अक्षर आकार:

गङ्गाष्टपदी

Gangashtapadi

गङ्गाष्टपदी

॥ श्रीगङ्गायै नमः ॥ ॥ रामगंरारागे यत्तिताले ॥ मधुमथनमूर्तिवरमिन्दुकरकार्मुकं वहसि वहद्वारि सुप्तरङ्गे तरङ्गे । हरिचरणनखत्रिपुरगजदृतनिर्गता ब्रह्मजलपात्रकृतसङ्गे । नमो देवि गङ्गे नमोमातर्गङ्गे । हर निखिलमघमलकनन्दने ॥ ध्रुवपदं०॥ १॥ त्वमसि जनपावनी चतुरुदधिगामिनी सप्तरुचिकेलिसुकीर्तिसारे कनकगिरिलम्बिता सकलमुनिवन्दिता हर मुकुटशिरा कुसुममाले । नमो देवि गङ्गे नमो मातर्गङ्गे ॥ २॥ तीर्थवरकारिणी स्वर्गजोद्धारिणी हेमशैल पाषाणभेदेन तारयसि नागरं पूरयसि सागरम् । सङ्गतविन्ध्यगिरिग्राहे । नमो देवि गङ्गे नमो मातर्गङ्गे ॥ ३॥ इह निखिल सुरगणैरिह निखिल मुनिगणैरिह निखिलवेदैरुदारे । स्तूयसे गीयसे गायसे जाह्नवि सुकीर्तितेति संसारसारे । नमो देवि गङ्गे नमोमातर्गङ्गे ॥ ४॥ शुभसलिलविधृतपुलिनमुपकुर्वती तव नाम निर्मलालापम् । सेविता चिन्तिता यास्तावगाहिता मज्जिता मम हरसि पापम् । नमो देवि गङ्गे नमो मातर्गङ्गे ॥ ५॥ सगरसुतसङ्गमे लसितवरसुन्दरीदूतिके दुष्कृतिदुरापे । निरयगतिबाधिके निर्वाणपदसाधिके । भक्तजनदलितसन्तापे नमो देवि गङ्गे ॥ ६॥ गण्डूषजलसत्तरङ्गकरनिकरमकरगम्भीरतोये तटिनि सुधारसि परपाङ्खरसि सघनसाधनोपाये । नमो देवि गङ्गे ॥ ७॥ इति रामलक्ष्मणै कौशिकानुज्ञया सुरसरित्कृतनमस्कारे । वहति सुकृतमुदारं धीरजयदेवविरचितं कवतारयसि नव जलधिपारे । नमो देवि गङ्गे नमो मातङ्गगे ॥ ८॥ ॥ इति जयदेवविरचितगीतगोविन्दे कविश्रीजयदेवकृतौ गङ्गाष्टपदी सम्पूर्णा ॥