अक्षर आकार:

दुर्गास्तोत्रम्

Durga Stotram

दुर्गास्तोत्रम्

श्रीगणेशाय नमः । श्रीदुर्गायै नमः । नारायण उवाच । पुरा स्तुता सा गोलोके कृष्णेन परमात्मना । सम्पूज्य मधुमासे च संप्रीते रासमण्डले ॥ १॥ मधुकैटभयोर्युद्धे द्वितीये विष्णुना पुरा । तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसङ्कटे ॥ २॥ चतुर्थे संस्तुता देवी भक्त्या च त्रिपुरारिणा । पुरा त्रिपुरयुद्धे च महाघोरतरे मुने ॥ ३॥ पञ्चमे संस्तुता देवी वृत्रासुरवधे तथा । शक्रेण सर्वदेवैश्च घोरे च प्राणसङ्कटे ॥ ४॥ तदा मुनीन्द्रैर्मनुभिर्मानवैः सुरथादिभिः । संस्तुता पूजिता सा च कल्पे कल्पे परात्परा ॥ ५॥ स्तोत्रञ्च श्रूयतां ब्रह्मन्सर्वविघ्नविनाशकम् । सुखदं मोक्षदं सारं भवसन्तारकारणम् ॥ ६॥ श्रीकृष्ण उवाच । त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी । त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥ ७॥ कार्य्यार्थे सगुणा त्वञ्च वस्तुतो निर्गुणा स्वयम् । परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥ ८॥ तेजस्स्वरूपा परमा भक्तानुग्रविग्रहा । सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥ ९॥ सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया । सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥ १०॥ सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी । सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥ ११॥ त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् । दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ॥ १२॥ निद्रा त्वं च दया त्वं च तृष्णा त्वं चात्मनः प्रिया । क्षुत्क्षान्तिः शान्तिरीशा च कान्तिः सृष्टिश्च शाश्वती ॥ १३॥ श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा । सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह ॥ १४॥ प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा । शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम् ॥ १५॥ देवेभ्यः स्वपदोदात्री धातुर्धात्री कृपामयी । हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥ १६॥ योगिनिद्रा योगरूपा योगदात्री च योगिनाम् । सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी ॥ १७॥ ब्रह्माणी माहेश्वरी च विष्णुमाया च वैष्णवी । भद्रदा भद्रकाली च सर्वलोकभयङ्करी ॥ १८॥ ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे । सतां कीर्त्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा ॥ १९॥ महायुद्धे महामारी दुष्टसंहाररूपिणी । रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥ २०॥ वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा । ब्राह्मण्यरूपा (ब्रह्मण्यरूपा) विप्राणां तपस्या च तपस्विनाम् ॥ २१॥ विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् । मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥ २२॥ राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी । सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥ २३॥ तथाऽन्ते त्वं महामारी विश्वे विश्वैश्च पूजिते । (विश्वस्य विश्वपूजिते) कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ॥ २४॥ दुरत्यया मे माया त्वं यया सम्मोहितं जगत् । यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति ॥ २५॥ इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् । पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्छिता ॥ २६॥ वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा । श्रुत्वा स्तोत्रं वर्षमेकं सुपुत्रं लभते धुवम् ॥ २७॥ कारागारे महाघोरे यो बद्धो दृढबन्धने । श्रुत्वा स्तोत्रं मासमेकं बन्धनान्मुच्यते धुवम् ॥ २८॥ यक्ष्मग्रस्तो गलत्कुष्ठी महाशूली महाज्वरी । श्रुत्वा स्तोत्रं वर्षमेकं सद्यो रोगात्प्रमुच्यते ॥ २९॥ पुत्रभेदे प्रजाभेदे पत्नीभेदे च दुर्गतः । श्रुत्वा स्तोत्रं मासमेकं लभते नात्र संशयः ॥ ३०॥ राजद्वारे श्मशाने च महारण्ये रणस्थले । हिंस्रजन्तुसमीपे च श्रुत्वा स्तोत्रं प्रमुच्यते ॥ ३१॥ गृहदाहे च दावाग्नौ दस्युसैन्यसमन्विते । स्तोत्रश्रवणमात्रेण लभते नात्र संशयः ॥ ३२॥ महादरिद्रो मूर्खश्च वर्षं स्तोत्रं पठेत्तु यः । विद्यावान्धनवांश्चैव स भवेन्नात्र संशयः ॥ ३३॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने दुर्गास्तोत्रं नाम षट्षष्टितमोऽध्यायः ॥