अक्षर आकार:

गङ्गाप्रबन्धः

Gangaprabandhah

गङ्गाप्रबन्धः

श्रीगणेशाय नमः । मधुमथनमूर्तिवर इन्दुकरकामुखं वहसि बहु वारि सुतरङ्गे । हरिचरणनखभिदुरजगदण्डनिर्गता ब्रह्मजलपात्रकृतसङ्गे ॥ १॥ नमो देवि गङ्गे नमो देवि गङ्गे हरनिखिलमघमलकनन्दे ॥ ध्रुवम् ॥ त्वमसि जनपावनी चतुरुदधिगामिनी सप्तर्षिकुलसुकृतसारे । कनकगिरिलङ्गिते सकलमुनिवन्दिते हरमुकुटसितकुसुममाले ॥ २॥ सगरसुतसङ्गमे लसदमरसुन्दरीदूतिके दुष्कृतिदुरापे । निरयगतिबाधके निर्वाणसाधके भक्तजनहृतसन्तापे । नमो०॥ ३॥ तीर्थवरकारिणी पूर्वजोद्धारिणी हिमशैलपाषाणभेदे । नागरं प्लावयसि पूरयसि सागरं सङ्गता विन्ध्यगिरिपादे ॥ नमो०॥ ४॥ शुभसलिलनिधौतपुलिनवति कुर्वतस्तव नामनिर्मलालापम् । वन्दिता वीक्षिता चिन्तितावगाहिता मज्जिता मम हरसि पापम् ॥ नमो०॥ ५॥ इह निखिलमुनिगणैरिह निखिलसुरगणैरिह निखिलवेदैरुदारे । पीयसे जीयसे स्तूयसे जन्हुमुनिकन्यके संसारसारे ॥ नमो०॥ ६॥ गण्डूषमिह मेऽघशतमधिजयतु तव करनिकरगम्भीरतोये । परलोकबन्धुरसि सुन्दरसिन्धुरसि तटिनि सुरसदनसाधनोपाये ॥ नमो०॥ ७॥ इति रामलक्ष्मणकौशिकानुज्ञया सुरसरित् कृतनमस्कारं भणन्तमिह सादरं धीरजयदेवकविमुत्तारयसि भवजलधिपारम् ॥ नमो०॥ ८॥ इति धीरजयदेवकृतः गङ्गाप्रबन्धः सम्पूर्णः ।