अक्षर आकार:

श्रीदुर्गाष्टोत्तरशतनामस्तोत्र २

Hymns with 108 Names of Goddess Durga 2

श्रीदुर्गाष्टोत्तरशतनामस्तोत्र २

॥ॐ श्री दुर्गा परमेश्वर्यै नमः ॥ अस्यश्री दुर्गाष्टोत्तरशतनामास्तोत्र मालामन्त्रस्य महाविष्णु महेश्वराः ऋषयः, अनुष्टुप्छन्दः, श्रीदुर्गापरमेश्वरी देवता, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, सर्वाभीष्टसिध्यर्थे जपहोमार्चने विनियोगः । ॐ सत्या साध्या भवप्रीता भवानी भवमोचनी । आर्या दुर्गा जया चाध्या त्रिणेत्राशूलधारिणी ॥ पिनाकधारिणी चित्रा चंडघंटा महातपाः । मनो बुद्धि रहंकारा चिद्रूपा च चिदाकृतिः ॥ अनन्ता भाविनी भव्या ह्यभव्या च सदागतिः । शांभवी देवमाता च चिन्ता रत्नप्रिया तथा ॥ सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी । अपर्णाऽनेकवर्णा च पाटला पाटलावती ॥ पट्टांबरपरीधाना कलमंजीररंजिनी । ईशानी च महाराज्ञी ह्यप्रमेयपराक्रमा । रुद्राणी क्रूररूपा च सुन्दरी सुरसुन्दरी ॥ वनदुर्गा च मातंगी मतंगमुनिकन्यका । ब्राम्ही माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ॥ चामुंडा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः । विमला ज्ञानरूपा च क्रिया नित्या च बुद्धिदा ॥ बहुला बहुलप्रेमा महिषासुरमर्दिनी । मधुकैठभ हन्त्री च चंडमुंडविनाशिनी ॥ सर्वशास्त्रमयी चैव सर्वधानवघातिनी । अनेकशस्त्रहस्ता च सर्वशस्त्रास्त्रधारिणी ॥ भद्रकाली सदाकन्या कैशोरी युवतिर्यतिः । प्रौढाऽप्रौढा वृद्धमाता घोररूपा महोदरी ॥ बलप्रदा घोररूपा महोत्साहा महाबला । अग्निज्वाला रौद्रमुखी कालारात्री तपस्विनी ॥ नारायणी महादेवी विष्णुमाया शिवात्मिका । शिवदूती कराली च ह्यनन्ता परमेश्वरी ॥ कात्यायनी महाविद्या महामेधास्वरूपिणी । गौरी सरस्वती चैव सावित्री ब्रह्मवादिनी । सर्वतत्त्वैकनिलया वेदमन्त्रस्वरूपिणी ॥ इदं स्तोत्रं महादेव्याः नाम्नां अष्टोत्तरं शतम् । यः पठेत् प्रयतो नित्यं भक्तिभावेन चेतसा । शत्रुभ्यो न भयं तस्य तस्य शत्रुक्षयं भवेत् । सर्वदुःखदरिद्राच्च सुसुखं मुच्यते ध्रुवम् ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । कन्यार्थी लभते कन्यां कन्या च लभते वरम् ॥ ऋणी ऋणात् विमुच्येत ह्यपुत्रो लभते सुतम् । रोगाद्विमुच्यते रोगी सुखमत्यन्तमश्नुते ॥ भूमिलाभो भवेत्तस्य सर्वत्र विजयी भवेत् । सर्वान्कामानवाप्नोति महादेवीप्रसादतः ॥ कुंकुमैः बिल्वपत्रैश्च सुगन्धैः रक्तपुष्पकैः । रक्तपत्रैर्विशेषेण पूजयन्भद्रमश्नुते ॥ ॥ॐ तत्सत् ॥