै । निरञ्जनायै । निष्ठावत्यै । निरातङ्कायै । निर्लेपायै । निश्चलात्मिकायै । निरवद्यायै नमः । ५६० ॐ निरीहायै नमः । नीललोहितमूर्धगायै । नन्दिभृङ्गिगणस्तुत्यायै । नागायै । नन्दायै । नगात्मजायै । निष्प्रत्यूहायै । नाकनद्यै । निरयार्णवदीर्घनावे । पुण्यप्रदायै । पुण्यगर्भायै । पुण्यायै । पुण्यतरङ्गिण्यै । पृथवे । पृथुफलायै । पूर्णायै । प्रणतार्तिप्रभञ्जन्यै । प्राणदायै । प्राणिजनन्यै । प्राणेश्यै नमः । ५८० ॐ प्राणरूपिण्यै नमः । पद्मालयायै । परायै । शक्त्यै । पुरजित्परमप्रियायै । परायै । परफलप्राप्त्यै । पावन्यै । पयस्विन्यै । परानन्दायै । प्रकृष्टार्थायै । प्रतिष्ठायै । पालिन्यै । परायै । पुराणपठितायै । प्रीतायै । प्रणवाक्षररूपिण्यै । पार्वत्यै । प्रेमसम्पन्नायै । पशुपाशविमोचन्यै नमः । ६०० ॐ परमात्मस्वरूपायै नमः । परब्रह्मप्रकाशिन्यै । परमानन्दनिष्यन्दायै । प्रायश्चित्तस्वरूपिण्यै var निष्पन्दायै । पानीयरूपनिर्वाणायै । परित्राणपरायणायै । पापेन्धनदवज्वालायै । पापारये । पापनामनुदे । परमैश्वर्यजनन्यै । प्रज्ञायै प्राज्ञायै । परापरायै । प्रत्यक्षलक्ष्म्यै । पद्माक्ष्यै । परव्योमामृतस्रवायै । प्रसन्नरूपायै । प्रणिधये । पूतायै । प्रत्यक्षदेवतायै । पिनाकिपरमप्रीतायै नमः । ६२० ॐ परमेष्ठिकमण्डलवे नमः । पद्मनाभपदार्घ्येण प्रसूतायै । पद्ममालिन्यै । परर्द्धिदायै । पुष्टिकर्यै । पथ्यायै । पूर्त्यै । प्रभावत्यै । पुनानायै । पीतगर्भघ्न्यै । पापपर्वतनाशिन्यै । फलिन्यै । फलहस्तायै । फुल्लाम्बुजविलोचनायै । फालितैनोमहाक्षेत्रायै । फणिलोकविभूषणाय । फेनच्छलप्रणुन्नैनसे । फुल्लकैरवगन्धिन्यै । फेनिलाच्छाम्बुधाराभायै । फडुच्चाटितपातकायै नमः । ६४० ॐ फाणितस्वादुसलिलायै नमः । फाण्टपथ्यजलाविलायै । विश्वमात्रे । विश्वेश्यै । विश्वायै । विश्वेश्वरप्रियायै । ब्रह्मण्यायै । ब्रह्मकृते । ब्राह्म्यै । ब्रह्मिष्ठायै । विमलोदकायै । विभावर्यै । विरजायै । विक्रान्तानेकविष्टपायै । विश्वमित्राय । विष्णुपद्यै । वैष्णव्यै । वैष्णवप्रियायै । विरूपाक्षप्रियकर्य्यै । विभूत्यै नमः । ६६० ॐ विश्वतोमुख्यै नमः । विपाशायै । वैबुध्यै । वेद्यायै । वेदाक्षररसस्रवायै । विद्यायै । वेगवत्यै । वन्द्यायै । बृंहण्यै । ब्रह्मवादिन्यै । वरदायै । विप्रकृष्टायै । वरिष्ठायै । विशोधन्यै । विद्याधर्यै । विशोकायै । वयोवृन्दनिषेवितायै । बहूदकायै । बलवत्यै । व्योमस्थायै नमः । ६८० ॐ विबुधप्रियायै नमः । वाण्यै । वेदवत्यै । वित्तायै । ब्रह्मविद्यातरङ्गिण्यै । ब्रह्माण्डकोटिव्याप्ताम्ब्वै । ब्रह्महत्यापहारिण्यै । ब्रह्मेशविष्णुरूपायै । बुद्ध्यै । विभववर्धिन्यै । विलासिसुखदायै । वश्यायै । व्यापिन्यै । वृषारण्यै । वृषाङ्कमौलिनिलयायै । विपन्नार्तिप्रभञ्जिन्यै । विनीतायै । विनतायै । ब्रध्नतनयायै । विनयान्वितायै