अक्षर आकार:

गायत्री संहिता

Gayatri Samhita

गायत्री संहिता

आदि शक्तिरिति विष्णोस्तामहं प्रणमामि हि । सर्गः स्थितिर्विनाशश्च जायन्ते जगतोऽनया ॥ १॥ नाभि-पद्म-भुवा विष्णोर्ब्रह्मणा निर्मितं जगत् । स्थावरं जङ्गमं शक्त्या गायत्र्या एव वै ध्रुवम् ॥ २॥ चन्द्रशेखर केशेभ्यो निर्गता हि सुरापगा । भगीरथं ततारैव परिवारसमं यथा ॥ ३॥ जगद्धात्री समुद्भूय या हृन्मानसरोवरे । गायत्री सकुलं पारं तथा नयति साधकम् ॥ ४॥ सास्ति गङ्गैव ज्ञानाख्यसुनीरेण समाकुला । ज्ञान गङ्गा तु तां भक्त्या वारं-वारं नमाम्यहम् ॥ ५॥ ऋषयो वेद-शास्त्राणि सर्वे चैव महर्षयः । श्रद्धया हृदि गायत्रीं धारयन्ति स्तुवन्ति च ॥ ६॥ ह्रीं श्रीं क्लीं चेति रूपैस्तु त्रिभिर्वा लोकपालिनी । भासते सततं लोके गायत्री त्रिगुणात्मिका ॥ ७॥ गायत्र्यैव मता माता वेदानां शास्त्रसम्पदाम् । चत्वारोऽपि समुत्पन्ना वेदास्तस्या असंशयम् ॥ ८॥ परमात्मनस्तु या लोके ब्रह्म शक्तिर्विराजते । सूक्ष्मा च सात्त्विकी चैव गायत्रीत्यभिधीयते ॥ ९॥ प्रभावादेव गायत्र्या भूतानामभिजायते । अन्तःकरणेषु देवानां तत्त्वानां हि समुद्भवः ॥ १०॥ गायत्र्युपासनाकरणादात्मशक्तिर्विवर्धते । प्राप्यते क्रमशोऽजस्य सामीप्यं परमात्मनः ॥ ११॥ शौचं शान्तिर्विवेकश्चैतल्लाभ त्रयमात्मिकम् । पश्चादवाप्यते नूनं सुस्थिरं तदुपासकम् ॥ १२॥ कार्येषु साहसः स्थैर्यं कर्मनिष्ठा तथैव च । एते लाभाश्च वै तस्माज्जायन्ते मानसास्त्रयः ॥ १३॥ पुष्कलं धन-संसिद्धिः सहयोगश्च सर्वतः । स्वास्थ्यं वा त्रय एते स्युस्तस्माल्लाभाश्च लौकिकाः ॥ १४॥ काठिन्यं विविधं घोरं ह्यापदां संहतिस्तथा । शीघ्रं विनाशतां यान्ति विविधा विघ्नराशयः ॥ १५॥ विनाशादुक्त शत्रूणामन्तः शक्तिर्विवर्धते । संकटानामनायासं पारं याति तया नरः ॥ १६॥ गायत्र्युपासकस्वान्ते सत्कामा उद्भवन्ति हि । तत्पूर्तयेऽभिजायन्ते सहजं साधनान्यपि ॥ १७॥ त्रुटयः सर्वथा दोषा विघ्ना यान्ति यदान्तताम् । मानवो निर्भयं याति पूर्णोन्नति पथं तदा ॥ १८॥ बाह्यंचाभ्यन्तरं त्वस्य नित्यं सन्मार्गगामिनः । उन्नतेरुभयं द्वारं यात्युन्मुक्तकपाटताम् ॥ १९॥ अतः स्वस्थेन चित्तेन श्रद्धया निष्ठया तथा । कर्तव्याविरतं काले गायत्र्याः समुपासना ॥ २०॥ दयालुः शक्ति सम्पन्ना माता बुद्धिमती यथा । कल्याणं कुरुते ह्येव प्रेम्णा बालस्य चात्मनः ॥ २१॥ तथैव माता लोकानां गायत्री भक्तवत्सला । विदधाति हितं नित्यं भक्तानां ध्रुवमात्मनः ॥ २२॥ कुर्वन्नपि त्रुटीर्लोके बालको मातरं प्रति । यथा भवति कश्चिन्न तस्या अप्रीतिभाजनः ॥ २३॥ कुर्वन्नपि त्रुटीर्भक्तः क्वचित् गायत्र्युपासने । न तथा फलमाप्नोति विपरीतं कदाचन ॥ २४॥ अक्षराणां तु गायत्र्या गुम्फनं ह्यस्ति तद्विधम् । भवन्ति जागृता येन सर्वा गुह्यास्तु ग्रन्थयः ॥ २५॥ जागृता ग्रन्थयस्त्वेताः सूक्ष्माः साधकमानसे । दिव्यशक्तिसमुद्भूतिं क्षिप्रं कुर्वन्त्यसंशयम् ॥ २६॥ जनयन्ति कृते पुंसामेता वै दिव्यशक्तयः । विविधान् वै परिणामान् भव्यान् मङ्गलपूरितान् ॥ २७॥ मन्त्रस्योच्चारणं कार्यं शुद्धमेवाप्रमादतः । तदशक्तो जपेन्नित्यं सप्रणवास्तु व्याहृतीः ॥ २८॥ ओमिति प्रणवः पूर्वं भूर्भुवः स्वस्तदुत्तरम् । एषोक्ता लघु गायत्री विद्वद्भिर्वेदपण्डितैः ॥ २९॥ शुद्धं परिधानमाधाय शुद्धे वै वायुमण्डले । शुद्ध देहमनोभ्यां वै कार्या गायत्र्युपासना ॥ ३०॥ दीक्षामादाय गायत्र्या ब्रह्मनिष्ठाग्रजन्मना । आरभ्यतां ततः सम्यग्विधिनोपासना सता ॥ ३१॥ गायत्र्युपासनामुक्त्वा नित्यावश्यककर्मसु । उक्तस्तत्र द्विजातीनां नानध्यायो विचक्षणैः ॥ ३२॥ आराधयन्ति गायत्रीं न नित्यं ये द्विजन्मनः । जायन्ते हि स्वकर्मभ्यस्ते च्युता नात्र संशयः ॥ ३३॥ शूद्रास्तु जन्मना सर्वे पश्चाद्यान्ति द्विजन्मताम् । गायत्र्यैव जनाः साकं ह्युपवीतस्य धारणात् ॥ ३४॥ उच्चता पतितानां च पापिनां पापनाशनम् । जायेते कृपयैवास्याः वेदमातुरनन्तया ॥ ३५॥ गायत्र्या या युता सन्ध्या ब्रह्मसन्ध्या तु सा मता । कीर्तितं सर्वतः श्रेष्ठं तस्यानुष्ठानमागमैः ॥ ३६॥ आचमनं शिखाबन्धः प्राणायामोऽघमर्षणम् । न्यासश्चोपासनायां तु पञ्च कोषा मता बुधैः ॥ ३७॥ ध्यानतस्तु ततः पश्चात् सावधानेन चेतसा । जप्या सततं तुलसी मालया च मुहुर्मुहुः ॥ ३८॥ एक वारं प्रतिदिनं न्यूनतो न्यूनसङ्ख्यकम् । धीमान्मन्त्र शतं नूनं नित्यमष्टोत्तरं जपेत् ॥ ३९॥ ब्राह्मे मुहूर्ते प्राङ्मुखो मेरुदण्डं प्रतन्य हि । पद्मासनं समासीनः सन्ध्यावन्दनमाचरेत् ॥ ४०॥ दैन्यरुक् शोक चिन्तानां विरोधाक्रमणापदाम् । कार्यं गायत्र्यनुष्ठानं भयानं वारणाय च ॥ ४१॥ जायते सा स्थितिरस्मान्मनोऽभिलाषयान्विता । यतः सर्वेऽभिजायन्ते यथा कालं हि पूर्णताम् ॥ ४२॥ अनुष्ठानात्तु वै तस्माद्गुप्ताध्यात्मिक-शक्तयः । चमत्कारमया लोके प्राप्यन्तेऽनेकधा बुधैः ॥ ४३॥ सपादलक्षमन्त्राणां गायत्र्या जपनं तु वै । ध्यानेन विधिना चैव ह्यनुष्ठानं प्रचक्षते ॥ ४४ । पञ्चम्यां पूर्णिमायां वा चैकादश्यां तथैव हि । अनुष्ठानस्य कर्तव्यं आरम्भः फल-प्राप्तये ॥ ४५॥ मासद्वयेऽविरामं तु चत्वारिंषट् दिनेषु वा । पूरयेत्तदनुष्ठानं तुल्यसङ्ख्यासु वै जपन् ॥ ४६॥ तस्याः प्रतिमां सुसंस्थाप्य प्रेम्णा शोभन-आसने । गायत्र्यास्तत्र कर्तव्या सत्प्रतिष्ठा विधानतः ॥ ४७ तद्विधाय ततो दीप-धूप-नैवेद्य-चन्दनैः । नमस्कृत्याक्षतेनापि तस्याः पूजनमाचरेत् ॥ ४८॥ पूजनानन्तरं विज्ञः भक्त्या तज्जपमारभेत् । जपकाले तु मनः कार्यं श्रद्धान्वितमचञ्चलम् ॥ ४९॥ कार्यतो यदि चोत्तिष्ठेन्मध्य एव ततः पुनः । कर-प्रक्षालनं कृत्वा शुद्धैरङ्गैरुपाविशेत् ॥ ५०॥ आद्यशक्तिर्वेदमाता गायत्री तु मदन्तरे । शक्तिकल्लोलसन्दोहान् ज्ञानज्योतिश्च सन्ततम् ॥ ५१॥ उत्तरोत्तरमाकीर्य प्रेरयन्ति विराजते । इत्येवाविरतं ध्यायन् ध्यानमग्नस्तु तां जपेत् ॥ ५२॥ चतुर्विंशतिलक्षाणां सततं तदुपासकः । गायत्रीणामनुष्ठानाद्गायत्र्याः सिद्धिमाप्नुते ॥ ५३ साधनायै तु गायत्र्या निश्छलेन हि चेतसा । वरणीयः सदाचार्यः साधकेन सुभाजनः ॥ ५४॥ लघ्वनुष्ठानतो वापि महानुष्ठानतोऽथवा । सिद्धिं विन्दति वै नूनं साधकः सानुपातिकाम् ॥ ५५॥ एक एव तु संसिद्धः गायत्री मन्त्र आदिशत् । समस्त-लोकमन्त्राणां कार्यसिद्धेस्तु पूरकः ॥ ५६॥ अनुष्ठानावसाने तु अग्निहोत्रो विधीयताम् । यथाशक्ति ततो दानं ब्रह्मभोजस्ततः खलु ॥ ५७॥ महामन्त्रस्य चाप्यस्य स्थाने स्थाने पदे पदे । गूढानन्तोपदेशानां रहस्यं तत्र वर्तते ॥ ५८॥ यो दधाति नरश्चैतानुपदेशांस्तु मानसे । जायते ह्युभयं तस्य लोकमानन्दसङ्कुलम् ॥ ५९॥ समग्रामपि सामग्रीमनुष्ठानस्य पूजिताम् । स्थाने पवित्र एवैतां कुत्रचिद्धि विसर्जयेत् ॥ ६०॥ सत्पात्रो यदि वाचार्यो न चेत्संस्थापयेत्तदा । नारिकेलं शुचिं वृत्वाचार्यभावेन चासने ॥ ६१॥ प्रायश्चित्तं मतं श्रेष्ठं त्रुटीनां पापकर्मणाम् । तपश्चर्यैव गायत्र्याः नातोऽन्यद्दृश्यते क्वचित् ॥ ६२॥ सेव्याः स्वात्मसमुद्ध्यर्थं पदार्थाः सात्त्विकाः सदा । राजसाश्च प्रयोक्तव्याः मनोवाञ्छितपूर्तये ॥ ६३॥ प्रादुर्भावस्तु भावानां तामसानां विजायते । तमोगुणानामर्थानां सेवनादिति निश्चयः ॥ ६४॥ मालासन-समिध्यज्ञ-सामग्र्यर्चन-सङ्ग्रहः । गुणत्रयानुसारं हि सर्वे वै ददते फलम् ॥ ६५॥ प्रादुर्भवन्ति वै सूक्ष्माश्चतुर्विंशति शक्तयः । अक्षरेभ्यस्तु गायत्र्या मानवानां हि मानसे ॥ ६६॥ मुहूर्ता योगदोषा वा येऽप्यमङ्गलकारिणः । भस्मतां यान्ति ते सर्वे गायत्र्यास्तीव्रतेजसा ॥ ६७॥ एतस्मात्तु जपान्नूनं ध्यानमग्नेन चेतसा । जायते क्रमशश्चैव षट् चक्राणां तु जागृतिः ॥ ६८॥ षट् चक्राणि यदैतानि जागृतानि भवन्ति हि । षट् सिद्धयोऽभिजायन्ते चक्रैरेतैर्नरस्य वै ॥ ६९॥ अग्निहोत्रं तु गायत्री मन्त्रेण विधिवत् कृतम् । सर्वेष्ववसरेष्वेव शुभमेव मतं बुधैः ॥ ७०॥ यदावस्थासु स्याल्लोके विपन्नासु तदा तु सः । मौनं मानसिकं चैव गायत्री-जपमाचरेत् ॥ ७१॥ तदनुष्ठानकाले तु स्वशक्तिं नियमेज्जनः । निम्नकर्मसु ताः धीमान् न व्ययेद्धि कदाचन ॥ ७२ नैवानावश्यकं कार्यमात्मोद्धारस्थितेन च । आत्मशक्तेस्तु प्राप्तायाः यत्र तत्र प्रदर्शनम् ॥ ७३॥ आहारे व्यवहारे च मस्तिष्केऽपि तथैव हि । सात्त्विकेन सदा भाव्यं साधकेन मनीषिणा ॥ ७४॥ कर्तव्यधर्मतः कर्म विपरीतं तु यद्भवेत् । तत्साधकस्तु प्रज्ञावानाचरेन्न कदाचन ॥ ७५॥ पृष्ठतोऽस्याः साधनाया राजतेऽतितरं सदा । मनस्विसाधकानां हि बहूनां साधनाबलम् ॥ ७६॥ अल्पीयस्या जगत्येवं साधनायास्तु साधकः । भगवत्याश्च गायत्र्याः कृपां प्राप्नोत्यसंशयम् ॥ ७७॥ प्राणायामे जपन् लोकः गायत्रीं ध्रुवमाप्नुते । निग्रहं मनसश्चैव इन्द्रियाणां हि सम्पदाम् ॥ ७८॥ मन्त्रं विभज्य भागेषु चतुर्षु सुबुधस्तदा । रेचकं कुम्भकं बाह्यं पूरकं कुम्भकं चरेत् ॥ ७९॥ यथा पूर्वस्थितञ्चैव न द्रव्यं कार्य-साधकम् । महासाधनतोऽप्यस्मान्नाज्ञो लाभं तथाप्नुते ॥ ८०॥ साधकः कुरुते यस्तु मन्त्रशक्तेरपव्ययः । तं विनाशयति सैव समूलं नात्र संशयः ॥ ८१॥ सततं साधनाभिर्यो याति साधकतां नरः । स्वप्नावस्थासु जायन्ते तस्य दिव्यानुभूतयः ॥ ८२॥ सफलः साधको लोके प्राप्नुतेऽनुभवान् नवान् । विचित्रान् विविधाँश्चैव साधनासिद्ध्यनन्तरम् ॥ ८३॥ भिन्नाभिर्विधिभिर्बुद्ध्या भिन्नासु कार्यपङ्क्तिषु । गायत्र्याः सिद्धमन्त्रस्य प्रयोगः क्रियते बुधैः ॥ ८४॥ चतुर्विंशतिवर्णैर्या गायत्री गुम्फिता श्रुतौ । रहस्यमुक्तं तत्रापि दिव्यैः रहस्यवादिभिः ॥ ८५॥ रहस्यमुपवीतस्य गुह्याद्गुह्यतरं हि यत् । अन्तर्हितं तु तत्सर्वं गायत्र्यां विश्वमातरि ॥ ८६॥ अयमेव गुरोर्मन्त्रः यः सर्वोपरि राजते । बिन्दौ सिन्धुरिवास्मिंस्तु ज्ञानविज्ञानमाश्रितम् ॥ ८७॥ आभ्यन्तरे तु गायत्र्या अनेके योगसञ्चयाः । अन्तर्हिता विराजन्ते कश्चिदत्र न संशयः ॥ ८८॥ धारयन् हृदि गायत्रीं साधको धौतकिल्बिषः । शक्तीरनुभवत्य्ग्राः स्वस्मिन्नेव ह्यलौकिकाः ॥ ८९॥ एतादृश्यस्तु वार्ता भासन्तेऽल्पप्रयासतः । यास्तु साधारणो लोको ज्ञातुमर्हति नैव हि ॥ ९०॥ एतादृश्यस्तु जायन्ते तन्मनस्यनुभूतयः । यादृश्यो न हि दृश्यन्ते मानवेषु कदाचन ॥ ९१॥ प्रसादं ब्रह्मज्ञानस्य येऽन्येभ्यो वितरन्त्यपि । आसादयन्ति ते नूनं मानवाः पुण्यमक्षयम् ॥ ९२॥ गायत्री संहिता ह्येषा परमानन्ददायिनी । सर्वेषामेव कष्टानां वारणायास्त्यलं भुवि ॥ ९३॥ श्रद्धया ये पठन्त्येनां चिन्तयन्ति च चेतसा । आचरन्त्यानुकूल्येन भवबाधां तरन्ति ते ॥ ९४॥