अक्षर आकार:

गङ्गाद्विपदी

gangAdvipadI

गङ्गाद्विपदी

जय जय त्वं सदानन्ददे जह्नुजे शशिशेखरशिरसि सितकुसुममाले । भक्तजनहृदयालवालगत- हरिचरणसुरतरुप्रसवभूते रसाले ॥ १॥ शिखरितनयानयनरोलम्बचुम्बिते दूरीकृतदुरितदौर्गन्ध्यजाले । जीवनं भक्तजनजीवनं तव यतस्त्रिविधतापापहं मुक्तिशाले ॥ २॥ इति श्रीगोकुलोत्सवात्मजगोस्वामिश्रीजीवनजीमहाराजकृता गङ्गाद्विपदी सम्पूर्णा ।