अक्षर आकार:

गीर्ललिताम्बिकास्तुतिः

Girlalitambikastutih

गीर्ललिताम्बिकास्तुतिः

(श्रीशारदागौरीसहोत्सवकाले) कञ्जाक्षमुख्यामर पूजिताभ्यां निजाश्रिताशेषवरप्रदाभ्याम् । श‍ृङ्गाद्रिकाञ्चीपुरवासिनीभ्यां नमो नमो गीर्ललिताम्बिकाभ्याम् ॥ १॥ एकान्तपूजापरितुष्टहृद्भ्या- मेकाक्षरीशीलनलब्धपद्भ्याम् । विधीशचित्ताब्जरविप्रभाभ्यां नमो नमो गीर्ललिताम्बिकाभ्याम् ॥ २॥ ईहाम्बुधेर्बाडवभारभृद्भ्या- मीकारयुङ्मन्त्रविबोधिताभ्याम् । अजास्यशम्भ्वङ्कविभूषणाभ्यां नमो नमो गीर्ललिताम्बिकाभ्याम् ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीगीर्ललिताम्बिकास्तुतिः समाप्ता ।