अक्षर आकार:

गङ्गाकवचम्

Gangakavacham

गङ्गाकवचम्

नारद उवाच - ब्रह्मन् ! केन विधानेन सर्वपापक्षयो भवेत् । कथं रक्षेत्सुरश्रेष्ठ साधकानां सुरापगा ॥ १॥ ब्रह्मोवाच - साधु साधु त्वया पुत्र ! साधु कर्म प्रकाशितम् । कवचं जह्नुकन्याया त्रिषु लोकेषु दुर्लभम् ॥ २॥ अप्रकाश्यं च यद्गोप्यमतस्तत्त्ववधार्यताम् । अस्य श्री गङ्गाकवचमन्त्रस्य नारायणऋषिरनुष्टुप्छन्दः सर्वतीर्थोत्तमा गङ्गादेवता गं बीजं गाः शक्तिः अव्यक्तं कीलकं श्रीगङ्गाप्रसादसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानं - शुभ्राम्भोजशशिप्रभां शशिमुखीं स्वक्षाम्बुजाक्षीं परां मुक्ताहारलसत्कुचां मणिमयैराभूषितां भूषणैः । कञ्जस्वर्णघटीवराभयकरां श्वेताम्बराडम्बरां पद्मोत्पीठगतां सुधासमुदितां श्रीदेवभूषां भजे ॥ १॥ वन्दे देवतरङ्गिणीं प्रतिदिनं ब्रह्माण्डमाखण्डिनीं शम्भोर्मस्तकमण्डिनीं मुररिपोरङ्घ्य्म्बुजासेविनीम् । कल्याणोत्सवकारिणीं कलिमलोन्मूलत्वनिर्मूलिनी मोक्षद्वारकपाटपाटनकरीं नित्यं चिदानन्दिनी ॥ २॥ अथ कवचं - शिरो मे पातु सा गङ्गा दिव्याच्युताङ्घ्रिच्युता । भालं भागीरथी पातु नेत्रे च जह्नुनन्दिनी ॥ ३॥ श्रुती मे जाह्नवी पातु घ्राणयुग्मं सुरापगा । रसनां पातु मे नित्यं गङ्गा पापप्रणाशिनी ॥ ४॥ वदनं सकलं पातु सदा मन्दाकिनी मम । स्कन्धौ पातु च मे बाहू गङ्गा सागरगामिनी ॥ ५॥ करौ रक्षतु सा गङ्गा शम्भुमस्तकमण्डिनी । हृदयं नाभिमध्यं च पातु देवनदी मम ॥ ६॥ कटिद्वयं सदा पातु ब्रह्माण्डखण्डिनी मम । जानुनी जह्नुजा पातु पायादूरूं त्रिमार्गगा ॥ ७॥ गुल्फयुग्मं सदा पातु सा मे शर्मप्रदायिनी । प्रपदं पातु मे नित्यं कलिकल्मषनाशिनी ॥ ८॥ काशीतलगता या च कालिन्दीसङ्गमा च या । सा पातु मम सर्वाङ्गं गङ्गा गगनमेखला ॥ ९॥ निर्जरैर्वन्दिता या च चतुर्वर्गफलप्रदा । तस्या इदं च गङ्गायाः कवचं परमाद्भुतम् ॥ १०॥ अथ फलश्रुतिः - अनन्तव्याधिविध्वंसि कीर्तिबुद्धिप्रवर्द्धनम् । शोकदुःखप्रशमनं सर्वरक्षाकरं नृणाम् ॥ ११॥ शत्रोर्विनाशनं शश्वत्सुखसम्पत्प्रवर्धनम् । योऽधीयात् कवचं चैतन्मुक्तपापो भवेच्च सः ॥ १२॥ एककालं द्विकालं च त्रिकालं च पठेत्तु यः । पठेद्यो वै शतावृत्त्या मासमेकं निरन्तरम् ॥ १३॥ धृत्वेदं कवचं कण्ठे गच्छेद्यो यत्र कुत्रचित् । स्वप्ने मूर्तिमयीं गङ्गां वरदां सोऽपि पश्यति ॥ १४॥ धनधान्यसमायुक्तः पुत्रपौत्रसमन्वितः । त्रिषु लोकेषु पूज्यः स्यादस्य पाठान्न संशयः ॥ १५॥ श‍ृणुयात्परया भक्त्या वाच्यमानं नरोत्तमः । सोऽप्यघौघविनिर्मुक्तो जीवन्मुक्तो भवेच्च यः ॥ १६॥ दुर्भिक्षे दुर्गबन्धे विषमजलचये कानने दुष्टचौरैः दीप्ते वह्निप्रदाहे प्रबलरिपुभये राज्यदुःखे प्रवृत्ते । स्मृत्वा देवीं च गङ्गां त्रिभुवनजननीं वा पठेद् यो हि चैतत् तैस्तैर्दुखैर्विमुक्तो सपदि स मनुजो जायते सत्यमेतत् ॥ १७॥ कुलीनाय च दातव्यं गङ्गाभक्तिपराय च । विष्णुभक्ताय शान्ताय श्रद्दधानाय सर्वदा ॥ १८॥ कुशिष्याय न दातव्यं दुष्टाय च विशेषतः । दत्वाऽभक्ताय पुत्राय नेदं फलप्रदं भवेत् ॥ १९॥ साधकाय च शान्ताय गुरोराज्ञानुवर्तिने । दातव्यं च त्वया तात दत्वाऽनन्तफलं भवेत् ॥ २०॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसम्वादे श्रीगङ्गाकवचं सम्पूर्णम् ॥