अक्षर आकार:

श्रीदुर्गादेविकवचम्

shrIdurgAdevi kavacham

श्रीदुर्गादेविकवचम्

श्रीगणेशाय नमः । ईश्वर उवाच । श‍ृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १॥ पठित्वा धारयित्वा अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् । स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ २॥ इदं गुह्यतमं देवि कवचं तव कथ्यते । गोपनीयं प्रयत्नेन सावधानवधारय ॥ ३॥ उमादेवी शिरः पातु ललाटे शूलधारिणी । चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ ४॥ च द्वारवासिनी सुगन्धा नासिके पातु वदनं सर्वधारिणी । सर्वसाधिनी जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥ ५॥ अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी । कण्ठं पातु महावाणी जगनाता स्तनद्वयम् ॥ ६॥ हृदयं ललितादेवी उदरं सिंहवाहिनी । कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥ ७॥ महाबला च जङ्घे द्वे पादौ भूतलवासिनी । एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका । त्रैलोक्यरक्षणात्मिके रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तुते ॥ ८॥ इत्येतत्कवचं देवि महाविद्या फलप्रद । यः पठेत्प्रातरुत्थाय स हि तीर्थफलं लभेत् ॥ ९॥ यो न्यसेत् कवचं देहे तस्य विघ्नं न क्वचित् । भूतप्रेतपिशाचेभ्यो भयं तस्य न विद्यते ॥ १०॥ ॥ इति श्रीकुब्जिकातन्त्रे दुर्गाकवचम् सम्पूर्णम् ॥