अक्षर आकार:

श्रीगायत्र्यष्टकम् ३

Shri Gayatri Ashtakam 3

श्रीगायत्र्यष्टकम् ३

उषःकालगम्यामुदात्त स्वरूपां अकार प्रविष्टामुदाराङ्गभूषाम् । अजेशादिवन्द्यामजार्चाङ्गभाजा- मनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १॥ सदाहंसयानां स्पुरद्रत्नवस्त्रां वराभीतिहस्तां खगाम्नायरूपाम् । स्फुरत्साधिकामक्षमालां च कुम्भं दधानामहं भावये पूर्वसन्ध्याम् ॥ २॥ स्फुरचचन्द्रकान्तां शरच्चन्द्रवक्त्रां महाचन्द्रकान्ताद्रिपीनस्तनाढ्याम् । त्रिशूलाक्षहस्तां त्रिनेत्रस्यपत्नीं वृषारूढपादां भजे मध्यसन्ध्याम् ॥ ३॥ सदासामगानप्रियां श्यामलाङ्गीं अकारान्तरस्थां करोल्लासि चक्रां । गणापद्महस्तां स्वनत्पाञ्चजन्यां खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ ४॥ प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां सदालम्बमानस्तनप्रान्तहाराम् । महानीलरत्नप्रभाकुण्डलाढ्यां स्फुरत्स्मेरवक्त्रां भजे तुर्यसन्ध्याम् ॥ ५॥ हृदम्भोजमध्ये पराम्नायनीडे सुखासीनसद्राजहंसां मनोज्ञाम् । सदाहेमभासां त्रयीविद्यमध्यां भजामस्तुवामो वदामः स्मरामः ॥ ६॥ सदातत्पदैः स्तूयमानां सवित्रीं वरेण्यां महाभर्गरूपां त्रिनेत्राम् । सदा देवदेवादि देवस्यपत्नी- महन्धीमहीत्यादि पादैकजुष्टाम् ॥ ७॥ अनाथं दरिद्रं दुराचारयुक्तं शतं स्थूलबुद्धिं परं धर्महीनम् । त्रिसन्ध्यं जपध्यानहीनं महेशि प्रपन्नं च मां पालय त्वं कृपालो ॥ ८॥ इतीदं भुजङ्गं पठेद्यस्तु भक्त्या समादाय चित्ते सदा तां परां च । त्रिसन्ध्यास्वरूपां त्रिलोकैकवन्द्यां स मुक्तो भवेत्सर्वपापैरजस्रम् ॥ ९॥ इति श्रीगायत्र्यष्टकं सम्पूर्णम् ।