अक्षर आकार:

श्रीदुर्गासुमुखीकरणस्तुतिः

Shri Durga Sumukhikarana Stutih

श्रीदुर्गासुमुखीकरणस्तुतिः

श्रीशिव उवाच - अथ ते शूलिनीदेव्याः सुमुखीकरणस्तुतिम् । प्रवक्ष्यामि समासेन सर्वकामार्थसिद्धये ॥ १॥ ऋषिर्न्यासः षडङ्गं च मूलवद् ध्यानमुच्यते ॥ २॥ ध्यायेत्) हेमसमोपलासनवरे कन्याजनालङ्कृते var अग्ने हेमसमुज्ज्वलासनवरे इति सङ्गतःपाठः भाति । पञ्चब्रह्ममुखामरैः मुनिवरैः सेव्ये जगन्मङ्गले । आसीनां स्मितभाषिणीं शिवसखीं कल्याणवेषोज्ज्वलां भक्ताभीष्टवरप्रदाननिरतां विश्वात्मिकां शूलिनीम् ॥ ३॥ ओङ्कारमन्त्रपीठस्थे ओषधीशामृतोज्ज्वले । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४॥ श्रीपूर्णे श्रीपरे श्रीशे श्रीमये श्रीविवर्धने । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ५॥ कामेशि कामरसिके कामितार्थफलप्रदे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ६॥ मायाविलासचतुरे माये मायाधिनायिके । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ७॥ चिन्तामणेऽखिलाभीष्टसिद्धिदे विश्वमङ्गले । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ८॥ सर्वबीजाधिपे सर्वसिद्धिदे सिद्धरूपिणि । सर्वरूपिणि ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ९॥ ज्वलत्तेजस्त्रयानन्तकोटिकोटिसमद्युते । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १०॥ लसच्चन्द्रार्धमकुटे लयजन्मविमोचके । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ११॥ ज्वररोगमुखापत्तिभञ्जनैकधुरन्धरे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १२॥ लक्षलक्ष्ये लयातीते लक्ष्मीवर्गवरेक्षणे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १३॥ शूराङ्गनानन्तकोटिव्यापृताशेषजालके । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १४॥ लिपे लिङ्गादिदिक्स्थाननियताराधनप्रिये । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १५॥ निर्मले निर्गुणे नित्ये, निष्कले निरुपद्रवे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १६॥ दुर्गे दुरितसंहारे दुष्दद्रुल (तूलान्त) पावके । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १७॥ रमामये अ (उ) (र) मासेव्ये रमावर्घनतत्परे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १८॥ ग्रसिताशेषभुवन (ने) ग्रन्थिसन्ध्यर्णशोभिते । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ १९॥ हंसतार्क्ष्यवृषारूढैराराधितपदद्वये । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २०॥ हुङ्कारकालदहनभस्मीकृतजगत्त्रये । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २१॥ फठ्कारचण्डपवनोद्वासिताखिलविग्रहे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २२॥ स्वीकृतस्वामिपादाब्जभक्तानां स्वाभिवृद्धिदे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २३॥ हालाहलविषाकारे हाटकारुणपीठिके । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २४॥ मूलादिब्रह्मरन्ध्रान्तज्वल(मूल) ज्ज्वालास्वरूपिणि । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २५॥ वषडादिक्रियाषट्कमहासिद्धिप्रदे परे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २६॥ सर्वविद्वन्मुखाम्भोजदिवाकरसमद्युते । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २७॥ नानामहीपहृदयनवनीतद्रवानले । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २८॥ अशेषज्वरसर्पाग्निचन्द्रोपलशशिद्युते । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ २९॥ महापापौघकलुषक्षालनामृतवाहिनि । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३०॥ अशेषकायसम्भूतरोगतूलानलाकृते । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३१॥ ओषधीकूटदावाग्निशान्तिसम्पूर्णंवर्षिणि । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३२॥ तिमिरारातिसंहारदिवानाथशताकृते । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३३॥ सुधार्द्रजिह्वावर्त्यग्रसुदीपे विश्ववाक्प्रदे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३४॥ अरात्यवनिपानीक कुलोच्चाटमहानिले । var तूलोच्चाटमहानिले ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३५॥ समस्तमृत्युतुहिनसहस्रकिरणोपमे । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३६॥ सुभक्तहृदयानन्दसुखसंवित्स्वरूपिणि । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३७॥ जगत्सौभाग्यबलदे जङ्गमस्थावरात्मिके । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३८॥ धनधान्याब्धिसंवृद्धिचन्द्रकोटिसमोदये । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ३९॥ सर्वजीवात्मधेन्बग्रसमर्च्यानल(समुच्चालन) वत्सके । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४०॥ तेजःकणमहावीरसमावीतान्त्यपावके । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४१॥ नानाचराचरविषदाहोपशमनामृते । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४२॥ सर्वकल्याणकल्याणे सर्वसिद्धिविवर्धने । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४३॥ सर्वेशि सर्वहृदये सर्वाकारेऽनिराकृते? ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४४॥ अनन्तानन्दजनके अमृतेऽमृतनायिके । (आत्मनायिके) ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४५॥ रहस्यातिरहस्यात्मरहस्यागमपाल(लि) के । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४६॥ आचारकरणातीते आचार्यकरुणामये । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४७॥ सर्वरक्षाकरे भद्रे सर्वशिक्षाकरेऽतुले । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४८॥ सर्वलोके सर्वदेशे सर्वकाले सदाम्बिके । ऐश्वर्यमायुरारोग्यं इष्टसिद्धिं च देहि मे ॥ ४९॥ आद्येऽनादिकलाविशेषविवृतेऽनन्ताखिलात्माकृते आचार्याङ्घ्रिसरोजयुग्मशिरसामापूरिताशामृते । संसारार्णवतारणोद्यतकृपासम्पूर्णदृष्ट्याऽनिशं दुर्गे शूलिनि शङ्करि स्नपय मां त्वद्भावसंसिद्धये ॥ ५०॥ इति परमशिवायाः शूलिनीदेवतायाः स्तुतिमतिशयसौख्यप्राप्तये योऽनुवारम् । स्मरति जपति विद्वान् संवृतोऽशेषलोकैः निखिलसुखमवाप्य श्रीशिवाकारमेति ॥ ५१॥ इति श्रीमहाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शङ्करेण विरचिते दुर्गासुमुखीकरणस्तुतिर्नाम सप्तमोपदेशः ॥