अक्षर आकार:

श्रीगङ्गाष्टोत्तरशतनामस्तोत्रम्

Shri Ganga Ashtottarashatanamastotram

श्रीगङ्गाष्टोत्तरशतनामस्तोत्रम्

ध्यानम् । सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम् । विधिहरिहररूपां सेन्दुकोटीरचूडां कलितसितदुकूलां जाह्नवीं तां नमामि ॥ अथ स्तोत्रम् । श्रीनारद उवाच । गङ्गा नाम परं पुण्यं कथितं परमेश्वर । नामानि कति शस्तानि गङ्गायाः प्रणिशंस मे ॥ १॥ श्रीमहादेव उवाच । नाम्नां सहस्रमध्ये तु नामाष्टशतमुत्तमम् । जाह्नव्या मुनिशार्दूल तानि मे श‍ृणु तत्त्वतः ॥ २॥ गङ्गा त्रिपथगा देवी शम्भुमौलिविहारिणी । जाह्नवी पापहन्त्री च महापातकनाशिनी ॥ ३॥ पतितोद्धारिणी स्रोतस्वती परमवेगिनी । विष्णुपादाब्जसम्भूता विष्णुदेहकृतालया ॥ ४॥ स्वर्गाब्धिनिलया साध्वी स्वर्णदी सुरनिम्नगा । मन्दाकिनी महावेगा स्वर्णश‍ृङ्गप्रभेदिनी ॥ ५॥ देवपूज्यतमा दिव्या दिव्यस्थाननिवासिनी । सुचारुनीररुचिरा महापर्वतभेदिनी ॥ ६॥ भागीरथी भगवती महामोक्षप्रदायिनी । सिन्धुसङ्गगता शुद्धा रसातलनिवासिनी ॥ ७॥ महाभोगा भोगवती सुभगानन्ददायिनी । महापापहरा पुण्या परमाह्लाददायिनी ॥ ८॥ पार्वती शिवपत्नी च शिवशीर्षगतालया । शम्भोर्जटामध्यगता निर्मला निर्मलानना ॥ ९॥ महाकलुषहन्त्री च जह्नुपुत्री जगत्प्रिया । त्रैलोक्यपावनी पूर्णा पूर्णब्रह्मस्वरूपिणी ॥ १०॥ जगत्पूज्यतमा चारुरूपिणी जगदम्बिका । लोकानुग्रहकर्त्री च सर्वलोकदयापरा ॥ ११॥ याम्यभीतिहरा तारा पारा संसारतारिणी । ब्रह्माण्डभेदिनी ब्रह्मकमण्डलुकृतालया ॥ १२॥ सौभाग्यदायिनी पुंसां निर्वाणपददायिनी । अचिन्त्यचरिता चारुरुचिरातिमनोहरा ॥ १३॥ मर्त्यस्था मृत्युभयहा स्वर्गमोक्षप्रदायिनी । पापापहारिणी दूरचारिणी वीचिधारिणी ॥ १४॥ कारुण्यपूर्णा करुणामयी दुरितनाशिनी । गिरिराजसुता गौरीभगिनी गिरिशप्रिया ॥ १५॥ मेनकागर्भसम्भूता मैनाकभगिनीप्रिया । आद्या त्रिलोकजननी त्रैलोक्यपरिपालिनी ॥ १६॥ तीर्थश्रेष्ठतमा श्रेष्ठा सर्वतीर्थमयी शुभा । चतुर्वेदमयी सर्वा पितृसन्तृप्तिदायिनी ॥ १७॥ शिवदा शिवसायुज्यदायिनी शिववल्लभा । तेजस्विनी त्रिनयना त्रिलोचनमनोरमा ॥ १८॥ सप्तधारा शतमुखी सगरान्वयतारिणी । मुनिसेव्या मुनिसुता जह्नुजानुप्रभेदिनी ॥ १९॥ मकरस्था सर्वगता सर्वाशुभनिवारिणी । सुदृश्या चाक्षुषीतृप्तिदायिनी मकरालया ॥ २०॥ सदानन्दमयी नित्यानन्ददा नगपूजिता । सर्वदेवाधिदेवैश्च परिपूज्यपदाम्बुजा ॥ २१॥ एतानि मुनिशार्दूल नामानि कथितानि ते । शस्तानि जाह्नवीदेव्याः सर्वपापहराणि च ॥ २२॥ य इदं पठते भक्त्या प्रातरुत्थाय नारद । गङ्गायाः परमं पुण्यं नामाष्टशतमेव हि ॥ २३॥ तस्य पापानि नश्यन्ति ब्रह्महत्यादिकान्यपि । आरोग्यमतुलं सौख्यं लभते नात्र संशयः ॥ २४॥ यत्र कुत्रापि संस्नायात्पठेत्स्तोत्रमनुत्तमम् । तत्रैव गङ्गास्नानस्य फलं प्राप्नोति निश्चितम् ॥ २५॥ प्रत्यहं प्रपठेदेतद् गङ्गानामशताष्टकम् । सोऽन्ते गङ्गामनुप्राप्य प्रयाति परमं पदम् ॥ २६॥ गङ्गायां स्नानसमये यः पठेद्भक्तिसंयुतः । सोऽश्वमेधसहस्राणां फलमाप्नोति मानवः ॥ २७॥ गवामयुतदानस्य यत्फलं समुदीरितम् । तत्फलं समवाप्नोति पञ्चम्यां प्रपठन्नरः ॥ २८॥ कार्तिक्यां पौर्णमास्यां तु स्नात्वा सगरसङ्गमे । यः पठेत्स महेशत्वं याति सत्यं न संशयः ॥ २९॥ ॥ इति श्रीमहाभागवते महापुराणे श्रीगङ्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