अक्षर आकार:

गङ्गापुष्पाञ्जलिः

Gangapushpanjalih

गङ्गापुष्पाञ्जलिः

श्रीगणेशाय नमः । स्वयं शुक्ला शुक्लाभरणवसना जह्नुतनये द्युतिं वाचां देवी तव न कलयाप्तुं प्रभुरभूत् । अतो रूपं लब्धुं सुकविवदनाम्भोजजनितै विर्धत्ते वाग्गुम्फैर्जननि ! पदपुष्पाञ्जलिमसौ ॥ १॥ कदाचित्केनापि क्वचिदपि समानीत्तममलं पिबन्तः पानीयं तव जननि ! मीनासनगते ! । वहन्तस्त्वां गङ्गे! शिरसि किल हालाहलभुजो लभन्ते ते लोके शमनदमनान्नात्र शमनम् ॥ २॥ सदावृत्तास्तुङ्गान् भुवि वियति धारागतिधरान् तरङ्गान् गङ्गायाः सुतरलतुरङ्गाकृतिधरान् । विचित्रा वीक्ष्यैते विषयगतयो वृत्तिनिवहा स्त्रपाधीना पीना अपि जहति दीनाश्चपलताम् ॥ ३॥ कृपासिन्धुः सिन्धुं किमुत भवतीमत्र भवती प्रपां पीयूषस्य प्रतिदिनमुमेशो वितनुते । अथो रूपं कृत्वा जगति जनतातारणपटुः स्वयं मायोत्तीर्णा सुरनदि ! सुधाधामशिरसः ॥ ४॥ पुरा धृत्वा पात्रे त्रिभुवन-विधाता विधिरभू दिति ज्ञात्वा पाथः शिरसि पशुनाथस्तव दधौ । ᳚दे जाने ज्ञानात्सुरनदि ! पुराणस्तु पुरुषः शरत्पाथोनष्टा सुमतिरिति तथ्यं जनवचः ॥ ५॥ अरित्रं नो यस्यां नहि गुणधरो नाविकगणः परं पारं नारं नयति न पुनर्याति ननु या । असारे संसारे जलधिवदपारे निपतितान् जनानुद्धर्तुं सा तरिरियमपूर्वा विजयते ॥ ६॥ विशेषाच्छेषस्ते गुणगणमशेषं निगदितुं प्रभुर्वक्तुं दोषान् सदसि बहुरोषान्मुहुरहम् । ब्रुवे मज्जज्जन्तोर्जननि ! जयति व्यालपटली विशाली कण्ठे च स्थितिरपि सदा भूतभुवने ॥ ७॥ समायाता कस्मात्क्क च जगति यातीयमधुना कथङ्कारं पारं तव जननि ! जानन्ति विबुधाः । न तेषां हानिः स्यात्सुरनदि ! तवापारविदुषां जना मूढाः किं ये भुवि शशविषाणं न हि विदुः ॥ ८॥ त्वदन्ये मन्येऽहं दधति विबुधाः सिद्धिनिचयं प्रसन्ना भक्तेभ्यो निजजपरतेभ्योऽपि निखिलाः । पिबन्तं पानीयं तपनकरतप्तं तनुभृतं विधत्से सिद्धीशं सुरनदि ! गिरीशं च कृपया ॥ ९॥ पूर्णेन्दोर्दत्तभङ्गाःसुरपुरललनोद्वर्त्तनैश्चापि पिङ्गाः शम्भुं गन्तुं तुरङ्गा हरिपदगमने वैनतेयो विहङ्गाः । वित्ताशादत्तचित्तानुदरभृतिपरान्तीरगान्भुक्तभोगान् भुक्तेशानप्रसङ्गाज्जगति कलियुगात्पान्तु गङ्गातरङ्गाः ॥ १०॥ इति श्रीमद्गुरुणा विरचितः गङ्गापुष्पाञ्जलिः सम्पूर्णः ।