अक्षर आकार:

गायत्रीहृदयम् २

Gayatri Hridayam 2

गायत्रीहृदयम् २

। अथ गायत्री हृदयम् । ॐ इत्येकाक्षरं ब्रह्म, अग्निर्देवता, ब्रह्म इत्यार्षम्, गायत्रं छन्दं, परमात्मम् स्वरूपं, सायुज्यं विनियोगम् । आयातु वरदा देवी अक्षर ब्रह्म सम्मितम् । गायत्री छन्दसां माता इदं ब्रह्म जुहस्व मे ॥ यदन्नात्कुरुते पापं तदन्नत्प्रतिमुच्यते । यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते ॥ सर्व वर्णे महादेवि सन्ध्या विद्ये सरस्वति । अजरे अमरे देवि सर्व देवि नमोऽस्तुते ॥ ओजोसि सहोसि बलमसि भ्राजोसि देवानां धाम नामासि विश्वमसि । विश्वायुः सर्वमसि सर्वायुरभि भूरोम् ॥ गायत्रीं आवाहयामि सावित्रीं आवाहयामि सरस्वतीं आवाहयामि । छन्दर्शिन आवाहयामि श्रियं आवाहयामि बलं आवाहयामि ॥ गायत्र्या गायत्री छन्दो विश्वामित्र ऋषिः सविता देवता । अग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयं रुद्रःशिखा । पृथिवी योनिः प्राणापान व्यानोदान समान सप्राण श्वेतवर्ण सांख्यायन्यास गोत्र गायत्री चतुर्विंशत्यक्षरा त्रिपाद षट् कुक्षिः पञ्चशीर्षोपनयने विनियोगः ॥ । इति गायत्री हृदयम् । Gayatri - Sant Keshvadas; Vishva Shanti Ashrma