अक्षर आकार:

गायत्रीनामाष्टाविंशतिस्तोत्रम्

gAyatrInAmAShTAviMshatistotram

गायत्रीनामाष्टाविंशतिस्तोत्रम्

श्रीगणेशाय नमः ॥ ब्रह्मोवाच । शताक्षरात्मकं देव्या नामाष्टाविंशतिः शतम् । श‍ृणु वक्ष्याभि तत्सर्वमतिगुह्यं सनातनम् ॥ १॥ भूतिदा भुवना वाणी वसुधा सुमना मही । हरिणी जननी नन्दा सविसर्गा तपस्विनी ॥ २॥ पयस्विनी सती त्यागा चैन्दवी सत्यवीरसा । विश्वा तुर्या परा रेच्या निर्घृणी यमिनी भवा ॥ ३॥ गोवेद्या च जरिष्ठा च स्कन्दिनी धीर्मतिर्हिमा । भीषणा योगिनी पक्षी नदी प्रज्ञा च चोदिनी ॥ ४॥ धनिनी यामिनी पद्मा रोहिणी रमणी ऋषिः । सेनामुखी सामयी च बकुला दोषवर्जिता ॥ ५॥ सर्वकामदुघा सोमोद्भवाऽहङ्कारवर्जिता । द्विपदा च चतुष्पादा त्रिपदा चैव षट्पदा ॥ ६॥ अष्टापदी नवपदी सा सहस्राक्षरात्मिका । इदं यः परमं गुह्यं सावित्रीमन्त्रगर्भितम् ॥ ७॥ नामाष्टविंशतिशतं श‍ृणुयाच्छ्रावयेत्पठेत् । मर्त्यानाममृतत्वाय भीतानामभयाय च ॥ ८॥ मोक्षाय च मुमुक्षूणां श्रीकामान् प्राप्तये श्रियः । विजयाय युयुत्सूनां व्याधितानामरोगकृत् ॥ ९॥ वश्याय वश्यकामानां विद्यायै वेदकामिनाम् । द्रविणाय दरिद्राणां पापिनां पापशान्तये ॥ १०॥ वादिनां वादविजये कवीनां कविताप्रदम् । वादविषये अन्नाय क्षुधितानां च स्वर्गाय नाकमिच्छताम् ॥ ११॥ स्वर्गार्थं पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकाङ्क्षिणाम् । क्लेशिनां शोकशान्त्यर्थं नृणां शत्रुभयाय च ॥ १२॥ राजवश्याय द्रष्टव्यं परमं नृपसेविनाम् । भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥ १३॥ नायकं विधिसृष्टानां शान्तये भवति ध्रुवम् । निःस्पृहाणां नृणां मुक्तिः शाश्वती भवति ध्रुवम् ॥ १४॥ जप्यं त्रिवर्गसंयुक्तं गृहस्थेन विशेषतः । मुनीनां ज्ञानसिद्ध्यर्थं यतीनां मोक्षसिद्धये ॥ १५॥ उद्यतं चन्द्रकिरणमुपस्थाय कृताञ्जलिः । कानने वा स्वभवने तिष्ठन् शुद्धो जपेदिदम् ॥ १६॥ सर्वान् कामानवाप्नोति तथैव शिवसन्निधौ । मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्धनम् ॥ १७॥ ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् । अङ्गमङ्गं यथालिङ्गं कवचेन तु साधकः ॥ १८॥ मण्डलेन विशुध्येत सर्वरोगैर्न संशयः । मृतप्रजा च या नारी जन्मवन्ध्या तथैव च ॥ १९॥ कन्यादिवन्ध्या या नारी तासामङ्गं प्रमार्जयेत् । पुत्रा नरोगिणस्तास्तु लभन्ते दीर्घजीविनः ॥ २०॥ तास्ताः संवत्सरादर्वाक् गर्भं तु दधिरे पुनः । पतिविद्वेषिणी या स्त्री अङ्गं तस्याः प्रमार्जयेत् ॥ २१॥ तमेव भजते सा स्त्री पतिं कामवशं नयेत् । अश्वत्थे राजवश्यार्थं बिल्वमूले स्वरूपभाक् ॥ २२॥ पालाशमूले विद्यार्थी तेजसोऽभिमुखो रवौ । कन्यार्थी चण्डिकागेहे जपेच्छत्रुभयाय च ॥ २३॥ श्रीकामो विष्णुगेहे च उद्याने श्रीर्वशीभवेत् । आरोग्यार्थे स्वगेहे च मोक्षार्थी शैलमस्तके ॥ २४॥ सर्वकामो विष्णुगेहे मोक्षार्थी यत्र कुत्रचित् । जपारम्भे तु हृदयं जपान्ते कवचं पठेत् ॥ २५॥ किमत्र बहुनोक्तेन श‍ृणु नारद तत्त्वतः । यं यं चिन्तयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ २६॥ इति श्रीमद्वसिष्ठसंहितायां ब्रह्मनारदसंवादे गायत्रीनामाष्टाविंशतिस्तोत्रं समाप्तम् ॥