अक्षर आकार:

गायत्री लहरी

Gayatri Lahari

गायत्री लहरी

अमन्दानन्देनामरवरगृहे वास निरतां- नरं गायन्तं या भुवि भवभयात्त्रायत इह । सुरेशैः सम्पूज्यां मुनिगणनुतां तां सुखकरीं नमामो गायत्रीं निखिलमनुजाघौघशमनीम् ॥ १॥ अवामा संयुक्तं सकलमनुजैर्जाप्यमभितो- ह्यपायात्पायाद्भूरथ भुवि भुवः स्वः पदमिति । पदं तन्मे पादाववतु सवितुश्चैव जघने- वरेण्यं श्रोणिं मे सततमवतान्नाभिमपि च ॥ २॥ पदं भर्गो देवस्य मम हृदयं धीमहि तथा- गलम्पायान्नित्यं धिय इह पदं चैव रसनाम् । तथा नेत्रे योऽव्यादलकमवतान्नः पदमिति- शिरोदेशं पायान्मम तु परितश्चान्तिमपदम् ॥ ३॥ अये दिव्ये देवि त्रिदशनिवहैर्वन्दितपदे न शेकुस्त्वां स्तोतुं भगवति महान्तोऽपि मुनयः । कथंकारं तर्हिस्तुतिततिरियं मे शुभतरा- तथा पूर्णा भूयात् त्रुटिपरियुता भावरहिता ॥ ४॥ भजन्तं निर्व्याजं तव सुखदमन्त्रं विजयिनं जनं यावज्जीवं जपति जननि त्वं सुखयसि । न वा कामं काचित् कलुषकणिकाऽपि स्पृशति तं संसारं संसारं सरति सहसा तस्य सततम् ॥ ५॥ दधानां ह्याधानं सितकुवलयास्फालनरुचां स्वयं विभ्राजन्तीं त्रिभुवनजनाह्लादनकरीम् । अलं चालं चालं मम चकितचित्तं सुचपलं चलच्चन्द्रास्ये त्वद्वदनरुचमाचामय चिरम् ॥ ६॥ ललामे भाले ते बहुतर विशालेऽति विमले कलाचञ्चच्चान्द्री रुचिरतिलकावेन्दुकलया । नितान्तं गोमाया निविड तमसो नाश व्यसना तमो मे गाढं हि हृदयसदनस्थं ग्लपयतु ॥ ७॥ अये मातः किन्ते चरण-शरणं संश्रयवतां- जनानामन्तस्थो वृजिन हुतभुक् प्रज्वलति यः । तदस्याशु सम्यक् प्रशमनहितायैव विधृतं- करे पात्रं पुण्यं सलिलभरितं काष्ठरचितम् ॥ ८॥ अथाहोस्विन्मातः सरिदधिपतेः सारमखिलं सुधारूपं कूपं लघुतरमनूपं कलयति । स्वभक्तेभ्यो नित्यं वितरसि जनोद्धारिणि शुभे विहीने दीने मय्यपि कृपय किंचित् करुणया ॥ ९॥ सदैव त्वत्पाणौ विधृतमरविन्दं द्युतिकरं त्विदं दर्शं दर्शं रविशशिसमं नेत्रयुगलम् । विचिन्त्य स्वां वृत्तिं भ्रमविषमजालेऽस्ति पतित- मिदं मन्ये नोचेत् कथमिति भवेदर्ध-विकचम् ॥ १०॥ स्वयं मातः किंवा त्वमसि जलजानामपि खनि- र्यतस्ते सर्वाङ्गं कमलमयमेवास्ति किमु नो । तथा भीत्या तस्माच्छरणमुपयातः कमलराट् - प्रयुञ्जानोऽश्रान्तं भवति तदिहैवासनविधौ ॥ ११॥ दिवौकोभिर्वन्द्ये विकसित सरोजाक्षि सुखदे कृपादृष्टेर्वृष्टिः सुनिपतति यस्योपरि तव । तदीया वाञ्छा किं द्रुतमनु विधेयास्ति सकला अतोमन्तोस्तन्तून् मम सपदि छित्वाऽम्ब सुखय ॥ १२॥ करेऽक्षाणां माला प्रविलसति या तेऽतिविमले किमर्थं सा कान् वा गणयसि जनान् भक्ति निरतान् । जपन्ती कं मन्त्रं प्रशमयसि दुःखं जनिजुषा मये का वा वाञ्छा तव वरिवृति त्वत्र वरदे ॥ १३॥ न मन्ये धन्येऽहं त्ववितथमिदं लोकगदितं ममात्रोक्तिर्मत्वा कमलमिव फुल्लं तव करम् । विजृम्भा संयुक्त द्युतिमयमिदं कोकनदमि- त्यरं जानानेयं मधुकरततिः संविलसति ॥ १४॥ महामोहाम्भोधौ मम निपतिता जीवनतरि- र्निरालम्बा दोला चलित दुरवस्थामधिगता । जलावर्त व्यालो ग्रसितुमभितो वाञ्छति च तां करालम्बं दत्वा भगवति द्रुतं तारय शिवे ॥ १५ । दधानासित्वं यत् स्ववपुषि पयोधारि-युगल- मिति श्रुत्वा लोकैर्मम मनसि चिन्ता समभवत् । कथं स्यात् सा तस्मादलक लतिका मस्तक भुवि शिरोद्यां हृद्येयं जलदपटली खेलति किल ॥ १६॥ तथा तत्रैवोपस्थितिमपि निशीथिन्यधिपतेः प्रपश्यामि श्यामे सह सहचरैस्तारक गणैः । अहोरात्रः क्रीडा परवशमितास्तेऽपि चकिता- श्चिरं चिक्रीडन्ते तदपि महदाश्चर्य-चरितम् ॥ १७॥ यदाहुस्तं मुक्ता पटल जटितं रत्न मुकुटं न धत्ते तेषां सा वचनरचना साधुपदवीम् । निशैषा केशास्तु नहि विगत वेशा ध्रुवमिति प्रसन्नाऽध्यासन्ना विधुपरिषदेषा विलसति ॥ १८॥ त्रिबीजे हे देवि त्रि प्रणवसहिते त्र्यक्षरयुते त्रिमात्रा राजन्ते भुवनविभवे ह्योमितिपदे । त्रिकालं संसेव्ये त्रिगुणवति च त्रिस्वरमयि त्रिलोकेशैः पूज्ये त्रिभुवनभयात्त्राहि सतततम् ॥ १९॥ न चन्द्रो नैवेमे नभसि वितता तारकगणाः त्विषां राशी रम्या तव चरणयोरम्बुनिचये । पतित्वा कल्लोलैः सह परिचयाद्विस्तृतिमिता प्रभा सैवाऽनन्ता गगनमुकुरे दीव्यति सदा ॥ २०॥ त्वमेव ब्रह्माणी त्वमसि कमला त्वं नगसुता त्रिसन्ध्यं सेवन्ते चरणयुगलं ये तव जनाः । जगज्जाले तेषां निपतित जनानामिह शुभे समुद्धारार्थं किं मतिमति मतिस्ते न भवति ॥ २१॥ अनेकैः पापौघैर्लुलित वपुषं शोक सहितं लुठन्तं दीनं मां विमल पदयो रेणुषु तव । गलद्बाष्पं शश्वद् जननि सहसाश्वासनवचो ब्रुवाणोत्तिष्ठ त्वं अमृतकणिकां पास्यसि कदा ॥ २२॥ न वा मादृक् पापी नहि तव समा पापहरणी न दुर्बुद्धिर्मादृक् न च तव समा धी वितरिणी । न मादृग् गर्विष्ठो नहि तव समा गर्वहरणी हृदि स्मृत्वा ह्येवं मामयि कुरु यथेच्छा तव यथा ॥ २३॥ दरीधर्ति स्वान्तेऽक्षर वर चतुर्विंशतिमितं त्वदन्तर्मन्त्रं यत्त्वयि निहित चेतो हि मनुजः । समन्ताद् भास्वन्तं भवति भुवि सञ्जीवनवनं भवाम्भोधेः पारं व्रजति स नितान्तं सुखयुतः ॥ २४॥ भगवति लहरीयं रुद्रदेव प्रणीता तव चरण सरोजे स्थाप्यते भक्तिभावैः । कुमतितिमिरपङ्कस्याङ्कमग्नं सशङ्कं अयि खलु कुरु दत्वा वीतशङ्कं स्वमङ्कम् ॥ २५॥ ॥ इति श्री रुद्रदेव विरचित गायत्री लहरी समाप्ता ॥