सर्वार्थसाधनाभिधं गङ्गा कवचं
ॐ श्री गणेशाय नमः ।
शिव उवाच ।
शृणु देवि प्रवक्ष्यामि सहस्येऽपि रहस्यकम् ।
गङ्गायाः कवचं दिव्यं गोपनीयं त्वया सदा ॥ १॥
न कस्यापि प्रवक्तव्यं वक्तव्यं स्वात्मिकाय तत् ।
न दर्शयन्ति सर्वागं विना भर्त्तुर्यथास्त्रियः ॥ २॥
तस्मात्त्वया न वक्तव्यं कवचं लोकसुन्दरि ।
गङ्गायाः कवचस्याऽस्य वेदव्यास ऋषिः स्मृतः ॥ ३॥
छन्दोऽतिजगती प्रोक्तं देवता। सुरसरित्स्मृता ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ॥ ४॥
प्रणवो मे शिरः पातु नमः पातु ललाटकम् ।
भगवती मे दृशो पातु कर्णौ ह्यम्बे ततोऽवतु ॥ ५॥
अम्बालिके महामाली हिलि नासापुटद्वयम् ।
कपौलौ मे सदा पातु चैह्येहि भगवत्यऽथ ॥ ६॥
मुखं मे सततं रक्षेद् द्रवरूपा शुचिप्रभा ।
अशेषतीर्थालवाले हनुमेव सदावतु ॥ ७॥
जिह्वामूले च जिह्वाग्रे ह्रीं श्रीं बीजे सदावताम् ।
शिवजटाधिरूढे च गङ्गे चोष्ठद्वयेऽवतु ॥ ८॥
दन्न्तपङ्क्तौ च कण्ठे च पातु गङ्गा विशेषतः ।
स्कन्धौ मे ॐ नमः पातु शिवायै करयोर्मम ॥ ९॥
नारायण्यै च पार्श्वौ मे पायात्पापहरा सदा ।
स्वान्ते दशहरायै मे गङ्गायै चोदरेऽवतु ॥ १०॥
स्तनौ स्वाहा सदा पातु देवाभिभवतोषिता ।
नमो भगवति पातु कुक्षी मे सर्वदा सुखम् ॥ ११॥
ऐं बीजं मध्यदेशे च बीजविद्या सदाऽवतु ।
हिलि पुष्टं सदा पातु पातु नाभिं हिलिर्मम ॥ १२॥
मिलिमिलि पदद्वन्द्वं कटिं च सक्थिनी द्वयम् ।
गङ्गे मां पावयेत्यव्याद् गुह्ये जानुद्वये मम ॥ १३॥
जङ्घे स्वाहा सदा पातु मिलि नेत्राक्षरी सदा ।
सप्तार्ण सहिता विद्या पादौ पातु नवाक्षरी ॥ १४॥
हिलि हिलिमिलिमिलिनी गङ्गेदेवि नमो भृशम् ।
मूर्द्धादिपादपर्यन्तं पातु पञ्चदशाक्षरी ॥ १५॥
तारमायारमा बीजं प्राच्यां रक्षतु मे सदा ।
आग्नेय्यां सा भगवती पातु मां चक्रसंस्थिता ॥ १६॥
दक्षिणे गाङ्गदयिता नैरृत्यां च मे पूर्ववत् ।
प्रतीच्यामस्त्रतो रक्षेद्रिपुभीरनिकृन्तनी ॥ १७॥
वामिनी पातु वायव्यां माया रक्षत् चोत्तरे ।
ईशान्यां कमला पातु कामबीजं सदावतु ॥ १८॥
अधस्तात्प्रणवो रक्षेत्सर्वत्र सर्वमन्त्रराट् ।
मणिकर्णिमृगीब्रह्मा हृदयं ध्रुवसंयुता ॥ १९॥
वियमिन्दुपकः पूर्वमन्त्रश्रीमणिकर्णिका ।
सर्वत्र मे सदा पातु बाह्याभ्यन्तरभेदतः ॥ २०॥
इति ते कवचं देव्याः सारात् सारतरं परम् ।
सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥ २१॥
अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।
इन्द्रः सकलदेवेशो धारणात् पठनाद्यतः ॥ २२॥
सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्य्यमवाप्नुयुः ।
पुष्पाञ्जल्यष्टकं दत्वा मूलेनैवोचदापयेत् ॥ २३॥
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे ॥ २४॥
वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥ २५॥
कवचं परमं पुण्यं सोपि पुण्यवतां वरः ।
सर्वैश्वर्य्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ २६॥
बहुपुत्रवती भूत्वा वन्ध्यापि लभते सुखम् ।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृत्तन्ति ताडितम् ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ २७॥
इति श्रीरुद्रयामले पार्वतीश्वरसंवादे
सर्वार्थसाधनाभिधं कवचं पूर्णम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):