अक्षर आकार:

गङ्गाष्टकम्

Gangashtakam

गङ्गाष्टकम्

न शक्तास्त्वां स्तोतुं विधिहरिहरा जह्नतनये गुणोत्कर्षाख्यानं त्वयि न घटते निर्गुणपदे । अतस्ते संस्तुत्यै कृतमतिरहं देवि सुधियां विनिन्द्यो यद्वेदाश्चकितमभिगायन्ति भवतीम् ॥ १॥ तथाऽपि त्वां पापः पतितजनतोद्धारनिपुणे प्रवृत्तोऽहं स्तोतुं प्रकृतिचलया बालकधिया । अतो दृष्टोत्साहे भवति भवभारैकदहने मयि स्तुत्ये गङ्गे कुरु परकृपां पर्वतसुते ॥ २॥ न संसारे तावत्कलुषमिह यावत्तव पयो दहत्यार्ये सद्यो दहन इव शुष्कं तृणचयम् । पलायन्ते दृष्ट्वा तव परिचरानन्तकजना यथा वन्या वाऽन्ये वनपतिभयाद् वामनमृगाः ॥ ३॥ जना ये ते मातर्निधनसमये तोयकणिकां मुखे कृत्वा प्राणाञ्जहति सुरसङ्घैरनुवृता । विमाने क्रीडन्तोऽमरपतिपदं यान्ति नियतं कथा तेषां का वा जननि तव तीरे निवसताम् ॥ ४॥ शिवः सर्वाराध्यो जननि विषतापोपशमनं चरीकर्तुं गङ्गे कलिकलुषभङ्गे पशुपतिः । जटायां सन्धत्त ललितलहरीं त्वां सुरनदी त्वदन्या का वन्द्या परममहिता वा त्रिभुवने ॥ ५॥ जनस्तावन्मातर्दुरितभयतो बिभ्यति सृतौ न यावत्त्वत्तीरं नयनपथमायाति विमलम् । यदाप्तं त्वत्तीरं तदनु दुरितानां न गणना ततो गङ्गे! वन्द्या मुनिसमुदयास्त्वां न जहति ॥ ६॥ नमामि त्वां गङ्गे श्रुतिवनविहारैकनिपुणे जगन्मातर्मातस्त्रिपुरहरसेव्ये विधिनुते । त्वमेवाद्या दुर्गा जनहितकृते त्वं द्रवमयी स्वयं जाता देवि त्वमसि परमं ब्रह्म विदितम् ॥ ७॥ कदा गङ्गे रम्ये तटमधिवसस्ते शिवनुते शिवे दुर्गे मातः सकलफलदे देवदयिते । परेशे सर्वेशे श्रुतिशतनुते दक्षतनये सदाऽहं सञ्जल्पन्निमिषमिव नेष्यामि दिवसान् ॥ ८॥ गङ्गाष्टकमिदं पुण्यं प्रभाते यः पठेच्छुचिः । सर्वाभीष्टं ततस्तस्मै ददाति सुरनिम्नगा ॥ ९॥ इति स्वामि-श्रीमदनन्तानन्दसरस्वतीविरचितं गङ्गाष्टकं सम्पूर्णम् ।