अक्षर आकार:

श्रीदुर्गास्तवः

Shri Durgastavah

श्रीदुर्गास्तवः

एतावन्तं समयं सर्वापद्भ्योऽपि रक्षणं कृत्वा । ग्रामस्य परमिदानीं ताटस्थ्यं केन वहसि दुर्गाम्ब ॥ १॥ अपराधा वहुशः खलु पुत्राणां प्रतिपदं भवन्त्येव । को वा सहते लोके सर्वांस्तान्मातरं विहायैकाम् ॥ २॥ मा भज मा भज दुर्गे ताटस्थ्यं पुत्रकेषु दीनेषु । के वा गृह्णन्ति सुतान्मात्रा त्यक्तान्वदाम्बिके लोके ॥ ३॥ इतः परं वा जगदम्ब जातु ग्रामस्य रोगप्रमुखापदोऽस्य । न स्युस्तथा कुर्वचलां कृपामित्यभ्यर्थनां मे सफलीकुरुष्व ॥ ४॥ पापहीनजनतावनदक्षाः सन्ति निर्जरवरा न कियन्तः । पापपूर्णजनरक्षणदक्षांस्त्वां विना भुवि परान्न विलोके ॥ ५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीदुर्गास्तवः सम्पूर्णः ।