अक्षर आकार:

गङ्गाष्टकम् १०

Gangashtakam 10

गङ्गाष्टकम् १०

श्रीगणेशाय नमः । गिरिराजसुतां वितुलां विततां त्रिदशैर्महितां वियतः पतिताम् । कलुषै रहितां नरदेवहितां प्रणमामि सितां वहुसत्त्वयुताम् ॥ १॥ अतिपूतगतामृषिराजनतां भुवनप्रथितामभिजातचिताम् । मुनिमानिनुतां मनुजैरमितां प्रणमामि सितां मुनिवक्रमिताम् ॥ २॥ शिवशीर्षगतां कलनादयुतां भुजगेन नुतामजविष्णुहिताम् । अविगीतमतां कृतसिन्धुरतां प्रणमाम्यमृतां हरिपादमृताम् ॥ ३॥ जननीविनतां सुरहस्तिगतां दनुजैरजितां तपसा विजिताम् । जलदानरतां दयया विदितां प्रणमाम्यमृतां बहुभाग्ययुताम् ॥ ४॥ श्रुतिसारमितां स्मृतिषु प्रथितां कलिदोषकृतां शरणं प्रचिताम् । घृतदेवहुतां गुणिभिः प्रणतां प्रणमाम्यमृतां बहुभाग्ययुताम् ॥ ५॥ जनताकुलितां बहुधा ललितां कृतरम्यरुतां शमनादिनुताम् । नरलोकगतां परमार्थयुतां प्रणमाम्यमृतामपराधिहिताम् ॥ ६॥ बहुवेणियुतां जलजानहतां यतिभिर्मिलितामधिकाशि शिताम् । स्फटिकोपमितां स्तुतिगीतिमतां प्रणमाम्यजितामधिराजनताम् ॥ ७॥ सकलासुहितां सततावहितां कुणपैः पिहितां चिकुरावचिताम् । विहगध्वनितां विधिपात्रमतां प्रणमाम्यजितां श्रुतिसंप्रथिताम् ॥ ८॥ इति रवीन्द्रकुमार सिद्धान्तशास्त्रि कृतं गङ्गाष्टकं सम्पूर्णम् ।