अक्षर आकार:

दुर्गाष्टकम् २

durgAShTakam 2

दुर्गाष्टकम् २

कात्यायनि महामाये खड्गबाणधनुर्धरे । खड्गधारिणि चण्डि दुर्गादेवि नमोऽस्तु ते ॥ १॥ वसुदेवसुते कालि वासुदेवसहोदरि । वसुन्धराश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २॥ योगनिद्रे महानिद्रे योगमाये महेश्वरि । योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३॥ शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे । पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४॥ ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलोकिनि । ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५॥ वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि । वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ६॥ सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि । सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥ ७॥ अष्टबाहु महासत्त्वे अष्टमी नवमि प्रिये । अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥ ८॥ दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः । सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥ ९॥