अक्षर आकार:

गायत्रीराजोपचारमानसपूजा

Gyatri Raja Upachara Manasa Puja

गायत्रीराजोपचारमानसपूजा

१. ध्यानम् - मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणे - र्युक्तामिन्दुकलानिद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाऽभयाङ्कुशकशां शुभ्रं कपालं गदा शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १॥ २. आवाहनम् - उषसि मागधमङ्गलगायनैर्झटिति जागृहिं जागृहि जागृहि अतिकृपार्द्रकटाक्षनिरीक्षणैर्जगदिदं सुखिनं कुरु हेऽम्बिके ॥ ॐ ऐं ही श्रीं भगवत्यै गायत्र्यै आवाहनं समर्पयामि नमः । ॐ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयशुभमण्डपं त्वमेहि मयि कृपयेति समर्चनं ग्रहीतुम् ॥ २॥ ३. आसनम् - कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधेहि ॥ ३॥ ॐ ऐं ह्रीं श्रीं भगवत्यै हेमपीठ आसनं समर्पयामि नमः ॥ ४. पाद्यम् - दूर्वया सरसिजान्वितमातः कान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै पाद्यपात्रात्पादयोः पाद्यं समर्पयामि नमः ॥ ४॥ ५. अर्घ्यम् - गन्धपुष्पयवसर्षपदूर्वासंयुतं कुशतिलाक्षतमित्रम् । हेमपात्रनिहितं सहरत्नैरर्घ्यमेतदुररीकुरु मातः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै अर्घ्यपात्रात् हस्तयोरर्घ्यं समर्पयामि नमः ॥ ४॥ ६. आचमनीयम् - जलजदयुतिना करेण जातीफलकङ्कोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवाश्रितैतद्भगवत्याचमनं विधीयताम् । ॐ ऐ हीं श्रीं भगवत्यै गायत्र्यै आचमनीयपात्रादाचमनीयं समर्पयामि नमः ॥ ६॥ ७. मधुपर्कः- मधुनिहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् । तदिदं भगवति करेऽर्पितं ते मधुपर्कं जननि प्रगृह्यताम् । ॐ ऐ ह्रीं श्रीं भगवत्यै गायत्र्यै मधुपर्कपात्रात् मधुपर्कं समर्पयामि नमः ॥ ७॥ ८. आचमनीयम् - पाद्यान्ते परिकल्पितं च पदयोरर्घ्यं तथा हस्तयोः सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादयः । तोयेनाचमनं विधेहि शुचिना गाङ्गेन यत्कल्पितं साष्टाङ्गप्राणिपातयुक्तशिशुकं दृष्ट्या कृतार्थीकुरु । ॐ ऐ ह्रीं श्रीं भगवत्यै गायत्र्यै आचमनीयपात्रादिदमाचमनीयं समर्पयामि नमः ॥ ८॥ ९. स्नानम् - गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलैः । स्नापिताऽसि मया देवि प्रसीद परमेश्वरि । ॐ ऐ हीं श्रीं भगवत्यै गायत्र्यै नानानदीनां जलैः स्नानं समर्पयामि नमः ॥ ९॥ १०. पञ्चामृतस्नानम् - पयो दधि घृतं चैव मधुशर्करया युतम् । पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् । ॐ ऐ हीं श्रीं भगवत्यै गायत्र्यै पञ्चामृतस्नानं समर्पयामि नमः ॥ १०॥ ११. पयः स्नानम् - स्वधेनुजातं बलवीर्यवर्द्धनं दिव्यामृतात्यन्तरसप्रदं शुभम् । श्री चण्डिके दुग्धसमुद्रसम्भवे गृहाण दुग्धं मनसा समर्पितम् । ॐ ऐ ह्रीं श्रीं भगवत्यै गायत्र्यै दुग्धस्नानं समर्पयामि नमः ॥ ११॥ १२. दधिस्नानम् - क्षीरोद्भवं स्वादु सुधामयं च श्रीचन्द्रकान्तिसदृशं सुशोभनम् । श्री चण्डिके शुम्भनिशुम्भनाशिनि स्नानार्थमङ्गीकुरु चार्पितं दधि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै दधिस्नानं समर्पयामि नमः ॥ १२॥ १३. घृतस्नानम् - श्रीक्षीरजोद्भूतमिदं मनोज्ञं प्रदीप्तवह्निदयुतिपावितं च । श्रीचण्डिके दैत्यविनाशदक्षे हैयङ्गवीनं परिग्टह्यतां च । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै घृतस्नानं समर्पयामि नमः ॥ १३॥ १४. मधुस्नानम् - माधुर्यमिश्रं मधुमक्षिकागणैर्वृक्षालिरम्ये मधकानने चितम् । श्रीचण्डिके शङ्करप्राणवल्लभे स्नानार्थमङ्गीकुरु तेऽर्पितं मधु । ॐ ऐं हीं श्रीं भगवत्यै गायत्र्यै मधुस्नानं समर्पयामि नमः ॥ १४॥ १५. शर्करास्नानम् - पूर्णेक्षुकाम्भोधिसमुद्भवामिमां माणिक्यमुक्ताफलदानमञ्जुलाम् । श्रीचण्डिके चण्डविनाशकारिणि स्नानार्थमङ्गीकुरु शर्करां शुभाम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै शर्करास्नानं समर्पयामि नमः ॥ १५॥ १६. जलस्नानम् - ॐ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यानारण्या ग्राम्याश्च ये । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै जलस्नानं समर्पयामि नमः ॥ १६॥ १७. इक्षुरसस्नानम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै इक्षुरसस्नानं समर्पयामि नमः ॥ १७॥ १८. सुगन्धितैलम् - एतत्वम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्धमद्भिर्वृतम् ॥ सानन्दं शुभसुन्दरीभिरभितो हस्ते धृते चिन्मये केशेषु भ्रमरप्रभेषु सकलस्वाङ्गेषु चालिप्यताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सुगन्धिततैलं समर्पयामि नमः ॥ १८॥ १९. उद्वर्त्तनस्नानम् - मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्त्तनं भक्त्याहं कलयामि हैमरजसा सम्मिश्रितं केसरैः । केशानानामलकैर्विशोध्य विशदं कस्तूरिकाद्यर्चितैः स्नानं ते नवरत्नकुम्भविधिना संवासितोष्णोदकैः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै उद्ववर्त्तनस्नानं समर्पयामि नमः ॥ १९॥ २०. सुगन्धिजलम् - एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकैः माणिक्यादिकमौक्तिकामृतयुतैः स्वच्छैः सुवर्णोदकैः । मन्त्रान् वैदिकतान्त्रिकान् परिपठन् सानन्दमत्यादरं स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सुगन्धिजलस्नानं समर्पयामि नमः ॥ २०॥ २१. शुद्धोदकस्नानम् - उद्गन्धैरगुरूद्भवैः सुरभिणा कस्तूरिकावारिणा स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीलैरपि ॥ पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरवासोभरैः स्नानं ते परिकल्पयामि कमले भक्त्या तदङ्गीकुरु । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै शुद्धोदकस्नानं समर्पयामि नमः ॥ २१॥ २२. वस्त्रम् - बालार्कद्युति दाडिमीयकुसुमप्रस्पर्द्धि सर्वोत्तम मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभिर्ग्रन्थितं च कञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावारमङ्गीकुरु । ॐ ऐं हीं श्रीं भगवत्यै गायत्र्यै वस्त्रं समर्पयामि नमः ॥ २२॥ २३. उपवस्त्रम् - कौशेयैर्ग्रथितं दिव्यं नानरत्नयुतं वरम् । उपवस्त्रं मया दत्तं गृहाण परमेश्वरि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै उपवस्त्रं समर्पयामि नमः ॥ २३॥ २४. आचमनम् - भूपालदिक्पालकिरीटरत्नमरीचियोगार्चितपादपीठैः । देवैः समाराधितपादपद्यैः श्रीचण्डिके स्वाचमनं गृहाण । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै आचमनं समर्पयामि नमः ॥ २४॥ २५. पादुके - नवरत्नयुते मयार्पिते कमनीये तपनीयपादुके । - सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै रत्नखचितस्वर्णनिर्मिते पादुके समर्पयामि नमः ॥ २५॥ २६. मण्डपप्रवेशम् - नानारत्नसमाकीर्णं मणिस्तम्भविराजितम् । मण्डपं प्रविश त्वं हे मातः शीघ्रं प्रसीद मे । ॐ ऐं ह्रीं श्रीं भगवति मातः मण्डपं प्रविश ते नमः ॥ २६॥ २७. सिंहासनारोहणम् - मुक्ताविद्रुमनीलमरकततमणिप्रख्ये शुभेऽत्युज्ज्वले तिग्मांशुप्रविकासिहेमरचिते सिंहैः सदालङ्कृते । कौशेयैः सुसमावृतेऽतिमृदुले नानोपधानावृते मातस्त्वं पदवीं निधेहि कृपया दिव्येऽति सिंहासने । ऐं ह्रीं श्रीं भगवति गायत्रि सिंहासनमधिरुह्यतां नमः ॥ २७॥ २८. केशपाशसंस्कारः- बहुभिरगुरुधूपैः सादरं धूपयित्वा भगवति तव केशान् कङ्कतैर्मार्जयित्वा ॥ सुरभि (कमलवृन्दैः) श्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जुटयन् वेषयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै केशपाशान् वेष्टितुं प्रार्थयामि नमः ॥ २८॥ २९. सौवीराञ्जनम् - सौवीराजनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकंशलाकया मया यत् । तन्नूनं मलिनमपि त्वदक्षिसङ्गात् ब्रह्मेन्द्रादयभिलषणीयतामियाय । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सौवीराञ्जनं समर्पयामि नमः ॥ २९॥ ३०. अलङ्काराणि - मञ्जीरान् पदयोर्निधाय रुचिरान् विन्यस्य काञ्ची कटौ मुक्ताहारसुरोजयोरनुपमं नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात् ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ धम्मिल्ले तव देवि हेमकुसमान्याधाय भालस्थले मुक्ताराजिविराजि हेमतिलकं नासापुटे मौलिकाम् । मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कटयां काञ्चनकिङ्किणीं विनिदधे रत्नावतंसौ श्रुतौ । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नानालङ्कराणि समर्पयामि नमः ॥ ३०॥ ३१. गन्धम् - प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोक्षितम् । कुर्वे केशकलापमायततरं घूपोत्तमैर्धूपितम् । काश्मीरैरगुरुद्रवैर्मलयजैः सङ्घर्ष्य सम्पादितं भक्तत्राणपरे (विशुद्ध-) विमले श्रीचन्दनं गृह्यताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै गन्धं समर्पयामि नमः ॥ ३१॥ ३२. कुङ्कुमम् - मातर्भालतले तवातिविमले काश्मीरकस्तूरिका- ऽगुरुभिः संवलितं करोमि तिलकं देहेऽङ्गरागं हि तत् । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पावृतिं पादौ कुङ्कुमलेपनादिभिरहं सम्पूजयामि क्रमात् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै कुङ्कुमं समर्पयामि नमः ॥ ३२॥ ३३. कज्जलम् - चाम्पेयकपूर्रकचन्दनादिभिर्नानाविधैर्गन्धचयैः सुवासितम् । नेत्राञ्जनार्थाय हरिन्मणिप्रभं श्रीचण्डिके स्वीकुरु कज्जलं शुभम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै कज्जलं समर्पयामि नमः ॥ ३३॥ ३४. अक्षतान् - रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै अक्षतान् समर्पयामि नमः ॥ ३४॥ ३५. अत्तरम् - जननि चम्पतैलमिदं पुरो मृगमदः पटवासक ऐडकः । विपुलगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै परिमलं समर्पयामि नमः ॥ ३५॥ ३६. सिन्दूरम् - सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूर ते हृदयकमले हर्षवर्षं तनोतु । बालादित्यदयुतिरिव सदा लोहितायस्यकान्ति- श्चन्तर्ध्वान्तं हरतु सकलं चेतसा चिन्तयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सिन्दूरं समर्पयामि नमः ॥ ३६॥ ३७. मुकुटम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नवरत्नजटितस्वर्णमुकुटं समर्पयामि नमः ॥ ३७॥ ३८. पुष्पाणि - मन्दारकुन्दकरवीरलवङ्गपुष्पै- स्त्वां देवि सन्ततमहं परिपूजयामि । जातीजपाबकुलचम्पककेतकादि- नानाविधानि कुसुमानि च तेऽर्पयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नानाविधानि पुष्पाणि समर्पयामि नमः ॥ ३८॥ ३९. पुष्पमाला - पुष्पौघैर्द्योतयद्भिः सततपरिचलत्कान्तिकल्लोलजालैः कुर्वाणा मज्जदन्तःकरणविमलताशोभितेयं त्रिवेणी । मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निमिता दीप्यमानैः नित्यं हारं त्वं भगवति कमले गृह्यतां कण्ठमध्ये ॥ ३९॥ ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै पुष्पमालां समर्पयामि नमः ॥ ३९॥ ४०. श्वेतचूर्णम् - मन्दारवल्लीकरवीरसम्भवं कर्परपाटीरसुवासितं सितम् । श्रीश्वेतचूर्णं विधिना समर्पितं प्रीत्या त्वमङ्गीकुरु मातरद्य । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै स्वेतचूर्ण समर्पयामि नमः ॥ ४०॥ ४१. रक्तचूर्णम् - प्रत्यूषबालार्कमयूखसन्निभं जातीफलैलागुरुणा सुवासितम् । श्रीरक्तचूर्णं मनसा मयार्पितं प्रीत्यां त्वमङ्गीकुरु मातरद्य । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै रक्तचूर्ण समर्पयामि नमः ॥ ४१॥ ४२. हरिद्रा - हरिद्रमोत्थामतिपीतवर्णा सुवासितां चन्दनपारिजातैः । अनन्यभावेन समर्पितं ते मातर्हरिद्रामुररीकुरुस्व । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै हरिद्रां समर्पयामि नमः ॥ ४२॥ ४३. कुङ्कुमम् - कुङ्कुमं कामनादिव्यं कामनाकामसम्भवम् । कुङ्कुमेनार्चिता देवि प्रसीद परमेश्वरि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै कुङ्कुमं समर्पयामि नमः ॥ ४३॥ ४४. अबीरगुललाम् - अबीरं च गुलालं च चोवाचन्दनमेव च । अबीरेणार्चिता देवि ऋतं शान्तिं प्रयच्छ मे । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै अबीरं समर्पयामि नमः ॥ ४४॥ ४५. धूपम् - लाक्षारसमिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः कर्पूराकलितैः सितामधुयुतैर्गोसर्पिषाऽऽलोडितैः । श्रीखण्डागुरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि- र्धूपं ते परिकल्पयामि जननि तद्भूपमङ्गीकुरु । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै धूपमाघ्रापयामि नमः ॥ ४५॥ ४६. दीपम् - रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा दीपितै- र्दीपैर्दीर्घतरान्धकारभिदुरैर्वालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलद्गगनवद्रत्नप्रदीपैः सदा मातस्त्वामहमादरादनुदिनं नीराञ्जयाम्युज्ज्वलैः । ॐ ह्रीं श्रीं भगवत्यै गायत्र्यै दीपं दर्शयामि नमः ॥ ४६॥ ४७. नैवेद्यम् - मातस्त्वां दघिदुग्धपायसमहाशाल्यन्नसन्तालिका सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकौस्तुम्बरैः संस्कृतैः शाकैः शाकयुतैः सुधादिसरसैः सन्तर्पयाम्यर्पितैः ॥ सासूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्ष्यपरमान्नपुरःसराणि ॥ शाकील्लसनमरिचजीरकत्वल्लिकानि भक्ष्याणि भक्ष जगदम्ब मयार्पितानि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यैनानाविधपरिपक्व- सुमधुरपक्वफलयुक्त नैवेद्यं निवेदयामि नमः ॥ ४७॥ ४८. आचमनीयम् - गङ्गोत्तरीवेगसमुद्भवेन सुशीतलेनापि मनोहरेण । तत्पद्मपत्राक्षि मयाऽर्पितेन शाङ्खोदकेनाचमनं कुरुस्व । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नैवेद्यान्ताचमनीयं जलं समर्पयामि नमः ॥ ४८॥ ४९. पूर्वामधुरपानम् - क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु । पानमेतदमृतोपमं त्वया सम्भ्रमेण परिणीयतां मुहुः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नैवेद्यान्ताचमनीयं जलं समर्पयामि नमः ॥ ४९॥ ५०. जलम् - अतिशीतमुशीरवासितं तपनीयोपवने निवेदितम् । पटपूतमिदं जितामृतं शुचि गङ्गामृतमेव पीयताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै जलं समर्पयामि नमः ॥ ५०॥ ५१. उत्तराचमनीयम् - नीहारहारं वनसारसारं प्रकल्पितानेकसुगन्धिभारम् । शीताम्बु जाम्बुनदपात्रवर्त्ति पीत्वा हि विश्वेश्वरि पीयतां पुनः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै उत्तराचमनीयं समर्पयामि नमः ॥ ५१॥ ५२. करोद्वर्तनम् - उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्त्तय चन्दनेन । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै करोद्वर्त्तनं गन्धं समर्पयामि नमः ॥ ५२॥ ५३. ताम्बूलम् - कर्पूरेण युतैः लवङ्गसहितैः कङ्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः । मातः केतकपत्रकेन्दुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनीयमतुलं ताम्बूलमङ्गीकुरु । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै ताम्बूलं समर्पयामि नमः ॥ ५३॥ ५४. दक्षिणा - अथ वहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीये पूजयित्वा च वस्त्रैः । मिलितविविधयुक्तैदिव्यलावण्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै दक्षिणां समर्पयामि नमः ॥ ५४॥ ५५. आरार्त्तिक्यम् - ॐ कर्पूरगौरं करुणावतारं संसारसार भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ ॐ इदं हविः प्रजननं मेऽस्तु दशवीरं सर्वगणं स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्नि प्रजां बहुलां मेऽकरोतु अन्नं पयो रेतोऽस्मासु धत्त । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै आरार्तिक्यं समर्पयामि नमः ॥ ५५॥ ५६. प्रदक्षिणा - पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति । तां सर्वपापक्षयहेतुभूतां प्रदाक्षिणां ते परितः करोमि । ॐ ऐं हीं श्रीं भगवत्या गायत्र्याः प्रदाक्षिणां करोमि नमः ॥ ५६॥ ५७. मन्त्रपुष्पाञ्जलिः - ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै मन्त्रपुष्पाञ्जलिं समर्पयामि नमः ॥ ५७॥ ५८. प्रार्थना - ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्म इषाण सर्वलोकम्म इषाण ॥ ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एकः । ॐ ऐं ह्रीं श्रीं भगवती गायत्र्यीं प्रार्थयामि नमः ॥ ५८॥ ५९. विशेषार्घ्यम् - कलिङ्गकोशातकसंयुतानि जम्बीरनारङ्गसमन्वितानि । सुनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै विशेषार्घ्यं समर्पयामि नमः ॥ ५९॥ ६०. छत्रम् - मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुविम्बप्रभं नानारत्नविशोधि हेमतिलकं लोकत्रयाह्लादकम् । भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि जननि त्वष्ट्रा स्वयं निर्मितम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै छत्रं समर्पयामि नमः ॥ ६०॥ ६१. चामरम् - शरदिन्दुमरीचिगौरवर्णैः माणिक्यमुक्ताविलसत्सुदण्डैः । जगदम्ब विचित्र चामरैस्त्वामहमानन्दभरेण वीजयामि । ऐं ह्रीं श्रीं भगवतीं गायत्रीं चामरेण वीजयामि नमः ॥ ६१॥ ६२. आदर्शः- मार्तण्डमण्डलनिभो जगदम्ब योऽयं भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते । पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन् विलोकय विलोलविलोचनेन । ॐ ऐं ह्रीं श्रीं भगवतीं गायत्रीं दर्पणं दर्शयामि नमः ॥ ६२॥ ६३. अस्त्रम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सुदर्शनाद्यस्त्रं समर्पयामि नमः ॥ ६३॥ ६४. शस्त्रम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै गदाशखम्पाशादि शस्त्रं समर्पयामि नमः ॥ ६४॥ ६५. वाहनम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै हंससिंहगरुडादि वाहनं समर्पयामि नमः ॥ ६५॥ ६६. सैन्यम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सैन्यं समर्पयामि नमः ॥ ६७. नृत्यम् - भ्रमविलोलितकुन्तलवृन्दका गलितमाल्यविकीर्णसुभूमयः । झटिति झङ्कृतिभिर्जगदम्बिके मृदुरवा हृदयं सुखयन्तु ते । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नृत्यं समर्पयामि नमः ॥ ६७॥ ६८. प्रणामः - ॐ ऐं ह्रीं श्रीं भगवती गायत्री साष्टाङ्ग प्रणमामि । इति राजोपचारमानसपूजा समाप्ता । समाप्ति चागादियं गायत्रीउपासनापद्धतिः । ॐ शान्तिः ! शान्तिः !! शान्तिः !!! गायत्री राज उपचार मानस पूजा उपासना पद्धति