अक्षर आकार:

गायत्री मञ्जरी

Gayatri Manjari

गायत्री मञ्जरी

एकदा तु महादेवं कैलाशगिरिसंस्थितम् । पप्रच्छ देवी वन्द्या विबुधमण्डलैः ॥ १॥ कतमं योगमासीनो योगेश त्वमुपाससे । येन हि परमां सिद्धिं प्राप्नुवान् जगदीश्वर ॥ २॥ श्रुत्वा तु पार्वती वाचं मधुसिक्तां श्रुतिप्रियाम् । समुवाच महादेवो विश्वकल्याणकारकः ॥ ३॥ महद्रहस्यं तद्गुप्तं यत्तु पृष्टं त्वया प्रिये । तथापि कथयिष्यामि स्नेहात्तत्त्वामहं समम् ॥ ४॥ गायत्री वेद मातास्ति साद्या शक्तिर्मता भुवि । जगतां जननी चैव तामुपासेऽहमेव हि ॥ ५॥ यौगिकानां समस्तानां साधनानां तु हे प्रिये । गायत्र्येव मता लोके मूलाधारो विदांवरैः ॥ ६॥ अति रहस्यमय्येषा गायत्री तु दश भुजा । लोकेऽति राजते पञ्च धारयन्ति मुखानि तु ॥ ७॥ अति गूढानि संश्रुत्य वचनानि शिवस्य च । अति संवृद्ध जिज्ञासा शिवमूचे तु पार्वती ॥ ८॥ पञ्चास्य दशबाहूनामेतेषां प्राणवल्लभ । कृत्वा कृपां कृपालो त्वं किं रहस्यं तु मे वद ॥ ९॥ श्रुत्वा त्वेतन्महादेवः पार्वतीवचनं मृदु । तस्याः शंकामपाकुर्वन् प्रत्युवाच निजां प्रियाम् ॥ १०॥ गायत्र्यास्तु महाशक्तिर्विद्यते या हि भूतले । अनन्य भावतो ह्यस्मिन्नोतप्रोतोऽस्ति चात्मनि ॥ ११॥ बिभर्ति पञ्चावरणान् जीवः कोशास्तु ते मताः । मुखानि पञ्च गायत्र्यास्तानेव वेद पार्वति ॥ १२॥ विज्ञानमयान्नमय-प्राणमय-मनोमयाः । तथानन्दमयश्चैव पञ्च कोशाः प्रकीर्तिताः ॥ १३॥ एष्वेव कोशकोशेषु ह्यनन्ता ऋद्धि सिद्धयः । गुप्ता आसाद्य या जीवो धन्यत्वमधिगच्छति ॥ १४॥ यस्तु योगीश्वरो ह्येतान् पञ्च कोशान्नु वेधते । स भवसागरं तीर्त्वा बन्धनेभ्यो विमुच्यते ॥ १५॥ गुप्तं रहस्यमेतेषां कोषाणां योऽवगच्छति । परमां गतिमाप्नोति स एव नात्र संशयः ॥ १६॥ लोकानां तु शरीराणि ह्यन्नादेव भवन्ति नु । उपत्यकासु स्वास्थ्यं च निर्भरं वर्तते सदा ॥ १७॥ आसनेनोपवासेन तत्त्व शुद्ध्या तपस्यया । चैवान्नमयकोशस्य संशुद्धिरभिजायते ॥ १८॥ ऐश्वर्यं पुरुषार्थश्च तेज ओजो यशस्तथा । प्राणशक्त्या तु वर्धन्ते लोकानामित्यसंशयम् ॥ १९॥ पञ्चभिस्तु महाप्राणैर्लघुप्राणैश्च पञ्चभिः । एतैः प्राणमयः कोशो जातो दशभिरुत्तमः ॥ २०॥ बन्धेन मुद्रया चैव प्राणायामेन चैव हि । एष प्राणमयः कोशो यतमानं तु सिद्ध्यति ॥ २१॥ चेतनाया हि केन्द्रन्तु मनुष्याणां मनोमतम् । जायते महतीत्वन्तः शक्तिस्तस्मिन् वशङ्गते ॥ २२॥ ध्यान-त्राटक-तन्मात्रा जपानां साधनैर्ननु । भवत्युज्ज्वलः कोशः पार्वत्येष मनोमयः ॥ २३॥ यथावत् पूर्णतो ज्ञानं संसारस्य च स्वस्य च । नूनमित्येव विज्ञानं प्रोक्तं विज्ञानवेत्तृभिः ॥ २४॥ साधना सोऽहमित्येषा तथा वात्मानुभूतयः । स्वराणां संयमश्चैव ग्रन्थिभेदस्तथैव च ॥ २५॥ एषां संसिद्धिभिर्नूनं यतमानस्य ह्यात्मनि । नु विज्ञानमयः कोशः प्रिये याति प्रबुद्धताम् ॥ २६॥ आनन्दावरणोन्नत्यात्यन्तशान्ति-प्रदायिका । तुरीयावस्थितिर्लोके साधकं त्वधिगच्छति ॥ २७॥ नाद बिन्दु कलानां तु पूर्ण साधनया खलु । नन्वानन्दमयः कोशः साधके हि प्रबुद्ध्यते ॥ २८॥ भूलोकस्यास्य गायत्री कामधेनुर्मता बुधैः । लोक आश्रयणेनामूं सर्वमेवाधिगच्छति ॥ २९॥ पञ्चास्या यास्तु गायत्र्याः विद्यां यस्त्ववगच्छति । पञ्चतत्त्व प्रपञ्चात्तु स नूनं हि प्रमुच्यते ॥ ३०॥ दशभुजास्तु गायत्र्याः प्रसिद्धा भुवनेषु याः । पञ्च शूल महाशूलान्येताः सङ्केतयन्ति हि ॥ ३१॥ दशभुजान्नामेतासां यो रहस्यं तु वेत्ति यं सः । त्रासं शूलमहाशूलानां ना नैवावगच्छति ॥ ३२॥ दृष्टिस्तु दोषसंयुक्ता परेषामवलम्बनम् । भयं च क्षुद्रताऽसावधानता स्वार्थयुक्तता ॥ ३३॥ अविवेकस्तथावेशस्तृष्णालस्यं तथैव च एतानि दश शूलानि शूलदानि भवन्ति हि ॥ ३४॥ निजैर्दशभुजैर्नूनं शूलान्येतानि तु दश । संहरते हि गायत्री लोककल्याणकारिणी ॥ ३५॥ कलौ युगे मनुष्याणां शरीराणीति पार्वति । पृथ्वी तत्त्व प्रधानानि जानास्येव भवन्ति हि ॥ ३६॥ सूक्ष्मतत्त्व प्रधानान्ययुगोद्भूत नृणामतः । सिद्धीनां तपसामेते न भवन्त्यधिकारिणः ॥ ३७॥ पञ्चाङ्ग योग संसिद्ध्या गायत्र्यास्तु तथापि ते । तद्युगानां सर्वश्रेष्ठां सिद्धिं सम्प्राप्नुवन्ति हि ॥ ३८॥ गायत्र्या वाममार्गीयं ज्ञेयमत्युच्चसाधकैः । उग्रं प्रचण्डमत्यन्तं वर्तते तन्त्र साधनम् ॥ ३९॥ अत एव तु तद्गुप्तं रक्षितं हि विचक्षणैः । स्याद्यतो दुरुपयोगो न कुपात्रैः कथंचन ॥ ४०॥ गुरुणैव प्रिये विद्या तत्त्वं हृदि प्रकाश्यते । गुरुं विना तु सा विद्या सर्वथा निष्फला भवेत् ॥ ४१॥ गायत्री तु पराविद्या तत्फलावाप्तये गुरुः । साधकेन विधातव्यो गायत्री-तत्त्व पण्डितः ॥ ४२॥ गायत्रीं यो विजानाति सर्वं जानाति स ननु । जानातीमां न यस्तस्य सर्वा विद्यास्तु निष्फलाः ॥ ४३॥ गायत्र्येवतपो योगः साधनं ध्यानमुच्यते । सिद्धीनां सा मता माता नातः किञ्चित् बृहत्तरम् ॥ ४४॥ गायत्री साधना लोके न कस्यापि कदापि हि । याति निष्फलतामेतत् ध्रुवं सत्यं हि भूतले ॥ ४५॥ गुप्तमुक्तं रहस्यं यत् पार्वति त्वां पतिव्रताम् । प्राप्स्यन्ति परमां सिद्धिं ज्ञास्यन्त्येतत् तु ये जनाः ॥ ४६॥ ॥ इति ॥