अक्षर आकार:

गङ्गाष्टकं सत्यज्ञानानन्दतीर्थकृत

Gangashtakam by Satyajnananandatirtha

गङ्गाष्टकं सत्यज्ञानानन्दतीर्थकृत

श्रीगणेशाय नमः ॥ यदवधि तव नीरं पातकी नैति गङ्गे तदवधि मलजालैर्नैव मुक्तः कलौ स्यात् । तव जलकणिकाऽलं पापिनां पापशुद्धयै पतितपरमदीनांस्त्वं हि पासि प्रपन्नान् ॥ १॥ तव शिवजललेशं वायुनीतं समेत्य सपदि निरयजालं शून्यतामेति गङ्गे । शमलगिरिसमूहाः प्रस्फुण्टति प्रचण्डास्त्वयि सखि विशतां नः पापशङ्का कुतः स्यात् ॥ २॥ तव शिवजलजालं निःसृतं यर्हि गङ्गे सकलभुवनजालं पूतपूतं तदाऽभूत् । यमभटकलिवार्ता देवि लुप्ता यमोऽपि व्यधिकृतवरदेहाः पूर्णकामाः सकामाः ॥ ३॥ मधुमधुवनपूगै रत्नपूगैर्नृपूगैर्- मधुमधुवनपूगैर्देवपूगैः सपूगैः । पुरहरपरमाङ्गे भासि मायेव गङ्गे शमयसि विषतापं देवदेवस्य वन्द्यम् ॥ ४॥ चलितशशिकुलाभैरुत्तरङ्गैस्तरङ्गैर्- अमितनदनदीनामङ्गसङ्गैरसङ्गैः । विहरसि जगदण्डे खण्डंयती गिरीन्द्रान् रमयसि निजकान्तं सागरं कान्तकाते ॥ ५॥ तव परमहिमानं चित्तवाचाममानं हरिहरविधिशत्र्का नापि गङ्गे विदन्ति । श्रुतिकुलमभिधत्ते शङ्कितं तं गुणान्तं गुणगणसुविलापैर्नेति नेतीति सत्यम् ॥ ६॥ तव नुतिनतिनामान्यप्यघं पावयन्ति ददति परमशान्तिं दिव्यभोगान् जनानाम् । इति पतितशरण्ये त्वां प्रपन्नोऽस्मि मातर्ललिततरतरङ्गे चाङ्ग गवेप्रसीद ॥ ७॥ शुभतरकृतयोगाद्विश्वनाथ- प्रसादाद्भवहरवरविद्यां प्राप्य काश्यां हि गङ्गे । भगवति तव तीरे नीरसारं निपीय मुदितहृदयकञ्जे नन्दसूनुं भजेऽहम् ॥ ८॥ गङ्गाष्टकमिदं कृत्वा भुक्तिमुक्तिप्रदं नृणाम् । सत्यज्ञानानन्दतीर्थयतिना स्वर्पितं शिवे ॥ ९॥ तेन प्रणातु भगवान् शिवो गङ्गाधरो विभुः । करोतु शङ्करः काश्यां जनानां सततं शिवम् ॥ १०॥ इति सत्यज्ञानानन्दतीर्थयतिना विरचितं गङ्गाष्टकं सम्पूर्णम् ॥