अक्षर आकार:

गङ्गासाम्राज्यकवचं

Ganga Samrajya Kavacham

गङ्गासाम्राज्यकवचं

॥ श्रीगणेशाय नमः ॥ श्रीदेव्युवाच -- देवेश! परमेशान ! भक्तानुग्रहकारक ! । गङ्गायाः कवचं ब्रूहि यद्यहं तव वल्लभा ॥ १॥ श्रीशिव उवाच -- श‍ृणु देवि ! प्रवक्ष्यामि गङ्गायाः कवचं शुभम् । यस्य स्मरणमात्रेण भवेत्साक्षान्महेश्वरः ॥ २॥ पुत्रप्रदमपुत्राणां दरिद्राणां धनप्रदम् । मोक्षप्रदं मुमुक्षूणां श‍ृणु चैकमना प्रिये ! ॥ ३॥ ॐ ओङ्कारी ब्रह्मरूपा ब्रह्महत्यापहारिणी । तारिणी सर्वलोकानां दायिनी सर्वसम्पदाम् ॥ ४॥ सर्वसौख्यकरी सत्यं कवचं तद्वदामि ते । ॐ अस्य श्रीगङ्गासाम्राज्यकवचमन्त्रस्य श्रीभगवान् महादेव ऋषिरनुष्टुप्छन्दः, श्रीगङ्गापरमेश्वरी देवता, ॐ ऐं बीजं हिलि हिलि मिलि मिलि शक्तिः, गङ्गे मां पावय पावय स्वाहा इति कीलकम्, धर्मार्थकाममोक्षार्थे जपे विनयोगः । ॐ शिरो मे प्रणवः पातु सर्वसिद्धिकरीश्वरी ॥ ५॥ ऐँ बीजं में शिखां पातु गङ्गा त्रैलोक्यसुन्दरी । ह्रिङ्कारी मस्तके मेऽव्याल्लिकारं मे ललाटके ॥ ६॥ पुनः पातु महामाया हिकारी परदेवता ॥ ७॥ मिकारी मुखमध्ये तु लिकारी श्रोत्रयोर्मम । कण्ठमध्ये सदा पातु मिकारी वाग्विलासिनी ॥ ८॥ लिकारी हृदयं रक्षेद्गङ्गे पापापहारिणी ॥ स्तनद्वन्द्वे सदा मेऽव्यान्माङ्कारी परमेश्वरी ॥ ९॥ पाकारी पार्श्वयोः पातु वकारं नाभिदेशके । यकारं मे कटिं पातु पाकारी लिङ्गदेशके ॥ १०॥ पुनः पाकारं मे पातु गुह्यदेशे निरन्तरम् । वकारं जङ्घयोः पातु पकारं मम जानुनी ॥ ११॥ स्वाकारं गुल्फयोः पातु हाकारं पादयोः सदा । सर्वाङ्गं मे सदा पातु गङ्गा सवार्थसिद्धिदा ॥ १२॥ इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् । पठनाद्ब्रह्मसायुज्यं प्राप्नुयान्नात्र संशयः ॥ १३॥ सप्तम्यां वा चतुर्दश्यां सङ्क्रान्तौ ग्रहणे तथा । यः पठेन्नित्यकृद् भक्त्या सर्वसिद्धीश्वरो भवेत् ॥ १४॥ इदं कवचमज्ञात्वा गङ्गां यो भजतेऽधमः । जन्मजन्म भवेन्मूर्खो दरिद्रो व्याधिसंयुतः ॥ १५॥ तस्मादवश्यमेतत्तु यः पठेन्नित्यमेव हि । सर्वसम्पद्युतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥ १६॥ इति श्रीशिवशिवानन्दनाथविरचितं श्रीगङ्गासाम्राज्यकवचम् ।