अक्षर आकार:

गङ्गाष्टकम्

Gangashtakam

गङ्गाष्टकम्

॥ श्रीगणेशाय नमः ॥ गङ्गानङ्गारिसङ्गा सरिदुपरि परिक्रीडमाना विमाना- दव्यादव्याजभाजः कलितकलितमोहारि मोहारिवारि ॥ यत्कूले कोलकोलाहलिनि हलिनिभे केतकस्वच्छकच्छ- च्छायानायासिकायानुपतनपवनः सेवते देवतेन्द्रान् ॥ १॥ मातर्मातङ्गसङ्गास्तिमिततिमितनूर्धारि विस्तारि वारि ताराकारानुकारा तरलतरलकैश्चामरैश्चामरीणाम् । सान्तः स्वान्तः कदान्तःशमितकलितमस्तोमदाहं मुदाहं दक्षाभिक्षामितार्तिस्तव भवदवसंहारिशङ्कारिहारि ॥ २॥ यन्नापन्नाससूरे सुरधुनि विधुनिस्यन्दनिस्पन्दधुर्ये देहं तेऽहंसगेहं वहति वहति सन्मानसं मानसङ्गात् । किं तेन स्तेनभावं भवभविकमिदं बिभ्रतादभ्रतापं व्यायत्तेनाप्तवातप्रसरसरणिनां मद्विधानां बुधानाम् ॥ ३॥ यैनोन्मीलन्मरालीविमलकुलमिलत्सारसी सारशीलं दुःशीलैदेवि ? देवैरकलितमकलि त्वद्वपुवार्विपुष्टैः । तेषां द्वेषाधिदोषाकलितकलितरा श्रृङ्खला श्रृङ्खलानाम् । छायामायानिकायादननुगुणगणाः संस्रवन्ति श्रवन्ति ॥ ४॥ वातव्याधूतनूतावलिगलितरजोराजिविभ्राजिताभ्रा भ्राम्यबृङ्गालिकेलीकलितकलकला नदनं दन्मुतीयम् । अम्भस्तम्बेरमालीमिलदमलरदारब्धविस्रब्धरोधो रोधः कर्मादिकर्मप्रसरसरभसं प्रश्रयेनाश्रयन्ते ॥ ५॥ सर्पत्कर्पूरपूरोज्ज्वलजलपटलप्राणिभिः प्राणितार्थेऽ त्यर्थ व्यर्थं कृतार्थ कृतमपि सुकृतैर्मन्यते जन्म तेषाम् । संसारासारकारासरणिपरिणतैर्बन्धभिर्बन्धमुक्तैः धीर्मुक्तैमुक्तिमूर्तिर्भगवति ! भवती यैरदृष्ट्यारदृष्ट्या ॥ ६॥ लोलत्कल्लोलकोलाहलवहलदलोत्तालवालाविलासा । बंहद्वृन्दारबन्दाकरणिकरकरासङ्गरिङ्गद्विहङ्गा । एकादोषाप्यशेषा विकरविकरिणारम्भसंरम्भवर्या कुर्याद्धर्या धुरीणां भविकमविकलं सप्रभावप्रभावः ॥ ७॥ रामारामाभिरामं चतुरगतुरगं । तुङ्गमातङ्गसङ्गं भ्राज्यं प्राज्यं न राज्यं भगवति भवति प्रेयसे श्रेयसे वा । सेवा ते वा क्क देवा सुरशिरसि गिरा नन्दते वन्दते चेत् सिद्धीनां सिद्धिसिन्धो न तवनतरवः सनिधानं निधानम् ॥ ८॥ गर्भावि वि भूयः परिमलपरिमालंवरोलम्बरोलै चालैः पुष्पजालैः पटुविटपितटी बिभ्रती शुभ्रतीरा । ध्वस्ताधिव्याधिवाचाविधुरविधुसुधामेदुरा मे दुरापः । पायानः पातु गौरी गुरुगिरिशिरसि स्वः श्रवन्ती श्रवन्ती ॥ ९॥ वरं त्वदीये पुलिने पुलिन्दा मन्दाकिनीक्षालितपापकन्दा । मन्दारमालामलकण्ठनाला न भूमिपाला न च लोकपालाः ॥ १०॥ इति श्री हनुमद्विरचितं गङ्गाष्टकं सम्पूर्णम् ।