अक्षर आकार:

गायत्री वन्दना

gAyatrI vandanA

गायत्री वन्दना

ॐकाररूपा त्रिपदा त्रयी च त्रिदेववन्द्या त्रिदिवाधिदेवी । त्रिलोककर्त्री त्रितयस्य भर्त्री त्रैकालिकी सङ्कलनाविधात्री ॥ १॥ त्रैगुण्यभेदात् त्रिविधस्वरूपा त्रैविध्ययुक्तस्य फलस्य दात्री । तथापवर्गस्य विधायिनी त्वं दयार्द्रदृक्कोणविलोकनेन ॥ २॥ त्वं वाङ्मयी विश्ववदान्यमूर्तिर्विश्वस्वरूपापि हि विश्वगर्भा । तत्त्वात्मिका तत्त्वपरात्परा च दृक्तारिका तारकशङ्करस्य ॥ ३॥ विश्वात्मिके विश्वविलासभूते विश्वाश्रये विश्वविकाशधामे । विभूत्यधिष्ठात्रि विभूतिदात्रि पदे त्वदीये प्रणतिर्मदीया ॥ ४॥ भोगस्य भोक्त्री करणस्य कर्त्री धात्वाव्ययप्रत्ययलिङ्गशून्या । ज्ञेया न वेदैर्न पुराणभेदैर्ध्येया धिया धारणयादिशक्तिः ॥ ५॥ नित्या सदा सर्वगताऽप्यलक्ष्या विष्णोर्विधेः शङ्करतोऽप्यभिन्ना । शक्तिस्वरूपा जगतोऽस्य शक्तिर्ज्ञातुं न शक्या करणादिभिस्त्वम् ॥ ६॥ त्यक्तस्त्वयात्यन्तनिरस्तबुद्धिर्नरो भवेद् वैभवभाग्यहीनः । हिमालयादप्यधिकोत्रतोऽपि जनैस्समस्तैरपि लङ्घनीयः ॥ ७॥ शिवे हरौ ब्रह्मणि भानुचन्द्रयोश्चराचरे गोचरकेऽप्यगोचरे । सूक्ष्मातिसूक्ष्मे महतो महत्तमे कला त्वदीया विमला विराजते ॥ ८॥ सुधामरन्दं तव पादपद्मं स्वे मानसे धारणया निधाय । बुद्धिर्मिलिन्दीभवतान्मदीया नातः परं देवि वरं समीहे ॥ ९॥ दीनेषु हीनेषु गतादरेषु स्वाभाविकी ते करुणा प्रसिद्धा । अतः शरण्ये शरणं प्रपन्नं गृहाण मातः प्रणयाञ्जलिं मे ॥ १०॥ ॥ इति गायत्रीवन्दना समाप्ता ॥