अक्षर आकार:

गङ्गाष्टकम् ९

Gangashtakam 9

गङ्गाष्टकम् ९

श्रीगणेशाय नमः । चलद्विलोलवीचिविस्खलद्विवृत्तमीनमु- ल्लसत्सहस्रपत्रविस्फुरत्परागपाटलम् । हिमाचलस्खलज्जलप्रवाहपाविताखिल- प्रपञ्चमिन्दुचूडमौलिमन्दिरं महोऽवतात् ॥ १॥ रसालशालतालसत्तमालजालमालस- द्विशालभालभस्मभृत्प्रवाहभास्वरं महः । सरोजगन्धसम्भ्रमन्मिलिन्दपुञ्जमञ्जुलै- गुञ्जमानजह्नुन्दिनीतटं भजामहे ॥ २॥ चलत्तरङ्गमालमुच्छलज्झषोर्णजालमुज्वल- त्प्रभाविशालमालमञ्बुवीरुधां गृहम् । परिज्वलद्भवानलप्रभावलोडिताखिल- प्रपञ्चसिञ्चनामृतं पुनातु जह्नुजापयः ॥ ३॥ करालतिष्यकालकालसर्पसर्पदुल्लसत् प्रभाविषानलावसेकसत्सुधारसैः (समैः) । कुरु त्वमीश्वरप्रियाङ्गने मदङ्गसङ्गता- खिलाघसङ्गभङ्गमुल्लसत्तरङ्गरिङ्गितैः ॥ ४॥ निमज्जदागलालकालिजालशालिसम्यगु- ल्लसत्सुरौघसुन्दरीमुखारविन्दसुन्दरम् । मिलत्पुरार्भकस्फुरत्कराभिघातविद्रव- त्रिराकुलोरुमीनमम्बु भाति शम्भुभूषणम् ॥ ५॥ उदञ्चदुद्धताखिलच्छटामिलद्विभावसु- प्रभाविडम्बितातिचञ्चदभ्रतारकोत्करम् । विलोलवीचिविस्खलत्समीरनीतसीकरं पुरारिपत्तनस्थितं पुनातु पावनं पयः ॥ ६॥ सुराधिराजराजधर्मराजमुख्यनिर्जरा- तिराजिपुण्यराशिरोशुसिद्धिदा कलौ (पुनः) । परामृतप्रदायिनी मुरारिपादचारिणी पुरारिमौलिमालिनी सुरापगा विराजते ॥ ७॥ महीधरेन्द्रपन्नगेन्द्रकुन्दचन्दनद्रुम- स्फुरत्करीन्द्रमण्डलामृतद्रवोपनायनम् । मिलन्निलिम्पसुन्दरीकपोलपत्रवल्लरी- गलत्परागपिञ्जरीकृतं पयः पुनातु माम् ॥ ८॥ अनन्तभट्टसूरिसूनुढुण्ढिराजसत्कवि- प्रकल्पितं विचित्रपद्यचातुरीविभूषितम् । सुरापगाष्टकं नरः पठत्रिदं स याति तत् परं पदं प्रभूतभूमभागवैभवः (सदा)॥ ९॥ इति श्रीमन्महीपण्डितधुरश्चतुस्समुद्रराजमान्यधुलोपनामकानन्तात्मज- ढुण्ढिराजभट्ट विरचितं श्रीगङ्गाष्टकं सम्पूर्णम् ।