अक्षर आकार:

गायत्रीहृदयम्

Gayatri Hridaya

गायत्रीहृदयम्

॥ अथ श्रीमद्देवीभागवते महापुराणे गायत्रीहृदयम् ॥ नारद उवाच । भगवन्देवदेवेश भूतभव्य जगत्प्रभो । कवचं च श‍ृतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १॥ अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् । यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम् ॥ २॥ श्रीनारायण उवाच । देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् । तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३॥ विराड्रूपां महादेवीं गायत्रीं वेदमातरम् । ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४॥ पिण्डब्रह्मण्दयोरैक्याद्भावयेत्स्वतनौ तथा । देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५॥ नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः । ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६॥ अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमयो भवेत् । गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७॥ गायत्रीछन्द उद्दिष्टं देवता परमेश्वरी । पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट् क्रमात् । आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८॥ अथार्थन्यासः ॥ द्यौमूर्ध्नि दैवतम् ॥ दन्तपङ्क्तावश्विनौ ॥ उभे सन्ध्ये चौष्ठौ ॥ मुखमग्निः ॥ जिह्वा सरस्वती ॥ ग्रीवायां तु बृहस्पतिः ॥ स्तनयोर्वसवोऽष्टौ ॥ बाह्वोर्मरुतः ॥ हृदये पर्जन्यः ॥ आकाशमुदरम् ॥ नाभावन्तरिक्षम् ॥ कट्योरिन्द्राग्नी ॥ जघने विज्ञानघनः प्रजापतिः ॥ कैलासमलये ऊरू ॥ विश्वेदेवा जान्वोः ॥ जङ्घायां कौशिकः ॥ गुह्यमयने ॥ ऊरू पितरः ॥ पादौ पृथिवी ॥ वनस्पतयोङ्गुलीषु ॥ ऋषयो रोमाणि ॥ नखानि मुहूर्तानि ॥ अस्थिषु ग्रहाः ॥ असृङ्मांसमृतवः ॥ संवत्सरा वै निमिषम् ॥ अहोरात्रावादित्यश्चन्द्रमाः ॥ प्रवरं दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ॥ ॐ तत्सवितुर्वरेण्याय नमः ॥ ॐ तत्पूर्वाजयाय नमः ॥ तत्प्रातरादित्याय नमः ॥ तत्प्रातरादित्यप्रतिष्ठायै नमः ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ सायंप्रातरधीयानः अपापो भवति ॥ सर्वतीर्थेषु स्नातो भवति ॥ सर्वैर्देवैर्ज्ञातो भवति ॥ अवाच्यवचनात्पूतो भवति ॥ अभक्ष्यभक्षणात्पूतो भवति ॥ अभोज्यभोजनात्पूतो भवति ॥ अचोष्यचोषणात्पूतो भवति ॥ असाध्यसाधनात्पूतो भवति ॥ दुष्प्रतिग्रहशतसहस्रात्पूतो भवति ॥ पङ्क्तिदूषणात्पूतो भवति ॥ अमृतवचनात्पूतो भवति ॥ अथाब्रह्मचारी ब्रह्मचारी भवती ॥ अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति ॥ षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवन्ति ॥ अष्टौ ब्राह्मणान्सम्यग्ग्राहयेत् ॥ तस्य सिद्धिर्भवति ॥ य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापः प्रमुच्यत इति ॥ ब्रह्मलोके महीयते ॥ इत्याह भगवान् श्रीनारायणः ॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥ Part of Ch. 4, Book 12 of Devi Bhagavatam.