अक्षर आकार:

दकारादि दुर्गासहस्रनामस्तोत्रम्

dakArAdi durgAsahasranAmastotram

दकारादि दुर्गासहस्रनामस्तोत्रम्

॥ श्रीः ॥ ॥ श्री दुर्गायै नमः ॥ ॥ श्री दुर्गा सहस्रनाम स्तोत्रम् ॥ । अथ दकारादिदुर्गासहस्रनामस्तोत्रम् । श्री देव्युवाच मम नामसहस्रञ्च शिवपूर्वविनिर्मितम् । तत्पठ्यताम् विधानेन तथा सर्वं भविश्यति ॥ इत्युक्त्वा पार्वती देवि श्रावयामास तच्चतान् । तदेव नामसाहस्रं दकारादि वरानने ॥ रोगदारिद्र्यदौर्भाग्यशोकदुःखविनाशकम् । सर्वासाम् पूजितम् नाम श्रीदुर्गा देवता मता ॥ निजबीजम् भवेत्बीजम् मन्त्रं कीलकमुच्यते । सर्वाशापूरणे देवी विनियोगः प्रकीर्तितः ॥ अथ विनियोगः । अस्य श्रीदकारादिदुर्गासहस्रनामस्तोत्रस्य श्रीशिवः सक्षात्कर्ता ऋषिः । अनुष्टुप् छन्दः । श्रीदुर्गा देवता । दुँ बीजं । दुँ कीलकं । दुःखदारिद्र्यदौर्भाग्यरोगशोकनिवृत्तिपूर्वकं । श्रीदुर्गादेवीप्रीत्यर्थं च पाठे हवने च नामपारायणे च विनियोगः । ॥ ध्यानम् ॥ दुँ दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी । दुर्गमार्गानुसञ्चारा दुर्गमार्गनिवासिनी ॥ १॥ दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी । दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ २॥ दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका । दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिः परा ॥ ३॥ दुर्गमार्गसद्दस्थाली दुर्गमार्गरतिप्रिया । दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ ४॥ दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी । दुर्गासुरनिहन्त्री च दुर्गा दुष्टनिषूदिनी ॥ ५॥ दुर्गासुरहरादूती दुर्गासुरविनाशिनी । दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ ६॥ दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता । दुर्गासुरवधप्रेप्सुर्दुर्गासुरमखान्तकृत् ॥ ७॥ दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी । दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ ८॥ दुर्गविक्षोभणकरी दुर्गशीर्षनिकृन्तनी । दुर्गविध्वंसनकरी दुर्गदैत्यनिकृन्तनी ॥ ९॥ दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी । दुर्गदैत्यहरत्राता दुर्गदैत्यासृगुन्मदा ॥ १०॥ दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता । दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ ११॥ दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी । दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ १२॥ दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी । दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ १३॥ दुर्गदेशवासरता दुर्गदेशविलासिनी । दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ १४॥ दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना । दुर्गमा दुर्गम्ध्याना दुर्गमात्मस्वरूपिणी ॥ १५॥ दुर्गमागमसन्धाना दुर्गमागमसंस्तुता । दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसंमता ॥ १६॥ दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता । दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ १७॥ दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता । दुर्गमाचारसन्तुष्टा दुर्गमाचारतोषिता ॥ १८॥ दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता । दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ १९॥ दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा । दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ॥ २०॥ दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी । दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजस्थिता ॥ २१॥ दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा । दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ २२॥ दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता । दुर्गनाडीशक्रोडस्था दुर्गनाड्यत्थितोत्सुका ॥ २३॥ दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता । दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ॥ २४॥ दरीकृततपस्या च दरीकृतहरार्चना । दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ २५॥ दरीकृतहरार्हा च दरीक्रीडितपुत्रिका । दरीसन्दर्शनरता दर्रिरोपितवृश्चिका ॥ २६॥ दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा । दनुजान्तकरी दीना दनुसन्तानदारिणी ॥ २७॥ दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी । दानध्वंसिनी देवी दानवानां भयङ्करी ॥ २८॥ दानवी दानवाराध्या दानवेन्द्रवरप्रदा । दानवेन्द्रनिहन्त्री च दानवद्वेषिणी सती ॥ २९॥ दानवारिप्रेमरता दानवारिप्रपूजिता । दानवारिकृतार्चा च दानवारिविभूतिदा ॥ ३०॥ दानवारिमहानन्दा दानवारिरतिप्रिया । दानवारिदानरता दानवारिकृतास्पदा ॥ ३१॥ दानवारिस्तुतिरता दानवारिस्मृतिप्रिया । दानवार्याहाररता दानवारिप्रबोधिनी ॥ ३२॥ दानवारिधृतप्रेमा दुःखशोकविमोचिनी । दुःखहन्त्री दुःखदात्री दुःखनिर्मूलकारिणी ॥ ३३॥ दुःखनिर्मूलनकरी दुःखदार्यारिनाशिनी । दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ॥ ३४॥ दुःखहीना दुःखधारा द्रविणाचारदायिनी । द्रविणोत्सर्गसन्तुष्टा द्रविणत्यागतोषिका ॥ ३५॥ द्रविणस्पर्शसन्तुष्टा द्रविणस्पर्शमानदा । द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ ३६॥ द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा । द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिका ॥ ३७॥ द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका । द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ ३८॥ द्रविणकर्षणकरी द्रविणौघविसर्जनी । द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ ३९॥ दीनमाता दीनबन्धुर्दीनविघ्नविनाशिनी । दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ॥ ४०॥ दीनगेहकृतानन्दा दीनगेहविलासिनी । दीनभावप्रेमरता दीनभावविनोदिनी ॥ ४१॥ दीनमानवचेतःस्था दीनमानवहर्षदा । दीनदैन्यनिघातेच्छुर्दीनद्रविणदायिनी ॥ ४२॥ दीनसाधनसन्तुष्टा दीनदर्शनदायिनी । दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी ॥ ४३॥ दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता । दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ ४४॥ दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता । दत्तात्रेयहर्षदात्री दत्तात्रेयसुखप्रदा ॥ ४५॥ दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा । दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ॥ ४६॥ दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी । दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ॥ ४७॥ दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा । दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ॥ ४८॥ दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा । दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ॥ ४९॥ दत्तात्रेयज्ञानदात्री दत्तात्रेयभयापहा । देवकन्या देवमान्या देवदुःखविनाशिनी ॥ ५०॥ देवसिद्धा देवपूज्या देवेज्या देववन्दिता । देवमान्या देवधन्या देवविघ्नविनाशिनी ॥ ५१॥ देवरम्या देवरता देवकौतुकतत्परा । देवक्रीडा देवव्रीडा देववैरिविनाशिनी ॥ ५२॥ देवकामा देवरामा देवद्विष्टविनाशिनी । देवदेवप्रिया देवी देवदानववन्दिता ॥ ५३॥ देवदेवरतामम्दा देवदेववरोत्सुका । देवदेवप्रेमरता देवदेवप्रियंवदा ॥ ५४॥ देवदेवप्राणतुल्या देवदेवनितम्बिनी । देवदेवहृतमना देवदेवसुखावहा ॥ ५५॥ देवदेवक्रोडरता देवदेवसुखप्रदा । देवदेवमहानन्दा देवदेवप्रचुम्बिता ॥ ५६॥ देवदेवोपभुक्ता च देवदेवानुसेविता । देवदेवगतप्राणा देवदेवगतात्मिका ॥ ५७॥ देवदेवहर्षदात्री देवदेवसुखप्रदा । देवदेवमहानन्दा देवदेवविलासिनी ॥ ५८॥ देवदेवधर्मपत्नी देवदेवमनोगता । देवदेववधूर्देवी देवदेवार्चनप्रिया ॥ ५९॥ देवदेवाङ्कनिलया देवदेवाङ्गशायिनी । देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ॥ ६०॥ देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा । देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ॥ ६१॥ देवदेवप्रियप्राणा देवदेवप्रियात्मिका । देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ ६२॥ देवदेवार्चकोत्साहा देवदेवार्चकाश्रया । देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ ६३॥ देवदेवस्य जननी देवदेवविधायिनी । देवदेवस्य रमणी देवदेवहृदाश्रया ॥ ६४॥ देवदेवेष्टदेवी च देवतापसपातिनी । देवताभावसन्तुष्टा देवताभावतोषिता ॥ ६५॥ देवताभाववरदा देवताभावसिद्धिदा । देवताभावसंसिद्धा देवताभावसम्भवा ॥ ६६॥ देवताभावसुखिनी देवताभाववन्दिता । देवताभावसुप्रीता देवताभावहर्षदा ॥ ६७॥ देवताविघ्नहन्त्री च देवताद्विष्टनाशिनी । देवतापूजितपदा देवताप्रेमतोषिता ॥ ६८॥ देवतागारनिलया देवतासौख्यदायिनी । देवतानिजभावा च देवताहृतमानसा ॥ ६९॥ देवताकृतपादार्चा देवताहृतभक्तिका । देवतागर्वमध्यस्था देवतादेवतातनुः ॥ ७०॥ दुं दुर्गायै नमो नाम्नी दुम्फण्मन्त्रस्वरूपिणी । दूं नमो मन्त्ररूपा च दूं नमो मूर्तिकात्मिका ॥ ७१॥ दूरदर्शिप्रिया दुष्टा दुष्तभूतनिषेविता । दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ ७२॥ दूरदर्शिसिद्धिदात्री दूरदर्शिप्रतोषिता । दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ॥ ७३॥ दूरदर्शिगृहीतार्चा दूरदर्शिप्रतर्षिता । दूरदर्शिप्राणतुल्या दूरदर्शिसुखप्रदा ॥ ७४॥ दूरदर्शिभ्रान्तिहरा दूरदर्शिहृदास्पदा । दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ ७५॥ दीर्घदर्शिप्राणतुल्या दूरदर्शिवरप्रदा । दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ ७६॥ दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया । दीर्घदर्शिगृहीतार्चा दीर्घदर्शिहृतार्हणा ॥ ७७॥ दया दानवती दात्री दयालुर्दीनवत्सला । दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७८॥ दया दानवती दात्री दयालुर्दीनवत्सला । दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७९॥ दयाम्बुधिर्दयासारा दयासागरपारगा । दयासिन्धुर्दयाभारा दयावत्करुणाकरी ॥ ८०॥ दयावद्वत्सला देवी दयादानरता सदा । दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ ८१॥ दयावत्स्नेहनिरता दयावत्प्रतिपादिका । दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ ८२॥ दयावद्भावसन्तुष्टा दयावत्परितोषिता । दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ ८३॥ दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी । दयावद्देहनिलया दयाबन्धुर्दयाश्रया ॥ ८४॥ दयालुवात्सल्यकरी दयालुसिद्धिदायिनी । दयालुशरणासक्ता दयालुर्देहमन्दिरा ॥ ८५॥ दयालुभक्तिभावस्था दयालुप्राणरूपिणी । दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ॥ ८६॥ दयालुवशगा दीर्घा दीर्घाङ्गी दीर्घलोचना । दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ ८७॥ दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा । दारुणासुरहन्त्री च दारुणासुरदारिणी ॥ ८८॥ दारुणाहवकर्त्री च दारुणाहवहर्षिता । दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ ८९॥ दारुणाचारनिरता दारुणोत्सवहर्षिता । दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ ९०॥ दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता । दशदोष्का दशभुजा दशबाहुविराजिता ॥ ९१॥ दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा । दशरथार्चितपदा दाशरथिप्रिया सदा ॥ ९२॥ दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया । दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ ९३॥ दाशरथीष्टसन्दात्री दाशरथीष्टदेवता । दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ ९४॥ दाशरथिप्रियतमा दाशरथिप्रपूजिता । दशाननारिसम्पूज्या दशाननारिदेवता ॥ ९५॥ दशाननारिप्रमदा दशाननारिजन्मभूः । दशाननारिरतिदा दशाननारिसेविता ॥ ९६॥ दशाननारिसुखदा दशाननारिवैरिहृत् । दशाननारीष्टदेवी दशग्रीवारिवन्दिता ॥ ९७॥ दशग्रीवारिजननी दशग्रीवारिभाविनी । दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ ९८॥ दशग्रीवारिरमणी दशग्रीववधूरपि । दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ ९९॥ दशग्रीवपुरस्या च दशग्रीववधोत्सुका । दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ १००॥ दशग्रीवाहवकरी दशग्रीवानपायिनी । दशग्रीवप्रिया वन्द्या दशग्रीवहृता तथा ॥ १०१॥ दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया । दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ १०२॥ दशग्रीवेश्वररता दशवर्षीयकन्यका । दशवर्षीयबाला च दशवर्षीयवासिनी ॥ १०३॥ दशपापहरा दम्या दशहस्तविभूषिता । दशशस्त्रलसद्दोष्का दशदिक्पालवन्दिता ॥ १०४॥ दशावताररूपा च दशावताररूपिणी । दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ १०५॥ दशविद्यास्वरूपा च दशविद्यामयी तथा । दृक्स्वरूपा दृक्प्रदात्री दृग्रपा दृक्प्रकाशिनी ॥ १०६॥ दिगन्तरा दिगन्तस्था दिगम्बरविलासिनी । दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ॥ १०७॥ दिगम्बरसहचरी दिगम्बरकृतास्पदा । दिगम्बरहृताचित्ता दिगम्बरकथाप्रिया ॥ १०८॥ दिगम्बरगुणरता दिगम्बरस्वरूपिणी । दिगम्बरशिरोधार्या दिगम्बरहृताश्रया ॥ १०९॥ दिगम्बरप्रेमरता दिगम्बररतातुरा । दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ॥ ११०॥ दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया । दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ॥ १११॥ दिगम्बरगणस्पर्शा मदिरापानविह्वला । दिगम्बरीकोटिवृता दिगम्बरीगणावृता ॥ ११२॥ दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा । दुरन्तदानवद्वेष्टी दुरन्तदनुजान्तकृत् ॥ ११३॥ दुरन्तपापहन्त्री च दस्रनिस्तारकारिणी । दस्रमानससंस्थाना दस्रज्ञानविवर्धिनी ॥ ११४॥ दस्रसम्भोगजननी दस्रसम्भोगदायिनी । दस्रसम्भोगभवना दस्रविद्याविधायिनी ॥ ११५॥ दस्रोद्वेगहरा दस्रजननी दस्रसुन्दरी । दस्रभक्तिविधाज्ञाना दस्रद्विष्टविनाशिनी ॥ ११६॥ दस्रापकारदमनी दस्रसिद्धिविधायिनी । दस्रताराराधिका च दस्रमातृप्रपूजिता ॥ ११७॥ दस्रदैन्यहरा चैव दस्रतातनिषेविता । दस्रपितृशयज्योतिर्दस्रकौशलदायिनी ॥ ११८॥ दशशीर्षारिसहिता दशशीर्षारिकामिनी । दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ ११९॥ दशशीर्षारिसुप्रीता दशशीर्षवधूप्रिया । दशशीर्षशिरश्छेत्री दशशीर्षनितम्बिनी ॥ १२०॥ दशशीर्षहरप्राणा दशशीर्षहरात्मिका । दशशीर्षहराराध्या दशशीर्षारिवन्दिता ॥ १२१॥ दशशीर्षारिसुखदा दशशीर्षकपालिनी । दशशीर्षज्ञानदात्री दशशीर्षारिदेहिनी ॥ १२२॥ दशशीर्षवधोपात्तश्रीरामचन्द्ररूपता । दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ १२३॥ दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया । दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ १२४॥ दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता । दैत्यगुरुपदेष्टी च दैत्यगुरुनिषेविता ॥ १२५॥ दैत्यगुरुमतप्राणा दैत्यगुर्त्तापनाशिनी । दुरन्तदुःखशमनी दुरन्तदमनी तमी ॥ १२६॥ दुरन्तशोकशमनी दुरन्तरोगनाशिनी । दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ॥ १२७॥ दुरन्तकलुषघ्नी च दुष्कृतिस्तोमनाशिनी । दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ १२८॥ दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगोचरा । दूतीयागप्रिया दूती दूतीयागकरप्रिया ॥ १२९॥ दूतीयागकरानन्दा दूतीयागसुखप्रदा । दूतीयागकरायाता दूतीयागप्रमोदिनी ॥ १३०॥ दुर्वासःपूजिता चैव दुर्वासोमुनिभाविता । दुर्वासोऽर्चितपादा च दुर्वासोमौनभाविता ॥ १३१॥ दुर्वासोमुनिवन्द्या च दुर्वासोमुनिदेवता । दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिजा ॥ १३२॥ दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता । दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमण्डिता ॥ १३३॥ दुर्वासोमुनिसञ्चारा दुर्वासोहृदयङ्गमा । दुर्वासोहृदयाराध्या दुर्वासोहृत्सरोजगा ॥ १३४॥ दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया । दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ १३५॥ दुर्वासोमुनिकन्या च दुर्वासोऽद्भुतसिद्धिदा । दररात्री दरहरा दरयुक्ता दरापहा ॥ १३६॥ दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया । दरस्मेरा दरापाङ्गी दयादात्री दयाश्रया । दस्रपूज्या दस्रमाता दस्रदेवी दरोन्मदा ॥ १३७॥ दस्रसिद्धा दस्रसंस्था दस्रतापविमोचिनी । दस्रक्षोभहरा नित्या दस्रलोकगतात्मिका ॥ १३८॥ दैत्यगुर्वङ्गनावन्द्यां दैत्यगुर्वङ्गनाप्रिया । दैत्यगुर्वङ्गनासिद्धा दैत्यगुर्वङ्गनोत्सुका ॥ १३९॥ दैत्यगुरुप्रियतमा देवगुरुनिषेविता । देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ॥ १४०॥ देवगुरुप्रेमयुता देवगुर्वनुमानिता । देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ॥ १४१॥ देवगुरुज्ञानदात्री देवगुरुप्रमोदिनी । दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ॥ १४२॥ दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी । दैत्यस्त्रीगणपूज्या च दैत्यस्त्रीगणवन्दिता ॥ १४३॥ दैत्यस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता । देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ॥ १४४॥ देवस्त्रीगणहस्तस्थचारुचामरवीजिता । देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ॥ १४५॥ देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा । देवाङ्गनोत्सृष्टनागवल्लीदलकृतोत्सुका ॥ १४६॥ देवस्त्रीगणहस्तस्थदीपमालाविलोकना । देवस्त्रीगणहस्तस्थधूपघ्राणविनोदिनी ॥ १४७॥ देवनारीकरगतवासकासवपायिनी । देवनारीकङ्कतिकाकृतकेशनिमार्जना ॥ १४८॥ देवनारीसेव्यगात्रा देवनारीकृतोत्सुका । देवनारीविरचितपुष्पमालाविराजिता ॥ १४९॥ देवनारीविचित्राङ्गी देवस्त्रीदत्तभोजना । देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ॥ १५०॥ देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी । देवस्त्रीयोजितलसद्रत्नपादपदाम्बुजा ॥ १५१॥ देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी । देवनारीचारुकराकलिताङ्घ्र्यादिदेहिका ॥ १५२॥ देवनारीकरव्यग्रतालवृन्दमरुत्सुका । देवनारीवेणुवीणानादसोत्कण्डमानसा ॥ १५३॥ देवकोटिस्तुतिनुता देवकोटिकृतार्हणा । देवकोटिगीतगुणा देवकोटिकृतस्तुतिः ॥ १५४॥ दन्तदष्ट्योद्वेगफला देवकोलाहलाकुला । द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ॥ १५५॥ दामपूज्या दामभूषा दामोदरविलासिनी । दामोदरप्रेमरता दामोदरभगिन्यपि ॥ १५६॥ दामोदरप्रसूर्दामोदरपत्नीपतिव्रता । दामोदराऽभिन्नदेहा दामोदररतिप्रिया ॥ १५७॥ दामोदराभिन्नतनुर्दामोदरकृतास्पदा । दामोदरकृतप्राणा दामोदरगतात्मिका ॥ १५८॥ दामोदरकौतुकाढ्या दामोदरकलाकला । दामोदरालिङ्गिताङ्गी दामोदरकुतूहला ॥ १५९॥ दामोदरकृताह्लादा दामोदरसुचुम्बिता । दामोदरसुताकृष्टा दामोदरसुखप्रदा ॥ १६०॥ दामोदरसहाढ्या च दामोदरसहायिनी । दामोदरगुणज्ञा च दामोदरवरप्रदा ॥ १६१॥ दामोदरानुकूला च दामोदरनितम्बिनी । दामोदरबलक्रीडाकुशला दर्शनप्रिया ॥ १६२॥ दामोदरजलक्रीडात्यक्तस्वजनसौहृदा । दामोदरलसद्रासकेलिकौतुकिनी तथा ॥ १६३॥ दामोदरभ्रातृका च दामोदरपरायणा । दामोदरधरा दामोदरवैरविनाशिनी ॥ १६४॥ दामोदरोपजाया च दामोदरनिमन्त्रिता । दामोदरपराभूता दामोदरपराजिता ॥ १६५॥ दामोदरसमाक्रान्ता दामोदरहताशुभा । दामोदरोत्सवरता दामोदरोत्सवावहा ॥ १६६॥ दामोदरस्तन्यदात्री दामोदरगवेषिता । दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता ॥ १६७॥ दमयन्तीष्टदेवी च दमयन्तीस्वरूपिणी । दमयन्तीकृतार्चा च दमनर्षिविभाविता ॥ १६८॥ दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी । दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ॥ १६९॥ दम्भहन्त्री दम्भधात्री दम्भलोकविमोहिनी । दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ॥ १७०॥ दम्भरूपा दम्भकरी दम्भसन्तानदारिणी । दत्तमोक्षा दत्तधना दत्तारोग्या च दाम्भिका ॥ १७१॥ दत्तपुत्रा दत्तदारा दत्तहारा च दारिका । दत्तभौगा दत्तशोका दत्तहस्त्यादिवाहना ॥ १७२॥ दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका । दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ॥ १७३॥ दत्तसोधावनीवासा दत्तस्वर्गा च दासदा । दास्यतुष्टा दास्यहरा दासदासीशतप्रभा ॥ १७४॥ दाररूपा दारवासा दारवासिहृदास्पदा । दारवासिजनाराध्या दारवासिजनप्रिया ॥ १७५॥ दारवासिविनिर्नीता दारवासिसमर्चिता । दारवास्याहृतप्राणा दारवास्यरिनाशिनी ॥ १७६॥ दारवासिविघ्नहरा दारवासिविमुक्तिदा । दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ॥ १७७॥ दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका । दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ॥ १७८॥ दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी । दम्पत्यचारनिरता दम्पत्यामोदमोदिता ॥ १७९॥ दम्पत्यामोदसुखिनी दाम्पत्याह्लादकारिणी । दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ॥ १८०॥ दाम्पत्यभोगभवना दाडिमीफलभोजिनी । दाडिमीफलसन्तुष्टा दाडिमीफलमानसा ॥ १८१॥ दाडिमीवृह्यसंस्थाना दाडिमीवृक्षवासिनी । दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ॥ १८२॥ दाडिमीफलसाम्योरुपयोधरसमन्विता । दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ॥ १८३॥ दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः । दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ॥ १८४॥ दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी । दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ॥ १८५॥ दक्षात्मजा दक्षसूनुर्दक्षजा दक्षजातिका । दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ॥ १८६॥ दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका । दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ॥ १८७॥ दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता । दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ॥ १८८॥ दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवन्दिता । दक्षिणाचारशरणा दक्षिणाचारहर्षिता ॥ १८९॥ द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता । द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ॥ १९०॥ द्वारकरी द्वारधात्री दोषमात्रविवर्जिता । दोषाकरा दोषहरा दोषराशिविनाशिनी ॥ १९१॥ दोषाकरविभूषाढ्या दोषाकरकपालिनी । दोषाकरसहस्राभा दोषाकरसमानना ॥ १९२॥ दोषाकरमुखी दिव्या दोषाकरकराग्रजा । दोषाकरसमज्योतिर्दोषाकरसुशीतला ॥ १९३॥ दोषाकरश्रेणी दोषसदृशापाङ्गवीक्षणा । दोषाकरेष्टदेवी च दोषाकरनिषेविता ॥ १९४॥ दोषाकरप्राणरूपा दोषाकरमरीचिका । दोषाकरोल्लसद्भाला दोषाकरसुहर्षिणी ॥ १९५॥ दोषाकरशिरोभूषा दोषाकरवधूप्रिया । दोषाकरवधूप्राणा दोषाकरवधूमता ॥ १९६॥ दोषाकरवधूप्रीता दोषाकरवधूरपि । दोषापूज्या तथा दोषापूजिता दोषहारिणी ॥ १९७॥ दोषाजापमहानन्दा दोषाजापपरायणा । दोषापुरश्चाररता दोषापूजकपुत्रिणी ॥ १९८॥ दोषापूजकवात्सल्यकारिणी जगदम्बिका । दोषापूजकवैरघ्नी दोषापूजकविघ्नहृत् ॥ १९९॥ दोषापूजकसन्तुष्टा दोषापूजकमुक्तिदा । दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ॥ २००॥ दुर्योधनप्रपूज्या च दुःशासनसमर्चिता । दण्डपाणिप्रियादण्डपाणिमाता दयानिधिः ॥ २०१॥ दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता । दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ॥ २०२॥ दण्डपाणिप्रियतमा दण्डपाणिमनोहरा । दण्डपाणिहृतप्राणा दण्डपाणिसुसिद्धिदा ॥ २०३॥ दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता । दण्डपाणिविघ्नहरा दण्डपाणिशिरोधृता ॥ २०४॥ दण्डपाणिप्राप्तचर्चा दण्डपाण्युन्मुखी सदा । दण्डपाणिप्राप्तपदा दण्डपाणिवरोन्मुखी ॥ २०५॥ दण्डहस्ता दण्डपाणिर्दण्डबाहुर्दरान्तकृत् । दण्डदोष्का दण्डकरा दण्डचित्तकृतास्पदा ॥ २०६॥ दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी । दण्डिप्रिया दण्डिपूज्या दण्डिसन्तोषदायिनी ॥ २०७॥ दस्युपूजा दस्युरता दस्युद्रविणदायिनी । दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ॥ २०८॥ दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा । दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ॥ २०९॥ दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा । दुष्टवर्गनिग्रहार्हा दूषकप्राणनाशिनी ॥ २१०॥ दूषकोत्तापजननी दूषकारिष्टकारिणी । दूषकद्वेषणकरी दाहिका दहनात्मिका ॥ २११॥ दारुकारिनिहन्त्री च दारुकेश्वरपूजिता । दारुकेश्वरमाता च दारुकेश्वरवन्दिता ॥ २१२॥ दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता । दर्भमयी दर्भतनुर् दर्भसर्वस्वरूपिणी ॥ २१३॥ दर्भकर्माचारुरता दर्भहस्तकृतार्हणा । दर्भानुकूला दम्भर्या दर्वीपात्रानुदामिनी ॥ २१४॥ दमघोषप्रपूज्या च दमघोषवरप्रदा । दमघोषसमाराध्या दावाग्निरूपिणी तथा ॥ २१५॥ दावाग्निरूपा दावाग्निनिर्णाशितमहाबला । दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ॥ २१६॥ दन्तदंष्ट्रस्यन्दना च दन्तनिर्णाशितासुरा । दधिपूज्य दधिप्रीता दधीचिवरदायिनी ॥ २१७॥ दधीचीष्टदेवता च दधीचिमोक्षदायिनी । दधीचिदैन्यहन्त्री च दधीचिदरदारिणी ॥ २१८॥ दधीचिभक्तिसुखिनी दधीचिमुनिसेविता । दधीचिज्ञानदात्री च दधीचिगुणदायिनी ॥ २१९॥ दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा । दधीचिकुलदेवी च दधीचिकुलदेवता ॥ २२०॥ दधीचिकुलगम्या च दधीचिकुलपूजिता । दधीचिसुखदात्री च दधीचिदैन्यहारिणी ॥ २२१॥ दधीचिदुःखहन्त्री च दधीचिकुलसुन्दरी । दधीचिकुलसम्बूता दधीचिकुलपालिनी ॥ २२२॥ दधीचिदानगम्या च दधीचिदानमानिनी । दधीचिदानसन्तुष्टा दधीचिदानदेवता ॥ २२३॥ दधीचिजयसम्प्रीता दधीचिजपमानसा । दधीचिजपपूजाढ्या दधीचिजपमालिन्का ॥ २२४॥ दधीचिजपसन्तुष्टा दधीचिजपतोषिणी । दधीचितपसाराध्या दधीचिशुभदायिनी ॥ २२५॥ दूर्वा दूर्वादलश्यामा दूर्वादलसमद्युतिः । नाम्नां सहस्रं दुर्गाया दादीनामिति कीर्तितम् ॥ २२६॥ यः पठेत् साधकाधीशः सर्वसिद्धिर्लभेत्तु सः । प्रातर्मध्याह्नकाले च सन्ध्यायां नियतः शुचिः ॥ २२७॥ तथाऽर्धरात्रसमये स महेश इवापरः । शक्तियुक्तो महारात्रौ महावीरः प्रपूजयेत् ॥ २२८॥ महादेवीं मकाराद्यैः पञ्चभिर्द्रव्यसत्तमैः । यः सम्पठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ॥ २२९॥ देवालये श्मशाने च गङ्गातीरे निजे गृहे । वाराङ्गनागृहे चैव श्रीगुरोः सन्निधावपि ॥ २३०॥ पर्वते प्रान्तरे घोरे स्तोत्रमेतत् सदा पठेत् । दुर्गानामसहस्रं हि दुर्गां पश्यति चक्षुषा ॥ २३१॥ शतावर्तनमेतस्य पुरश्चरणमुच्यते । स्तुतिसारो निगदितः किं भूयः श्रोतुमिच्छसि ॥ २३२॥ ॥ इति कुलार्णवतन्त्रोक्तं दकारादिदुर्गासहस्रनामस्तोत्रं समाप्तम् ॥