अक्षर आकार:

गंगालहरी

Gangalahari by Jagannatha Pandit

गंगालहरी

समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन् महैश्वर्यं लीलाजनितजगतः खण्डपरशोः । श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां सुधासोदर्यं ते सलिलमशिवं नः शमयतु ॥ १॥ दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां द्रुतं दूरीकुर्वन् सकृदपि गतो दृष्टिसरणिम् । अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिह प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः ॥ २॥ उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी- कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः । भवन्तु त्वङ्गन्तो हरशिरसि गङ्गातनुभुव- स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ॥ ३॥ तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः । इदानीमौदास्यं भजसि यदि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः ॥ ४॥ स्मृतिं याता पुंसामकृतसुकृतानामपि च या हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः । इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला ममान्तःसन्तापं त्रिविधमपि पापं च हरताम् ॥ ५॥ अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा विलोलद्वानीरं तव जननि तीरं श्रितवताम् । सुधातः स्वादीयस्सलिलभरमातृप्ति पिबतां जनानामानन्दः परिहसति निर्वाणपदवीम् ॥ ६॥ प्रभाते स्नातीनां नृपतिरमणीनां कुचतटी- गतो यावन्मातर्मिलति तव तोयैर्मृगमदः । मृगास्तावद्वैमानिकशतसहस्रैः परिवृता विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ॥ ७॥ स्मृतं सद्यः स्वान्तं विरचयति शान्तं सकृदपि प्रगीतं यत्पापं झटिति भवतापं च हरति । इदं तद्गङ्गेति श्रवणरमणीयं खलु पदं मम प्राणप्रान्ते वदनकमलान्तर्विलसतु ॥ ८॥ यदन्तः खेलन्तो बहुलतरसन्तोषभरिता न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः । निवासाल्लोकानां जनिमरणशोकापहरणं तदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥ ९॥ न यत्साक्षाद्वेदैरपि गलितभेदैरवसितं न यस्मिन् जीवानां प्रसरति मनोवागवसरः । निराकारं नित्यं निजमहिमनिर्वासिततमो विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः ॥ १०॥ महादानैर्ध्यानैर्बहुविधवितानैरपि च यन् न लभ्यं घोराभिः सुविमलतपोराशिभिरपि । अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया ददाना केनासि त्वमिह तुलनीया कथय नः ॥ ११॥ नृणामीक्षामात्रादपि परिहरन्त्या भवभयं शिवायास्ते मूर्तेः क इह महिमानं निगदतु । अमर्षम्लानायाः परममनुरोधं गिरिभुवो विहाय श्रीकण्ठः शिरसि नियतं धारयति याम् ॥ १२॥ विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै- रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ १३॥ स्खलन्ती स्वर्लोकादवनितलशोकापहृतये जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा । अये निर्लोभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोषः परिणतः ॥ १४॥ जडानन्धान् पङ्गून् प्रकृतिबधिरानुक्तिविकलान् ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् । निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥ १५॥ स्वभावस्वच्छानां सहजशिशिराणामयमपा- मपारस्ते मातर्जयति महिमा कोऽपि जगति । मुदायं गायन्ति द्युतलमनवद्यद्युतिभृतः समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः ॥ १६॥ कृतक्षुद्रैनस्कानथ झटिति सन्तप्तमनसः समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः । अपि प्रायश्चित्तप्रसरणपथातीतचरिता- न्नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥ १७॥ निधानं धर्माणां किमपि च विधानं नवमुदां प्रधानं तीर्थानाममलपरिधानं त्रिजगतः । समाधानं बुद्धेरथ खलु तिरोधानमधियां श्रियामाधानं नः परिहरतु तापं तव वपुः ॥ १८॥ पुरो धावं धावं द्रविणमदिराघूर्णितदृशां महीपानां नानातरुणतरखेदस्य नियतम् । ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियो वियोगस्ते मातर्यदिह करुणातः क्षणमपि ॥ १९॥ मरुल्लीलालोलल्लहरिलुलिताम्भोजपटली- स्खलत्पांसुव्रातच्छुरणविसरत्कौङ्कुमरुचि । सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं जलं ते जम्बालं मम जननजालं जरयतु ॥ २०॥ समुत्पत्तिः पद्मारमणपदपद्मामलनखा- न्निवासः कन्दर्पप्रतिभटजटाजूटभवने । अथाऽयं व्यासङ्गो हतपतितनिस्तारणविधौ न कस्मादुत्कर्षस्तव जननि जागर्तु जगति ॥ २१॥ नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे । कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥ २२॥ विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः । कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः सवित्री कामानां यदि जगति जागर्ति जननी ॥ २३॥ अनाथः स्नेहार्द्रां विगलितगतिः पुण्यगतिदां पतन् विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम् । सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं शिशुः सम्प्राप्तस्त्वामहमिह विदध्याः समुचितम् ॥ २४॥ विलीनो वै वैवस्वतनगरकोलाहलभरो गता दूता दूरं क्वचिदपि परेतान् मृगयितुम् । विमानानां व्रातो विदलयति वीथिर्दिविषदां कथा ते कल्याणी यदवधि महीमण्डलमगात् ॥ २५॥ स्फुरत्कामक्रोधप्रबलतरसञ्जातजटिल- ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम् । हरन्तां सन्तापं कमपि मरुदुल्लासलहरि- च्छटाचञ्चत्पाथःकणसरणयो दिव्यसरितः ॥ २६॥ इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनं तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव । स एष श्रीकण्ठप्रविततजटाजूटजटिलो जलानां सङ्घातस्तव जननि तापं हरतु नः ॥ २७॥ त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इमं त्वं मामम्ब त्वमियमनुकम्पार्द्रहृदये पुनाना सर्वेषामघमथनदर्पं दलयसि ॥ २८॥ श्वपाकानां व्रातैरमितविचिकित्साविचलितै- र्विमुक्तानामेकं किल सदनमेनःपरिषदाम् । अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरं तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥ २९॥ न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो यदुद्धारादाराद्भवति जगतो विस्मयभरः । इतीमामीहां ते मनसि चिरकालं स्थितवती- मयं सम्प्राप्तोऽहं सफलयितुमम्ब प्रणय नः ॥ ३०॥ श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं कुतर्केश्वभ्यासः सततपरपैशुन्यमननम् । अपि श्रावं श्रावं मम तु पुनरेवं गुणगणा- नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥ ३१॥ विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनुः । अयं हि न्यक्कारो जननि मनुजस्य श्रवणयो- र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥ ३२॥ विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः पतन्ति द्राक् पापा जननि नरकान्तः परवशाः । विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदे न यत्र त्वं लीलादलितमनुजाशेषकलुषा ॥ ३३॥ अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीः पिबन्तो मैरेयं पुनरपि हरन्तश्च कनकम् । विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा- मुपर्यम्ब क्रीडन्त्यखिलसुरसम्भावितपदाः ॥ ३४॥ अलभ्यं सौरभ्यं हरति सततं यः सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्षतहृदाम् । त्वदीयानां लीलाचलितलहरीणां व्यतिकरात् पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥ ३५॥ कियन्तः सन्त्येके नियतमिहलोकार्थघटकाः परे पूतात्मानः कति च परलोकप्रणयिनः । सुखं शेते मातस्तव खलु कृपातः पुनरयं जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ॥ ३६॥ भवत्या हि व्रात्याधमपतितपाखण्डपरिषत् परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा । ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥ ३७॥ प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा- तटाभोगप्रेङ्खल्लहरिभुजसन्तानविधुतिः । बिलक्रोडक्रीडज्जलडमरुटङ्कारसुभग- स्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥ ३८॥ सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे । तदा विश्वासोऽयं त्रिभुवनतलादस्तमयते निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥ ३९॥ कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः पुरारेः प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ । भवान्या सापत्न्यस्फुरितनयनं कोमलरुचा करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥ ४०॥ प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती- मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि । शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि स्वभावादेव त्वय्यमितमनुरागं विधृतवान् ॥ ४१॥ ललाटे या लोकैरिह खलु सलीलं तिलकिता तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् । विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं त्वदीया सा मृत्स्ना मम हरतु कृत्स्नामपि शुचम् ॥ ४२॥ नरान् मूढांस्तत्तज्जनपदसमासक्तमनसो हसन्तः सोल्लासं विकचकुसुमव्रातमिषतः । पुनानाः सौरभ्यैः सततमलिनो नित्यमलिनान् सखायो नः सन्तु त्रिदशतटिनीतीरतरवः ॥ ४३॥ यजन्त्येके देवान् कठिनतरसेवांस्तदपरे वितानव्यासक्ता यमनियमरक्ताः कतिपये । अहं तु त्वन्नामस्मरणकृतकामस्त्रिपथगे जगज्जालं जाने जननि तृणजालेन सदृशम् ॥ ४४॥ अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः । निरस्तालम्बानामकृतसुकृतानां तु भवतीं विनाऽमुष्मिंल्लोके न परमवलोके हितकरम् ॥ ४५॥ पयः पीत्वा मातस्तव सपदि यातः सहचरै- र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् । इदानीमुत्सङ्गे मृदुपवनसञ्चारशिशिरे चिरादुन्निद्रं मां सदयहृदये शायय चिरम् ॥ ४६॥ बधान द्रागेव द्रढिमरमणीयं परिकरं किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः । न कुर्यास्त्वं हेलामितरजनसाधारणतया जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥ ४७॥ शरच्चन्द्रश्वेतां शशिशकलश्वेतालमुकुटां करैः कुम्भाम्भोजे वरभयनिरासौ च दधतीम् । सुधाधाराकाराभरणवसनां शुभ्रमकर- स्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभवः ॥ ४८॥ दरस्मितसमुल्लसद्वदनकान्तिपूरामृतै- र्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् । चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती तनोतु मम शन्तनोः सपदि शन्तनोरङ्गना ॥ ४९॥ मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतैर्ग्रावभिः । वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि त्वं तापं तिरयाधुना मम भवज्वालावलीढात्मनः ॥ ५०॥ द्यूते नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दीन्दुमुख्यं सर्वस्वं हारयित्वा स्वमथ पुरभिदि द्राक् पणीकर्तुकामे । साकूतं हैमवत्या मृदुलहसितया वीक्षितायास्तवाम्ब व्यालोलोल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ॥ ५१॥ विभूषितानङ्गरिपूत्तमाङ्गा सद्यःकृतानेकजनार्तिभङ्गा । मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५२॥ इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् । यः पठेत्तस्य सर्वत्र जायन्ते सुखसम्पदः ॥ ५३॥