अक्षर आकार:

गायत्रीपञ्चाङ्गम्

Gayatri Panchangam

गायत्रीपञ्चाङ्गम्

भैरव उवाच - श्रृणु देवि प्रवक्ष्यामि गायत्रीतत्त्वमुत्तमम् । स्तोमं मन्त्रमयं नाम सर्वतन्त्रेषु गोपितम् ॥ १॥ अङ्गपञ्चाङ्गमीशानि महापातकनाशनम् । पुण्यप्रदं वेदसारं सर्वतत्त्वोत्तमोत्तमम् ॥ २॥ परमार्थाभिख्यातस्य स्तोत्रस्यास्ति ऋषिः शिवः । त्रिष्टुप् छन्दो महादेवि त्रिपदी देवता स्मृता ॥ ३॥ तारं बीजं शिरः शक्तिः स्वर्गं कीलकमीश्वरि । धर्मार्थकाममोक्षार्थे विनियोग इति स्मृतः ॥ ४॥ ध्यानम्- चतुर्भुजामर्कसहस्रकोटिभां त्रिलोचनां हारकिरीटशोभिताम् । कपालखट्वाङ्गधरां महोज्ज्वलां (श्रुती) श्वरी पञ्चमुखीं भजाम्यहम् ॥ १॥ विविधमणिमयूरवैः स्फीतकेयूरहारां प्रवरकनककाञ्चीकिङ्किणीकिङ्किणाढ्याम् । सकलभुवनरक्षासृष्टिसंहारकर्त्रीं निगमपरमविद्यामाश्रये वेदधात्रीम् ॥ २॥ प्रणवं मनुराजमौलिरत्नोपरि देवेश्वरि वेदसागरोत्थाम् । प्रजये हृदये दयः समुद्रः सततं ब्रह्मविदीश्वरो भवेद्य एकः ॥ ३॥ शङ्का भवेच्चैव विहाय शङ्का कङ्कालमालाभरणो निशीथे । कृशानुभानुप्रभया समानो विमानचारी स भवेत समानः ॥ ४॥ नृबीजमन्तः शिवशक्तिरूपं विभोर्जपेद्यः त्रिपदीरहस्यम् । स कामुकः कामकलाविदग्धो भवेत्तु रम्भाङ्गविलासभागी ॥ ५॥ त्रिकूटबीजं तव मन्त्रमध्ये जपेद्भवानि स्मरतप्तचेता । स मीनकामांश्च निदाघमेधो भवेद्भुवो भूपबुधो जनेन्द्रः ॥ ६॥ स्मरजपेद्यः परमार्थपथ्यां निर्वाणपथ्यां तव पञ्चवक्त्रे । समस्तलोकाधिपतिः पुरेऽसौ भवेत्परानुग्रहभाजनं सः ॥ ७॥ परां जपेद्यः परमार्थतथ्यां निर्वाणरथ्यां तव पञ्चवक्त्रे । सुलोचनांलोचनवीक्षणोरु प्रभावपीयूषरसाकुलात्मा ॥ ८॥ लक्ष्मीं जपेद्यः परवर्गभीतः श्मशानभूमौ शिववेषधारी । तस्यै (-व) वश्या कमलाकरस्था या विष्णुपत्नी कमलाकरस्था ॥ ९॥ वाणी यदा कण्ठजले जपेद्यो दशायुतं दुर्दशयाभिभूतः । स वैरिवर्ग समरे निहत्य भवेद्भवानीतनयो दिवेन्द्रः ॥ १०॥ भीमां जपेद्यो वरतान्तकाले नितान्तमम्भोजदलासनस्थः । स भीमरूपोऽरिकुलं विहन्या- दन्ते लभेत्कामपदं त्रिपाद्याः ॥ ११॥ मन्त्र जपेद्यः शुचिरर्चनायां चतुर्भुजे हव्यभुजः समक्षम् । स गाणपत्यं प्रतिपद्य देव्या स्तथा भवेद्विश्वनृपाधिनाथः ॥ १२॥ गायत्रीत्यभिधाक्षरत्रयमिदं वेदार्थतत्त्वं परं यो ध्यायेद्धृदयारविन्दकुहरे प्रातर्निशीथेऽथवा । चैनाचारविचारमार्गनिपुणो वेदान्तसारोद्धृतं प्रोद्भूतागमतत्त्ववित्तु त्रिपदीधाम स्वयं यास्यति ॥ १३॥ रमा (सुयोगी) गिरिगह्वरान्ते जपेद्गिरीशाङ्कपतेः समीपे । स योगिगम्यो गुरुगर्वहारी गिरां भवेदिन्द्रसमुच्चिताघ्रिः ॥ १४॥ मायां जपेद्यः स्मरयुक्तचेता जटाकिरीटेन्दुकले तवाग्रे । स वैष्णवेन्दौ सुरनाथमौलिः स्फुरन्मणिज्योतिविराजिताङ्घ्रिः ॥ १५॥ मा बीजमिन्दुस्फुरतोर्ध्वबीजं जपेन्निशीथे शीर्षासनस्थः । यो वीरमातैकपरः स सद्यो भवेद्धरायां नृपसार्वभौमः ॥ १६॥ मायायुगं यः प्रजपेद्रतादौ (नारी-) मुखासक्तमुखो निशीथे । स लोकपालार्चितपादपद्मो भवेद्भवान्ते भुवनाधि नाथः ॥ १७॥ वाणी जपेद्यो जडभावयुक्तो वेदान्ततत्त्वैकपरो भवेच्च । तस्यास्यपद्मे वसतिं विधाय ननर्त्ति वाणी विदुषां सभायाम् ॥ १८॥ यो वायुपूज्यां सुरतावसाने जपेन्निशीथे शशिखण्डचूडे । स वायुपूज्यो बलवान् प्रयाति तद्धाम सत्यं त्रिदिवेन्द्रतुल्यः ॥ १९॥ कान्तार्णमन्तर्जपते स्मरान्ते यो वेदमातर्दिवसावसाने । वश्यो वशी तस्य पदारविन्दे सुश्रूषमाणो भवता भवन्ति ॥ २०॥ मन्त्रान्तरस्थं ठद्वयं जपेद्यस् तेजोरूपं साधकसाधकेशि । तस्याप्यास्ये भारती तस्य हस्ते लक्ष्मीः कुर्याद्वास आकल्पकालम् ॥ २१॥ भूगेहवृत्तस्रयषोडशार नानास्त्रदिक्कोणयुगानि विन्दौ । निषेदुषीं शीधुरसाकुलाक्षी ज्यक्षीं त्रिवर्णां त्रिपदां भजामि ॥ २२॥ देवि त्रैलोक्यमातर्लगुडवरकरे पुष्पमालावतंसे नानारत्नप्रभाढ्ये त्रिनयनविलसत्सूर्यचन्द्राग्निनेत्रे । पीठे वै पञ्चवक्त्रे वलयमणिविभाभासुरे नूपुराढ्ये श्रीमन्नीलोत्पलाभे त्रिभुवनहृदये वेदमातः प्रसीद ॥ २३॥ इति स्तोत्रं पुण्यं परममनुमयतत्त्वसहितं पठेद्वा गायत्रीं निशि कुजदिने वापि सततम् । पठेद्वाऽसौ दान्तः (सकलमपि) शास्त्रं गमयति लभेल्लक्ष्मीं प्रान्ते परमपदवीमातृकामपि ॥ २४॥ एतद्देवीपञ्चाङ्गं सर्व सारमनुत्तमम् । गायत्र्यास्तत्त्वमीशानि चतुर्वेदरहस्यकम् ॥ २६॥ सर्वसारमयं सिद्धिप्रदं भोगापवर्गदम् । सर्वतन्त्रेषु गुप्तं च महादिव्यं महापदम् ॥ २७॥ न दातव्यमभक्ताय कुचैलाय दुरात्मने । अन्यशिष्याय नो देयं दत्त्वा निरयमाप्नुयात् ॥ २८॥ शिष्याय शुद्धमनसे गुरुभक्ताय पार्वति । दीक्षिताय कुलीनाय देयं साधकसत्तमे ॥ २९॥ इतीदं देवि गायत्र्यास्तत्त्वसाररहस्यकम् । गुह्यं गोप्यं न दातव्यं गोपनीयं प्रयत्नतः ॥ ३०॥ इति श्री रूद्रयामलतन्त्रे गायत्रीरहस्ये परमार्थदेवतात्रिपदीगायत्रीपञ्चाङ्गं सम्पूर्णम् । गायत्री रहस्य पंचांगं