अक्षर आकार:

श्रीदुर्गास्तोत्रम् रुद्रयामलान्तर्गतम्

shrIdurgAstotram from Rudrayamala

श्रीदुर्गास्तोत्रम् रुद्रयामलान्तर्गतम्

अथ दुर्गास्तोत्रम् । श्रीभैरव उवाच अधुना देवि वक्ष्यामि दुर्गास्तोत्रं मनोहरम् । मूलमन्त्रमयं दिव्यं सर्वसारस्वतप्रदम् ॥ १॥ दुर्गार्तिशमनं पुण्यं साधकानां जयप्रदम् । दुर्गाया अङ्गभूतं तु स्तोत्रराजं परात्परम् ॥ २॥ श्रीदुर्गास्तोत्रराजस्य ऋषिर्देवो महेश्वरः । छन्दोऽनुष्टुप् देवतापि श्रीदुर्गाष्टाक्षरा शिवे ॥ ३॥ दुं बीजञ्च परा शक्तिः नमः कीलकमीश्वरि । धर्मार्थकाममोक्षार्थे श्रीदुर्गास्तोत्रपाठे विनियोगः ॥ ४॥ अथ ध्यानम् दूर्वानिभां त्रिनयनां विलसत्किरीटां शङ्खाब्जखड्गशरखेटकशूलचापाम् । सन्तर्जनीं च दधतीं महिषासनस्थां दुर्गान्तवारकुलपीठगतां भजेऽहम् ॥ १॥ तारं हारं मन्त्रमाला सुबीजं ध्यायेदन्तर्यो बलं बालकान्तः । तस्य स्मारं स्मारमङ्घ्रिद्वयं च रम्यायाति स्वर्गता कामवश्या ॥ २॥ मायां जपेद्यस्तव मन्त्रमध्ये दुर्गे सदा दुर्गतिखेदखिन्नः । भवेच्च भूमौ नृपमालिमालामाणिक्यनिर्धृष्टपदारविन्दः ॥ ३॥ चाक्रियं यदि जपेत्तवाऽङ्घ्रिके चक्रमध्यगत ईश्वरीश्वरि । साधको भवति चक्रवर्तिनां नायको मम विलासकोविदः ॥ ४॥ चक्रिबीजमपरं स्मरेच्छिवे योऽरिवर्गविहितादतव्ययः । आनिमेऽलगते जपेद्रिपून् वाजिवारणरथाश्रितो नरः ॥ ५॥ दुर्गाबीजं यो जपेत् प्रेतभूमौ सायं माया भस्मनाऽऽलिप्तकायः । त्रिर्वारणानां नायको देवि । मन्त्री भुक्त्वा राज्यं प्राज्यमाज्यं करोति ॥ ६॥ वायव्यबीजं यदि साधको जपेत् प्रियाकुचद्वन्द्वविमर्दनक्षमः । समस्तकान्ताजननेत्रवागुरो विलासहंसो भविता स पार्वति ॥ ७॥ विश्वे विश्वेश्वरि यदि जपेत् कामवेलाकलार्तौ रात्रौ मात्राक्षरविलसितं मास ईशानि नाम । तस्य स्मेराननसरसिजा भ्राजमानाङ्गलक्ष्मी वश्यावश्यं सूरपूरवघूमौलि माला वशामा ॥ ८॥ भूगेहाश्चित वह्निवृत्तविलसन्नागारवृत्तार्चित- व्यग्रारोल्ल सिताग्निकोण विलसच्छ्री बिन्दु पीठस्थिताम् । ध्यायेच्चेतसि शर्वपत्नि भवतीं माध्वीरसाधृर्णितां यो मन्त्री स भविष्यति स्मरसमः स्त्रीणां धरण्यां दिवि ॥ ९॥ दुर्गास्तवं मनुमयं मनुराजमौलि- र्माणिक्यमुत्तमशिवाङ्गरहस्यभूतम् । प्रातः पठेद्यदि जपावसरेऽर्यमायां भूमौ भवेत् स नृपतिर्दिवि देवनाथः ॥ १०॥ इदं स्तोत्रं महापुण्यं पञ्चाङ्गैकशिरोमणिम् । यः पठेदर्धरात्रे तु तस्य वश्यं जगत्त्रयम् ॥ ११॥ इदं पञ्चाङ्गमखिलं श्रीदुर्गाया रहस्यकम् । सर्वसिद्धिप्रदं गुह्यं सर्वदा परिपूरकम् ॥ १२॥ सर्वाशा गुह्यं मन्त्ररहस्यं तु तव भक्त्या प्रकाशितम् । अभक्ताय न दातव्यमित्याज्ञा पारमेश्वरी ॥ १३॥ श्रीदेव्युवाच भगवन् भवता तेन कथनेन महेश्वर । श्रीपञ्चाङ्गस्य दुर्गाया अथ प्रीतास्म्यहं परम् ॥ १४॥ श्रीभैरव उवाच इदं रहस्यं परमं दुर्गासर्वस्वमुत्तमम् । पञ्चाङ्गं वर्णितं गोप्यं गोपनीयं स्वयोनिवत् ॥ १५॥ इति श्रीरुद्रयामलेतन्त्रे देवीरहस्ये दुर्गास्तोत्रं सम्पूर्णम् ॥