नमः । ७०० ॐ वाद्य (विपञ्ची वादा) कुशलायै नमः । वेणुश्रुतिविचक्षणायै । वर्चस्कर्यै । बलकर्यै । बलोन्मूलितकल्मषायै । विपाप्मने । विगतातङ्कायै । विकल्पपरिवर्जितायै । वृष्टिकर्त्र्यै । वृष्टिजलायै । विधये । विच्छिन्नबन्धनायै । व्रतरूपायै । वित्तरूपायै । बहुविघ्नविनाशकृते । वसुधारायै । वसुमत्यै । विचित्राङ्ग्यै । विभायै । वसवे नमः । ७२० ॐ विजयायै नमः । विश्वबीजायै । वामदेव्यै । वरप्रदायै । वृषाश्रितायै । विषघ्न्यै । विज्ञानोर्म्यंशुमालिन्यै । भव्यायै । भोगवत्यै । भद्रायै । भवान्यै । भूतभाविन्यै । भूतधात्र्यै । भयहरायै । भक्तदारिद्र्यघातिन्यै । भुक्तिमुक्तिप्रदायै । भेश्यै । भक्तस्वर्गापवर्गदायै । भागीरथ्यै । भानुमत्यै नमः । ७४० ॐ भाग्यायै नमः । भोगवत्यै । भृतये । भवप्रियायै । भवद्वेष्ट्र्यै । भूतिदायै । भूतिभूषणायै । भाललोचनभावज्ञायै । भूतभव्यभवत्प्रभ्वे । भ्रान्तिज्ञानप्रशमन्यै । भिन्नब्रह्माण्डमण्डपायै । भूरिदायै । भक्तिसुलभायै । भाग्यवद्दृष्टिगोचर्यै । भञ्जितोपप्लवकुलायै । भक्ष्यभोज्यसुखप्रदायै । भिक्षणीयायै । भिक्षुमात्रे । भावायै । भावस्वरूपिण्यै नमः । ७६० ॐ मन्दाकिन्यै नमः । महानन्दायै । मात्रे । मुक्तितरङ्गिण्यै । महोदयायै । मधुमत्यै । महापुण्यायै । मुदाकर्यै । मुनिस्तुतायै । मोहहन्त्र्यै । महातीर्थायै । मधुस्रवायै । माधव्यै । मानिन्यै । मान्यायै । मनोरथपथातिगायै । मोक्षदायै । मतिदायै । मुख्यायै । महाभाग्यजनाश्रितायै नमः । ७८० ॐ महावेगवत्यै नमः । मेध्यायै । महायै । महिमभूषणायै । महाप्रभावायै । महत्यै । मीनचञ्चललोचनायै । महाकारुण्यसम्पूर्णायै । महर्द्धयै । महोत्पलायै । मूर्तिमते । मुक्ति(मूर्तिमन्मुक्ति) रमण्यै । मणिमाणिक्यभूषणायै । मुक्ताकलापनेपथ्यायै । मनोनयननन्दिन्यै । महापातकराशिघ्न्यै । महादेवार्धहारिण्यै । महोर्मिमालिन्यै । मुक्तायै । महादेव्यै नमः । ८०० ॐ मनोन्मन्यै नमः । महापुण्योदयप्राप्यायै । मायातिमिरचन्द्रिकायै । महाविद्यायै । महामायायै । महामेधायै । महौषधाय । मालाधर्यै । महोपायायै । महोरगविभूषणायै । महामोहप्रशमन्यै । महामङ्गलमङ्गलाय । मार्तण्डमण्डलचर्यै । महालक्ष्म्यै । मदोज्झितायै । यशस्विन्यै । यशोदायै । योग्यायै । युक्तात्मसेवितायै । योगसिद्धिप्रदायै नमः । ८२० ॐ याज्यायै नमः । यज्ञेशपरिपूरितायै । यज्ञेश्यै । यज्ञफलदायै । यजनीयायै । यशस्कर्यै । यमिसेव्यायै । योगयोनये । योगिन्यै । युक्तबुद्धिदायै । योगज्ञानप्रदायै । युक्तायै । यमाद्यष्टाङ्गयोगयुक् । यन्त्रिताघौघसञ्चारायै । यमलोकनिवारिण्यै । यातायातप्रशमन्यै । यातनानामकृन्तन्यै । यामिनीशहिमाच्छोदायै । युगधर्मविवर्जितायै । रेवत्यै नमः । ८४० ॐ रतिकृते नमः । रम्यायै । रत्नगर्भायै । रमायै । रतये । रत्नाकरप्रेमपात्राय । रसज्ञायै । रसरूपिण्यै । रत्नप्रासादगर्भायै । रमणीयतरङ्गिण्यै । रत्नार्चिषे । रुद्ररमण्यै । रागद्वेषविनाशिन्यै । रमायै । रामायै । रम्यरूपायै । रोगिजीवानुरूपिण्यै । रुचिकृते । रोचन्यै । रम्यायै नमः । ८६० ॐ रुचिरायै नमः । रोगहारिण्यै । राजहंसायै । रत्नवत्यै । राजत्कल्लोलराजिकायै । रामणीयकरेखायै । रुजारये । रोगरोषिण्यै var रोगशोषिण्यै । राकायै । रङ्कार्तिशमन्यै । रम्यायै । रोलम्बराविण्यै । रागिण्यै । रञ्जितशिवायै । रूपलावण्यशेवधये । लोकप्रसुवे । लोकवन्द्यायै । लोलत्कल्लोलमालिन्यै । लीलावत्यै । लोकभूमये नमः । ८८० ॐ लोकलोचनचन्द्रिकायै नमः । लेखस्रवन्त्यै । लटभायै । लघुवेगायै । लघुत्वहृते । लास्यत्तरङ्गहस्तायै । ललितायै । लयभङ्गिगायै । लोकबन्धवे । लोकधात्र्यै । लोकोत्तरगुणोर्जितायै । लोकत्रयहितायै । लोकायै । लक्ष्म्यै । लक्षणलक्षितायै । लीलायै । लक्षितनिर्वाणायै । लावण्यामृतवर्षिण्यै । वैश्वानर्यै । वासवेड्यायै नमः । ९०० ॐ वन्ध्यत्वपरिहारिण्यै नमः । वासुदेवाङ्घ्रिरेणुघ्न्यै । वज्रिवज्रनिवारिण्यै । शुभावत्यै । शुभफलायै । शान्त्यै । शन्तनुवल्लभायै । शूलिन्यै । शैशववयसे । शीतलामृतवाहिन्यै । शोभावत्यै । शीलवत्यै । शोषिताशेषकिल्बिषायै । शरण्यायै । शिवदायै । शिष्टायै । शरजन्मप्रसुवे । शिवायै । शक्तये । शशाङ्कविमलायै नमः । ९२० ॐ शमनस्वसृसम्मतायै नमः । शमायै । शमनमार्गघ्न्यै । शितिकण्ठमहाप्रियायै । शुचये । शुचिकर्यै । शेषायै । शेषशायिपदोद्भवायै । श्रीनिवासश्रुत्यै । श्रद्धायै । श्रीमत्यै । श्रियै । शुभव्रतायै । शुद्धविद्यायै । शुभावर्तायै । श्रुतानन्दायै । श्रुतिस्तुतये । शिवेतरघ्न्यै । शबर्यै । शाम्बरीरूपधारिण्यै नमः । ९४० ॐ श्मशानशोधन्यै नमः । शान्तायै । शश्वते । शतधृति(शश्वच्छतधृति)स्तुतायै । शालिन्यै । शालिशोभाढ्यायै । शिखिवाहनगर्भभृते । शंसनीयचरित्रायै । शातिताशेषपातकायै । षड्गुणैश्वर्यसम्पन्नायै । षडङ्गश्रुतिरूपिण्यै । षण्ढताहारिसलिलायै । स्त्यायन्नदनदीशतायै । सरिद्वरायै । सुरसायै । सुप्रभायै । सुरदीर्घिकायै । स्वः सिन्धवे । सर्वदुःखघ्न्यै । सर्वव्याधिमहौषधाय नमः । ९६० ॐ सेव्यायै नमः । सिद्धयै । सत्यै । सूक्तये । स्कन्दसुवे । सरस्वत्यै । सम्पत्तरङ्गिण्यै । स्तुत्यायै । स्थाणुमौलिकृतालयायै । स्थैर्यदायै । सुभगायै । सौख्यायै । स्त्रीषु सौभाग्यदायिन्यै । स्वर्गनिःश्रेणिकायै । सूक्ष्मायै var सूमायै । स्वधायै । स्वाहायै । सुधाजलाय । समुद्ररूपिण्यै । स्वर्ग्यायै नमः । ९८० ॐ सर्वपातकवैरिण्यै नमः । स्मृताघहारिण्यै । सीतायै । संसाराब्धितरण्डिकायै । सौभाग्यसुन्दर्यै । सन्ध्यायै । सर्वसारसमन्वितायै । हरप्रियायै । हृषीकेश्यै । हंसरूपायै । हिरण्मय्यै । हृताघसङ्घायै । हितकृते । हेलायै । हेलाघगर्वहृते । क्षेमदायै । क्षालिताघौघायै । क्षुद्रविद्राविण्यै । क्षमायै । गङ्गायै नमः । १०००