अक्षर आकार:

श्रीदुर्गाप्रातःस्मरणस्तोत्रम्

Shri Durgapratahsmaranastotram

श्रीदुर्गाप्रातःस्मरणस्तोत्रम्

प्रातः स्मरन्निदमहं गिरिराजकन्या- मार्त्तार्त्तिमोचनचणस्मरणां विनीतः । आवेदयामि करुणामृतपूरवर्षै- राप्लावयाशु जनमार्त्तमिमं प्रपन्नम् ॥ १॥ प्रातर्नमन्निदमहं विनिवेदयामि श्रीमेनकेक्षणचकोरसुधांशुलेखाम् । शिष्टान्यहानि मम सन्तु पवित्रितानि त्वत्पादचिन्तनसमाहितहृद्विलासैः ॥ २॥ प्रातर्भजन्नहमवाप्तसमस्तकामां कामान्तकारिमहिलां महितां हिताय । मातर्जहीहि मम वाञ्छितसंविधाने- ऽवज्ञां कृताञ्जलिरिदं विनिवेदयामि ॥ ३॥ श्लोकत्रयं विरचितं यमिना प्रबोधा- नन्देन नन्दयतु शश्वदिदं प्रसन्नम् । श्रीमन्महेशनयनोन्मदभृङ्गमाला लास्यास्पदाम्बुजमुखीकरुणैकपात्रान् ॥ ४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिप्रकाशानन्दपुरीविरचितं दुर्गाप्रातःस्मरणस्तोत्रं सम्पूर्णम् ॥