अक्षर आकार:

गङ्गामङ्गलम्

Gangamangalam

गङ्गामङ्गलम्

श्रीगणेशाय नमः । हरिचरणचारिणी शिशिरगिरिदारिणी कलुषभरवारणतरङ्गा नियतकलनादिनी विमलजलशालिनी तारिणी जयति भुवि गङ्गा । नित्यमिह तापसा धर्मचितमानसाः स्नानविधिलब्धनवदेहाः कृतबहुलदुष्कृता अपि कलुषवर्जिता दधति मुदमाप्तसुरगेहाः ॥ १॥ पूततमसैकते धवलसिकतावृते योगिनो जपनियममग्नाः स्वनयननिमीलना गतविषयदर्शना ध्येयसुरसंस्मरणलग्नाः । बन्धविनिवृत्तये हसितजलसञ्चये प्रतिदिवसमत्र समवेताः क्लेशशतमञ्जसा पुण्यचितचेतसा वृण्वते सम्मदमुपेताः ॥ २॥ वणिगुचितकर्मणा तरणिशतशोभनासुमपकृतिमत्र भुवि धत्त् मकरवरवाहना जनपदहितैषणाव्याकुला सुकृतमपि दत्ते । ऐहिकशुभाशमा परमपदवाञ्छया यामिमां श्रयति जनमाला जयति भयहारिका जहुमुनिदारिका सा चिरं विजितकलिकाला ॥ ३॥ त्रिभुवनमिदं यया धन्यमनुवृत्तया लोकयुगकुशलशतसृष्टया रोगगणनाशिनी पृष्टिपरिवेशिनी दशहरा शास्त्रविधिदृष्टया । तीरतरुमजुला जलधिमभि चञ्चला सेयमहिमङ्गलतरङ्गा गिरिशशिरसार्चिता सुरमनुजपूजिता पावनी जयति भुवि गङ्गा ॥ ४॥ ब्रह्माण्डोदरभेदनाद् भगवतः पादाङ्गुलीनां नखैः जातो यो विवरस्ततोर्चनजलस्रोतोऽवहद् वेगतः । तस्माच्छम्भुशिरस्ततो हिमगिरिं तस्मादिदं भूतलं गङ्गागत्य पुनाति सर्वभुवनं श्रीभक्तिभागीरथी ॥ ५॥ इति गङ्गामङ्गलं सम्पूर्णम् ।