अक्षर आकार:

श्रीगङ्गादशकम्

Shri Gangadashakam

श्रीगङ्गादशकम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ मोक्षोपायाय विद्महे । माङ्गल्यायै च धीमहि । तन्नो गङ्गा प्रचोदयात् ॥ ध्यानम्- नमस्तुभ्यं वरे गङ्गे मोक्षसौमङ्गलावहे । प्रसीद मे नमो मातर्वस मे सह सर्वदा ॥ गङ्गा भागीरथी माता गोमुखी सत्सुदर्शिनी । भगीरथतपःपूर्णा गिरीशशीर्षवाहिनी ॥ १॥ गगनावतरा गङ्गा गम्भीरस्वरघांषिणी । गतितालसुगाप्लावा गमनाद्भुतगालया ॥ २॥ गङ्गा हिमापगा दिव्या गमनारम्भगोमुखी । गङ्गोत्तरी तपस्तीर्था गभीरदरिवाहिनी ॥ ३॥ गङ्गाहरिशिलारूपा गहनान्तरघर्घरा । गमनोत्तरकाशी च गतिनिम्नसुसङ्गमा ॥ ४॥ गङ्गाभागीरथीयुक्तागम्भीरालकनन्दभा । गङ्गा देवप्रयागा मा गभीरार्चितराघवा ॥ ५॥ गतनिम्नहृषीकेशा गङ्गाहरिपदोदका । गङ्गागतहरिद्वारा गगनागसमागता ॥ ६॥ गतिप्रयागसुक्षेत्रा गङ्गार्कतनयायुता । गतमानवपापा च गङ्गा काशीपुरागता ॥ ७॥ गहनाघविनाशा च गत्युत्तमसुखावनी । गतिकालीनिवासा च गङ्गासागरसङ्गता ॥ ८॥ गङ्गा हिमसमावाहा गम्भीरनिधिसालया । गद्यपद्यनुतागीता गद्यपद्यप्रवाहिणी ॥ ९॥ गानपुष्पार्चिता गङ्गा गाहितागह्वगह्वरा । गायगाम्भीर्यमाधुर्या गायमाधुर्यवाग्वरा ॥ १०॥ मङ्गलं मङ्गलाधात्र्यै महापुण्यसुवाक्श्रियै । मनःपावननाम्न्यै च गङ्गामात्रे सुमङ्गलम् ॥ ११॥ मङ्गलं ते शुभे गङ्गे मङ्गलं मातृदेवते । मङ्गलं मम सर्वस्वे मङ्गलं मङ्गलायने ॥ १२॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीगङ्गादशकं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan