अक्षर आकार:

श्रीदुर्गाध्यानम्

shrIdurgAdhyAnam

श्रीदुर्गाध्यानम्

१. सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः । शङ्खं चक्रधनुः शरांश्च दधती नेत्रैस्त्रिभिः शोभिता ॥ आमुक्ताङ्गदहारकङ्कणरणत्काञ्ची रणन्नूपुरा । दुर्गा दुर्गतिहारिणी भवतु नो रत्नेल्लसत्कुण्डला ॥ २. मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे । हेलानिर्जितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ॥ निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे । शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ ३. हेमप्रख्यामिन्दुखण्डार्धमौलिम् । शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ॥ हेमाब्जस्थां पीतवस्त्रां प्रसन्नाम् । देवीं दुर्गां दिव्यरूपां नमामि ॥ ४. उद्यद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे- ष्विष्वासाख्यत्रिशूलानरिगणभयदा तर्जनीं सन्दधाना । चर्मास्युत्तीर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभिः दद्यात्कार्शानभीष्टान् त्रिणयनललिता चापि कात्यायनी वः ॥ ५. अरिशङ्खकृपाणखेटबाणान् सुधनुः शूलककर्तरीं तर्जनीं दधाना । भजतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशीश्रियेऽस्तु दुर्गा ॥ इति श्रीदुर्गाध्यानम् ॥ Additional ६. घस्राधीशघटागभस्तिघटिता व्याघ्रासना शीघ्रगा सुघ्राणातिघृणाग्रणी घनकचा विघ्नौघनिघ्नात्मिका । घोराघातविघातिनी घनरवा घण्टास्वनैर्घर्घरा दीर्घाक्षा घुसृणान्विताङ्घ्रिरुधिरा दुर्गाघसङ्घं द्यतु ॥ (६. श्रीव्रजकिशोरः)