अक्षर आकार:

गायत्रीतत्त्वस्तोत्रम्

gAyatrItattvastotram

गायत्रीतत्त्वस्तोत्रम्

श्रीगणेशाय नमः ॥ श्रीगायत्रीतत्त्वमालामन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप्छदः, परमात्मा देवता, हलो बीजानि, स्वराः शक्तयः, अव्यक्तं कीलकम्, मम समस्तपापक्षयार्थे गायत्रीतत्त्वपाठे विनियोगः । चतुर्विशतितत्त्वानां यदेकं तत्त्वमुत्तमम् । अनुपाधि परम्ब्रह्म तत्परञ्ज्योतिरोमिति ॥ १॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य तत्परञ्ज्योतिरोमिति ॥ २॥ तत्सदादिपदैर्वाच्यं परमं पदमव्ययम् । अभेदत्वं पदार्थस्य तत्परञ्ज्योतिरोमिति ॥ ३॥ यस्य मायांशभागेन जगदुत्पद्यतेऽखिलम् । तस्य सर्वोत्तमं रूपमरूपस्याभिधीमहि ॥ ४॥ न पश्यन्ति परमं पश्यन्तो हि दिवौकसः । तं भूतानिलदेवं तु सुपर्णमुपधावताम् ॥ ५॥ यदंशः प्रेरितो जन्तुः कर्मपाशनियन्त्रितः । आजन्मकृतपापानामपहन्तुं दिवौकसः ॥ ६॥ इदं महामुनिप्रोक्तं गायत्रीतत्त्वमुत्तमम् । यः पठेत्परया भक्त्या स याति षरमां गतिम् ॥ ७॥ सर्ववेदपुराणेषु साङ्गोपाङ्गेषु यत्फलम् । सकृदस्य जपादेव तत्फलं प्राप्नुयान्नरः ॥ ८॥ अभक्ष्यभक्षणात्पूतो भवति । अगम्यागमनात्पूतो भवति । सर्वपापेभ्यः पूतो भवति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । मध्यन्दिनमुपयुञ्जानोऽसत्प्रतिग्रहादिना मुक्तो भवति ॥ ९॥ अनुप्लवं पुरुषाः पुरुषमभिवदन्ति यं यं काममभिध्यायति तं तमेवाप्नोती पुत्रपौत्रान् कीर्तिसौभाग्यानि चोपलभते । सर्वभूतात्ममित्रं देहान्ते तद्विशिष्टो गायत्रीपरमं पदमाप्नोति ॥ १०॥ इति श्रीवेदसारे गायत्रीतत्त्वस्तोत्रं सम्पूर्णम् ॥