अक्षर आकार:

श्रीअरविन्दकृतं दुर्गास्तोत्रम्

Durga Stotram Hymn to Durga by Sri Aurobindo

श्रीअरविन्दकृतं दुर्गास्तोत्रम्

ॐ मातर्दुर्गे! सिंहवाहिनि सर्वशक्तिप्रदायिनि मातः शिवप्रिये तव शक्त्यंशजा वयं भारतवर्षस्य युवानः त्वन्मन्दिरे समासीनाः त्वां प्रार्थयामहे ॥ श‍ृणु मातः आविर्भव भारते वर्षे प्रकाशमाना भव । मातर्दुर्गे! युगे युगे मानवीं तनुं धृत्वा जन्मनि जन्मनि तवैव कर्म कृत्वा च त्वदानन्दधाम प्रतियाम। एतर्ह्यपि जन्मजुषो वयं त्वदेककार्यव्रतिन एव श‍ृणु मातः आविर्भव भारते अस्मत्सहाया भव ॥ मातर्दुर्गे! सिंहवाहिनि त्रिशूलधारिणि वर्मावृतसुन्दरशरीरे मातः जयदायिनि त्वत्प्रतीक्षापरं ह्यद्य भारतं तामेव ते मङ्गलमयीं मूर्तिं वीक्षितुं समुत्सुकम् । श‍ृणु मातः प्रादुर्भव भारते वर्षे प्रकाशस्व ॥ मातर्दुर्गे! बलदायिनि प्रेमदायिनि ज्ञानदायिनि शक्तिस्वरूपे भीमे सौम्य-रौद्र-रूपे जीवन-सङ्घर्षे भारत-सङ्ग्रामे च त्वत्प्रेरिता योद्धारो वयम् । देहि मातः प्राणमनसोरसुरस्य शक्तिं असुरस्योद्यमं देहि मातः बुद्धिचित्तयोर्देवस्य चरित्रं देवस्य ज्ञानम् ॥ मातर्दुर्गे! जगदग्रगण्या भारतजातिर्ननु समाच्छन्नासीन्निबिडतमसा । त्वं मातः उत्तरोत्तरं समुदीयसे व्योमप्रान्ते त्वद्दिव्यविग्रहस्य तिमिरविजयिना ज्योतिषा सञ्जात उषसः प्रकाशः प्रवितनुस्वालोकं मातः प्रविधुनु तिमिरम् ॥ मातर्दुर्गे! श्यामला सर्वसौन्दर्यसमलङ्कृता ज्ञान-प्रेम-शक्तीनां प्रतिष्ठा पुण्यभूमिर्ननु ते विभूतिः एतावत्कालं शक्तिसंहरणार्थं आत्मसंवरणमकार्षीत् । अध्यागतं तद्युगं आगतं तद्दिनं यदा सकलभुवनस्य भारं स्कन्धे वहन्ती समुत्तिष्ठति भारतमाता। एहि मातः प्रकाशस्व ॥ मातर्दुर्गे! तव सन्ततिर्वयं त्वत्प्रसादात् त्वत्प्रभावात् बृहतोवदानस्य महनीयभावस्य समुपयुक्ता स्याम । हे मातः क्षोदय क्षुद्रतां समुत्सारय स्वार्थं भञ्जय भयम् ॥ मातर्दुर्गे! कालीरूपिणि नृमुण्डमालिनि दिगम्बरे कृपाणपाणि देवि असुरविनाशिनि दारुणनिनादेन निषूदय रिपुदलमन्तरस्थं येन नैकोऽपि रिपुरस्मदन्तरे जीवितस्तिष्ठेत् येन च वयं विमला निर्मलाश्च स्याम इयमेव प्रार्थना मातः प्रकाशमाना भव ॥ मातर्दुर्गे! स्वार्थेन भयेन क्षुद्राशयत्वेन म्रियमाणं खलु भारतम् । हे मातः विधेहि नो महतः महाप्रयासकृतः उदारचेतसः सत्यसङ्कल्पजुष येन नातःपरं स्याम स्वल्पाशंसिनः निश्चेष्टा अलसाः सन्त्रस्ताः वा ॥ मातर्दुर्गे! विस्तारय योगशक्तिम् । त्वत्प्रिया हि वयमार्यसन्ततयः अस्मात् सुसमुद्भावय लुप्तां शिक्षां मेधाशक्तिं च श्रद्धां भक्तिं तपस्यां च लुप्तं चरित्रं ब्रह्मचर्यं सत्यज्ञानं च अस्मदन्तः समुद्भाव्य च भुवनाय च वितर। मानवसह्ये दुर्गतिनाशिनि जगदम्बे प्रकाशस्व ॥ मातर्दुर्गे! अन्तःस्थानां रिपूणां संहारं विधाय समुन्मूलय बाह्यविघ्नबाधाः । बलपराक्रमोपेता समुन्नतचेता आर्यजातिर्भारतस्य पवित्रकाननेषु समुर्वरक्षेत्रेषु व्योमचुम्बिपर्वतप्रदेशेषु पूतसलिलसरितां तीरेषु किलैकत्वे प्रेम्णि च सत्ये शक्तौ च शिल्पे साहित्ये च विक्रमे ज्ञाने च मूर्धन्या सति निवसेत् एषैव प्रार्थना मातृचरणयोः प्रकाशमाना भव ॥ मातर्दुर्गे! अनुप्रविश नो देहं योगशक्त्या भविष्यामस्तव यन्त्राणि अशुभविनाशिनस्तव निस्त्रिंशाः अज्ञानतिमिरापहास्तव प्रदीपाः । हे मातः सम्पूरय स्पृहामेतां भारतीयतरुणवृन्दस्य। यन्त्रस्वामिनि चालय यन्त्रम्। अशुभोच्छेदिनि समुल्लासय चन्द्रहासं ज्ञाननदीप्तिविभासिनि गृहाण हस्ते प्रदीपं प्रकाशस्व प्रकाशस्व ॥ मातर्दुर्गे! त्वां प्राप्य न वयमितःपरं विधास्यामस्तव विसर्जनं श्रद्धाभक्तिप्रेम्णां सूत्रेण समासज्ज्य हृदये सन्निधास्यामः । एहि मातः अस्माकं मनसि प्राणे शरीरे च प्रकाशस्व ॥ वीरमार्गप्रदर्शिनि आयाहि न हि विधास्यते विसर्जनमतःपरं आस्तां ननु समस्तमस्मज्जीवनमनवच्छिन्नं दुर्गापूजनं सर्वमपि नः कार्यजातं अविरतं पवित्रं प्रेममयं शक्तिमयं च मातृसेवाव्रतं स्यात् एषैव प्रार्थना मातः । आविर्भव भारते वर्षे प्रकाशमाना भव ॥ Durga Stotra by Sri Aurobindo originally in Bengali 1909