अक्षर आकार:

श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम्

Shri Gayatri Ashtottarashatanama Stotram

श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम्

हरिः ॐ । तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला । विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥ १॥ वरदाभयहस्ताब्जा रेवातीरनिवासिनी । प्रणित्ययविशेषज्ञा यन्त्राकृतविराजित ॥ २॥ भद्रपादप्रिया चैव गोविन्दपथगामिनी । देवर्षिगणसन्तुष्टा वनमालाविभूषिता ॥ ३॥ स्यन्दनोत्तमसंस्था च धीरजीमूतनिःस्वना । मत्तमातङ्गगमना हिरण्यकमलासना ॥ ४॥ दीनजनोद्धारनिरता योगिनी योगधारिणी । नटनात्यैकनिरता प्रणवाद्यक्षरात्मिका ॥ ५॥ घोराचारा क्रियासक्ता दारिद्र्यच्छेदकारिणी । यादवेन्द्रकुलोद्भूता तुरीयपदगामिनी ॥ ६॥ गायत्री गोमती गङ्गा गौतमी गरुडासना । गेयगानप्रिया गौरी गोविन्दपदपूजिता ॥ ७॥ गन्धर्वनगरागारा गौरवर्णा गणेश्वरी । गुणाश्रया गुणवती गह्वरी गणपूजिता ॥ ८॥ गुणत्रयसमायुक्ता गुणत्रयविवर्जिता । गुहावासा गुणाधारा गुह्या गन्धर्वरूपिणी ॥ ९॥ गार्गप्रिया गुरुपदा गुहलिङ्गाङ्गधारिणी । सावित्री सूर्यतनया सुषुम्नानाडिभेदिनी ॥ १०॥ सुप्रकाशा सुखासीना सुमतिस्सुरपूजिता । सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ॥ ११॥ सुधांशुबिम्बवदना सुस्तनी सुविलोचना । सीता सत्त्वाश्रया सन्ध्या सुफला सुविधायिनी ॥ १२॥ सुभ्रूस्सुवासा सुश्रोणी संसारार्णवतारिणी । सामगानप्रिया साध्वी सर्वाभरणभूषिता ॥ १३॥ वैष्णवी विमलाकारा महेन्द्री मन्त्ररूपिणी । महलक्ष्मीर्महासिद्धिर्महामाया महेश्वरी ॥ १४॥ मोहिनी मदनाकारा मधुसूदनचोदिता । मीनाक्षी मधुरावासा नगेन्द्रतना उमा ॥ १५॥ त्रिविक्रमपदाक्रान्ता त्रिसर्वा त्रिविलोचना । सूर्यमण्डलमध्यस्था चन्द्रमण्डलसंस्थिता ॥ १६॥ वह्निमण्डलमध्यस्था वायुमण्डलसंस्थिता । व्योममण्डलमध्यस्था चक्रिणी चक्ररूपिणी ॥ १७॥ कालचक्रवितानस्था चन्द्रमण्डल दर्पणा । ज्योत्स्नातपासुलिप्ताङ्गी महामारुतवीजिता ॥ १८॥ सर्वमन्त्राश्रया धेनुः पापघ्नी परमेश्वरी । नमस्तेऽस्तु महालक्ष्मि महासम्पत्तिदायिनि ॥ १९॥ नमस्ते करुणामूर्ति नमस्ते भक्तवत्सले । गायत्र्याः प्रजपेद्यस्तु नाम्नामष्टोत्तरं शतम् ॥ २०॥ फलश्रुतिः । तस्य पुण्यफलं रोद्धुं ब्रह्मणापि न शक्यते । प्रातःकाले च मध्याह्ने सायह्ने वा द्विजोत्तम ॥ २१॥ ये पठन्तीह लोकेऽस्मिन् सर्वान्कामानवाप्नुयात् । पठनादेव गायत्री नाम्नामष्टोत्तरं शतम् ॥ २२॥ ब्रह्महत्यादि पापेभ्यो मुच्यते नात्र संशयः । दिने दिने पठेद्यस्तु गायत्रीस्तवमुत्तमम् ॥ २३॥ स नरो मोक्षमाप्नोति पुनरावृत्तिवर्जितं पुत्रप्रदमपुत्राणां दरिद्राणां धनपदम् ॥ २४॥ रोगिणां रोगशमनं सर्वैश्वर्यप्रदायकं बहुनात्र किमुना स्तोत्रं शीघ्रं फलप्रदम् ॥ २५॥ इति श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।