अक्षर आकार:

श्री दोमकोण्ड चामुण्डेश्वरी सुप्रभातम्

Shri Domakonda Chamundeshvari Suprabhatam

श्री दोमकोण्ड चामुण्डेश्वरी सुप्रभातम्

ॐ गँ गणपतये नमः । ॐ श्री वागीश्वर्यै नमः ॥ सुप्रभातं - जागृहि त्वं महादेवि ! जागृहि देवि ! चण्डिके ! । जागृहि दोमकोण्डेशि ! लोकरक्षणहेतवे ॥ १॥ जागृहि चण्डमुण्डादि दुष्टराक्षसघातिनि । भक्तानामिष्टदात्री त्वं जागृहि महिषमर्दिनी ॥ २॥ जागृहि विघ्नराजेश ! जागृहि गणनायक ! । लोककण्टकनाशाय जागृहि चण्डिकासुत ॥ ३॥ श्री दुर्गे ! मधुकैटभप्रमथिनी त्वं चण्डमुण्डार्दिनि मातर्जागृहि लोकरक्षणकृते निद्रां विमुञ्चेश्वरि ! । प्राचीपर्वतमस्तके शिशुरवेरुद्यत्करा भान्ति हि चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ४॥ रात्रावाप्ततमःसुदीर्घपटलैः ह्यन्धीकृतं वारिजं प्रातर्भास्कर रश्मिभिः स्वनयनावुन्मील्य तत्पङ्कजम् । सामीप्यं तव पादयोश्च गमितुं भक्ताग्रहस्ते स्थितम् चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ५॥ प्रातर्भास्कररश्मिभिर्दृष्ट्वा त्वदीयं मुखं अम्लानैर्मुखनेत्रहस्तचरणैस्तुल्यं त्ववाप्तुं मुदा । पद्मं मन्दिरसन्निधौ सरसि ते ध्याने विलीनं गतं चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ६॥ भास्वद्भानुरहो ! स्वकीयकिरणैर्लब्धं स्वगर्वं तु यत् जाज्वल्यं रविकोटितुल्यकिरणं ज्ञात्वा त्वदीयाननम् । त्यक्त्वाऽसौ तव दर्शनाय पुरतः प्राच्यां मुदा वीक्षते चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ७॥ त्वत्कर्णोत्सवकल्पनाय पुरतो वृक्षेषु ते प्राङ्गणे पक्षीन्द्रादिमुखैः स्वकूजितपदैस्ते सुप्रभातं मुदा । गायन्त्यत्र हि नारदादि ऋषयस्त्वन्मन्दिरं त्वागताः चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ८॥ त्वन्नेत्रोत्सवकल्पनाय गिरिजे ! त्वन्मन्दिरं त्वागताः नृत्यं ताण्डवलास्यबद्धरचितं पश्यज्जनाह्लादकम् । नृत्यन्त्यत्र मयूररूपदिविजाः कन्याः प्रसादेच्छुकाः चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ९॥ त्वन्नेत्रीकृतसूर्यचन्द्रदहनाः त्वत्सेवनायाश्रिताः त्वत्प्रासादगतान्धकारदितिजं भानुः करैर्ध्वंसति । आह्लदं ननु कल्प्यते स्वकिरणैर्ध्वस्तं क्लमं चेन्दुना अन्तर्मन्दिरदीप्तरश्मिलसितो हुतभुक् ध्यानङ्गतो निश्चलः चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥१०॥ सृष्टो वीरसुतः स्वरक्षणकृते देवि ! त्वया यो ह्यसौ यः पित्रा ननु छिन्नमस्तकशिशुः हस्त्याननः कारितः । सोयं विघ्नपतिर्निरीक्षति मुदा द्रष्टुं त्वदीयाननं चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥११॥ स्तोत्रम् - वाणि ! लक्ष्मि ! पार्वति ! त्रिमूर्तिमातृरूपिणि ! ब्रह्मविष्णुशङ्करैर्निरन्तरं सुसेव्यते ! । दुष्टदानवान्तकी ! सुशिष्ट भक्त रक्षिके ! दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ १॥ लोककण्टकासुरान् त्वदीयकोपपात्रकान् भस्मसात्चिकीर्षया भवल्ललाटपट्टके । प्रज्ज्वलद्धनञ्जयो निरीक्षते त्वदानतिं दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ २॥ भक्तकल्पवल्लिके ! सुभक्तकोटिपालके ! भक्तवैरिभञ्जनि ! त्वमार्तिबाधवारिणी । शिष्टकर्ममोदिनी विरक्तमोक्षदायिनी दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ ३॥ चण्डिके ! त्वमीप्सितप्रदायिनी वरप्रदे ! सूर्यकोटिभासुरे ! सुधाकरप्रभानने ! । शूरदैत्यभञ्जने ! सुरेन्द्रपीठरक्षके ! दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ ४॥ पार्वतीतनूद्भवे ! निशुम्भशुम्भमर्दिनि ! दुष्टचित्तमाहिषं यमालयातिथिङ्करि ! । रक्तबीज नाशिके ! हृतासुचण्डमुण्डिके ! दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ ५॥ विश्वनाथशर्मणा प्रवाचितं स्तवं शुभं पाठकाय पुण्यदं सदा ह्यघौघनाशकम् ॥ सर्वविघ्नभञ्जकं सुखप्रदं शुभङ्करं दोमकोण्डचण्डिका ! करोत्विमं सुहर्षिणी ॥ ६॥ प्रपत्तिः - आद्या त्वं जगतां त्वमेव जननी माया परादेवता त्वं शक्तित्रयरूपिणी त्वमनघा विद्या ह्यविद्या परा । क्षेत्रज्ञा ह्यपरा त्वमेव भवति ! ज्ञेया परब्रह्मणी चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ १॥ त्वं सीता तनुमेत्य रावणकुलं मृत्योः परं प्रापयः त्वं द्रौपद्यसि दुष्टकौरवकुलप्रध्वंसकी भारते । नित्यं पातुमहो ! शिवे ! त्रिजगतो बद्धा कटी च त्वया चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ २॥ त्वत्पादस्मरणेन पूतहृदयाः सिद्धिङ्गता साधवः त्वन्नामश्रवणेन धूतविषयाः मुक्तिं गता योगिनः । त्वत्पूजाचरणेन भक्तजनता ध्वस्तीकृताघौघिका चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ३॥ मूकः प्रेरणया शिवे ! तव भवेत् वाचालकानां वरः पङ्गुः पर्वतमस्तकं प्रभवति ह्यारोहशक्तस्त्वया । मूढो ज्ञानविदांवरो भवति ! ते वाग्देवते ! ह्याज्ञया चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ४॥ लोकेऽस्मिन् बहवो हि कण्टकजनाः सज्जन्मनां बाधकाः दैत्येन्द्रादिसमाः सदा जगदिदं मुञ्चन्ति दुःखाब्निधौ । अम्ब ! त्वां शरणङ्गतस्त्वहमसौ याचामि ते रक्षणं तेभ्यो मामव दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ५॥ श्रीशद्विट् परदारकामुकवरश् चात्मीयहिंसाकरः दैत्येते हरिणाऽवतारबहुभिस्त्यक्तासवो नैकधा । तृप्तिं नैवगता श्च ते दितिसुता देहे ममैवाश्रिताः तेभ्यो मामव दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ६॥ क्वाहं देवि ! सुदूर देशवसितस्त्वत्सेवनायाहुतः नाहं वाग्विभवो यतो न पदवित् शक्तो न वाक्सेवने । मूढास्ते सुकटाक्षदृष्टिविभवैर्मातः ! कृताः पण्डिताः दुर्गे ! मामव दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ७॥ वक्तारं वरकोरिडेकुलभवं यं विश्वनाथाभिदं शर्माख्योत्तरविप्रमेतमनिशं त्वत्पादसम्माश्रितम् । श्रोतॄन् भ्राजितदोमकोण्डपुरजान् त्वं रक्ष लोकेश्वरि ! चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ८॥ मङ्गलाशासनम् - वेदवेदान्तवेद्यै ते वैदिकाचारसंस्तुते । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ १॥ ब्रह्मजिह्वाग्रनर्तिन्यै वागधिष्ठानदेवते ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ २॥ विष्णुवक्षस्स्थिते ! लक्ष्मि ! विश्वलोकैकवन्दिते ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ३॥ महाकालार्धकायायै महाकालि ! महामये ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ४॥ महिषासुरमर्दिन्यै मदगर्वजनार्दिनि ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ५॥ ज्ञानबुद्धिप्रदे ! देवि ! धनधान्यविवर्धिनि ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ६॥ ब्रह्मादिभिर्वन्द्यायै ब्रह्मवादिप्रिये ! च ते । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ७॥ हरिहृदयहारिण्यै हरार्धकायहारिणी । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ८॥ क्षमापराधस्तोत्रम् - अहं दुष्टचित्तः सदा दुष्टकर्मा अहं भक्तिहीनः परित्यक्तपूजः । क्षमस्वाम्ब ! मे मां त्विमं ज्ञानशून्यं नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ १॥ न पित्रोर्हि सेवा न वा देवपूजा न ते मन्दिरं हि प्रविष्टः कदाऽपि । क्षमापराधं पदं ते गतं मां नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ २॥ न वा तीर्थयात्रा कृता क्षेत्रा यात्रा न सन्ध्यार्चनं च प्रभाते सनिद्रः । दयां देवि ! कृत्वा विनीतं विधेहि नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ३॥ मदान्धेन भूयः कृता साधुनिन्दा गुरून्नैव वन्दे न चापि प्रवृद्धान् । क्षमस्वार्थिनं मामिमं दोषभाजं नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ४॥ परस्त्रीषु कामः परद्रव्यलोभः न चाहं व्यमोचं सदा कामलोभौ । अहं त्वां गतोऽम्ब ! क्षमस्वापराधम् नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ५॥ न मे चात्मबन्धुर्न मे स्नेहशीलः न मे चोपदेष्टा न सन्मार्गदर्शी । इमं दुष्टचित्तं विनीतं विधेहि नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ६॥ अहं पण्डितः काव्यकर्ता न चैव सदा पण्डितम्मन्यमानोऽह्यविद्वान् । इमं गर्विणं बुद्धिमन्तं विधेहि नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ७॥ न चास्तिक्यबुद्धिं न विध्युक्तकारं परं वञ्चकं वेषभूषानुलिप्तैः । इमं त्वाश्रितं मां पुनीतं विधेहि नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ८॥ मङ्गल हारति - जय दुर्गे ! जय दुर्गे ! जय दुर्गे ! देवि ! दोमकोण्डचण्डिके ! दुष्टदानवान्तकि ! ॥ जय दुर्गे॥ करुणावारिधिदेवि ! चरणाश्रितपोषकी कमनीयचरिते ! वरकल्पलतिके ! ॥ जय दुर्गे॥ सुरवरगणनमिते ! सुन्दरतनुलतिके ! पुरहरतनुवसिते ! मुरहरहृदिलसिते ! ॥ जय दुर्गे॥ महिषादिमदखण्डे ! मददैत्यतनुभञ्जे वरवीणामृदुपाणि ! परहन्तृशूलपाणि ! ॥ जय दुर्गे॥ इति श्री दोमकोण्ड चामुण्डेश्वरी सुप्रभातं सम्पूर्णम् ।