अक्षर आकार:

श्रीदिव्यमङ्गलाध्यानम्

Shri Divya Mangala Dhyanam

श्रीदिव्यमङ्गलाध्यानम्

ॐ देवदेव! महादेव! सच्चिदानन्दविग्रह!। पञ्चकृत्यपरेशान! परमानन्ददायक! १॥ श्रीराजराजराजेशी या श्रीत्रिपुरसुन्दरी । परापरमयी विद्या परमानन्दरूपिणी ॥ २॥ तस्या ध्यानञ्च मन्त्रञ्च पूजां पूजकलक्षणम् । इदानीं श्रोतुमिच्छामी श्रुतानि बहुशः पुरा ॥ ३॥ मन्त्राणि कोटिसङ्ख्यातान्यनेकानि च विस्तरात् । मन्त्राणि दुर्विज्ञेयानि को वा वेत्ति समासतः ॥ ४॥ सर्वमन्त्रेषु यत्सारं सर्वतन्त्रेष्वपि प्रभो । ब्रह्मविष्णुमहेशाद्यैरनिशं यच्च जप्यते ॥ ५॥ यत्पूज्यते सदा सिद्धैस्तद्वदस्व क्रमादिह । अवाच्यमपि यद्वाच्यं यदि ते करुणा मयि । लक्षवारसहस्राणि वादितापि पुनः पुनः ॥ ६॥ श्रीशिव उवाच - स्त्रीस्वभावान्महादेवि! पुनस्त्वं परिपृच्छसि । षोडशाक्षरविद्याया न्यासस्सर्वार्थसाधकः ॥ ७॥ क्षयरोगादिमृत्युघ्नं सर्वसौभाग्यवर्द्धनम् । इतः पूर्वं मया नोक्तं गोप्याद्गोप्यतरं शिवे ॥ ८॥ श्रिराजराजराजेशीध्यानं सर्वोत्तमोत्तमम् । येनाहमपि युद्धेषु देवासुरजयी सदा ॥ ९॥ निगमागमकोटीनां सारात्सारतरं परम् । तव स्नेहात्प्रवक्ष्यामि भोगमोक्षप्रदं नृणाम् ॥ १०॥ यज्ज्ञानाज्जननीगर्भे न पुनर्जायते पुमान् । अनेककोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः ॥ ११॥ सहस्रकोटिविस्तीर्णसुधासिन्धोस्तु मध्यमे । रत्नद्वीपजगद्दीपे शतकोटिप्रविस्तरे ॥ १२॥ पञ्चविंशति तत्त्वात्म पञ्चविंशति वप्रकैः । नवरत्नमयैस्तप्तहाटकालङ्कृतैः शुभैः ॥ १३॥ अनेककोटिविततैर्मणिकुट्टिममण्डितैः । जातीचम्पकपुन्नागकेतकीबकुलादिभिः ॥ १४॥ बिल्वैश्च सहकारैश्च हल्लकैश्च कदम्बकैः ॥ १५॥ सर्वर्तुकुसुमैः सर्ववाञ्छितार्थफलप्रदैः । वसन्तमन्मथानेकरक्षितैः पक्षिसङ्कुलैः ॥ १६॥ नदीनदसहस्रैश्च सुधाधिकरसोत्तरैः । स्वर्न्न दा ?? शतसाहस्रैः कूलोद्यत्कल्पपादपैः ॥ १७॥ स्वर्णसारसहंसालिलसत्सौवर्णपङ्कजैः । अन्यैश्च विविधैः पक्षिलक्षैः पूर्णैः सलक्षणैः ॥ १८॥ शतयोजनमुन्नम्रैर्गोपुराट्टालमण्डपैः । रविकोटिसमप्रख्यैश्शोभितैर्मणितोरणैः ॥ १९॥ त्रिलक्षयोजनायामचिन्तामणिगृहाङ्गणे । नवशक्तिलसद्रत्नपीठे तत्त्वमये शुभे ॥ २०॥ शतयोजनविस्तारे श्रीचक्रान्तस्त्रिकोणके । चतुःपीठान्तरे बिन्दौ चन्द्रसूर्याग्निमण्डले ॥ २१॥ महामायायविनकामहिते सुमहोत्तरे । पञ्चब्रह्मात्मके मञ्चे सर्वतत्त्वमयाम्बुजे ॥ २२॥ var सर्वतत्त्वमये शुभे सषडाननषट्कोणे चतुराननगर्भिते । चतुःपीठान्तष्टित्रं शत्तत्वोद्यद्धं ?? सतूलिके ॥ २३॥ सर्वविद्यासने सर्वतेजोमयशुभास्तरे । कोटिकन्दर्पलावण्यशिववामाङ्कवासिनीम् ॥ २४॥ एककालोदितानेककोटिकोट्यर्कपाटलाम् । जपाकुसुमशङ्काशामजपामजपात्मिकाम् ॥ २५॥ प्रभापाटलितानेककोटिब्रह्माण्डमण्डलाम् । दाडिमीकुसुमाकारां कुङ्कुमारुणविग्रहाम् ॥ २६॥ बालार्ककोटिप्रभां त्र्यक्षां बालेन्दुमकुटोज्ज्वलाम् । अचञ्चलतडित्कोटिप्रभां पिङ्गलवाससम् ॥ २७॥ समावृत्तसुवृत्तोरुजघनस्थलमण्डलाम् । कोटीरकोटिघटितसुधाकरकराप्लुताम् ॥ २८॥ फालभूतिलकीभूतलोचनां कामलोचनाम् । कटाक्षसरणीनर्यत्करुणापूर्णवीक्षणाम् ॥ २९॥ नर्तत्क ?? सूर्येन्दुमण्डलाकारां मणिताटङ्कमण्डिताम् । शुक्राकारसमाकारनासाभरणभासुराम् ॥ ३०॥ दाडिमीबीजसन्दोहसन्देहरत्नावलिम् । वीणारवघृणादायनिजवाणीगुणोदयाम् ॥ ३१॥?? कर्पूरवीटिकागन्धसुगन्धितदिगन्तराम् । मणिदर्पणदर्पघ्नकपोलफलकप्रभाम् ॥ ३२॥ प्रसन्नवदनाम्भोजां समन्दहसितेक्षणाम् । मणिमङ्गलसूत्रेण विलसत्कम्बुकन्धराम् ॥ ३३॥ श्रितकल्पलतीभूतभुजवल्लीचतुष्टयाम् । रत्नाङ्गुलीयनिवहोज्ज्वलदङ्गुलिपल्लवाम् ॥ ३४॥ तारहारत्सरीभास्वत्स्तनहाटकभूधराम् । कुचभारनमन्मद्ध्यत्रिवलीललितोदराम् ॥ ३५॥ अनर्घरत्नखचितरशनाजघनस्थलाम् । सुवृत्तजङ्घोरुकाण्डां गूढगुल्फां गुडालकाम् ॥ ३६॥ शिञ्जानमणिमञ्जीरमञ्जुपादाब्जमञ्जुलाम् । रत्नग्रैवेयवलयमुकुटाङ्गदकङ्कणाम् ॥ ३७॥ सुनिर्मलावृत्तनाभिरोमराजिविराजिताम् । कम्बुकण्ठीं सुनासाढ्यां बिम्बोष्ठीमुडुपाननाम् ॥ ३८॥ सर्वश‍ृङ्गारवेषाढ्यां सर्वाभरणभासुराम् । चन्दनागरुकस्तूरीमृगनाभिसुगन्धिनीम् ॥ ३९॥ कारणेशशिरोरत्ननिघृष्टचरणाम्बुजाम् । पञ्चप्रेतासनारूढां पञ्चप्रवणवरूपिणीम् ॥ ४०॥ सृष्टिस्थित्यपसंहारतिरोधानानुग्रहोद्यताम् । षोढ्यन्यासमहाभूषां षोडशार्णस्वरूपिणीम् ॥ ४१॥ ?? इच्छाज्ञानक्रियानन्दचित्पञ्चकविलासिनीम् । प्रपञ्चादिजगन्मूर्तिं मन्त्रदैवतमातृकाम् ॥ ४२॥ सप्तकोटिमहामन्त्ररूपिणीं चित्स्वरूपिणीम् । शडद्ध्वसौधश‍ृङ्गारविहारणसुपेशलाम् ॥ ४३॥ ?? षड्विधैक्यानुसन्धानपरचिद्धाम्नि संस्थिताम् । षडम्भोरुहचक्रान्तस्फूर्जत्सौदामिनीप्रभाम् ॥ ४४॥ षड्वक्त्रगजवक्त्राभ्यां पार्श्वयोरुपशोभिताम् । अणिमाद्यावृतामाद्यामणिमाद्यष्टसिद्धिदाम् ॥ ४५॥ सकृत्स्मरणमात्रेण विरिञ्चादिपदप्रदाम् । कल्याणगुणसम्पन्नां नित्यकल्याणदायिनीम् ॥ ४६॥ सर्वमङ्गलदां देवीं सर्वमङ्गलविग्रहाम् । अनेकजन्मसंसिद्धसुकृताराध्यपादुकाम् ॥ ४७॥ सर्वलोकैकजननीं सर्वलोकैकनायिकाम् । सचामराभ्यां श्रीवाग्भ्यां पार्श्वयोरुपजीविताम् ॥ ४८॥ मन्त्रिणीदण्डिनीनीतिविधानाकर्णनोत्सुकाम् । कलाचीवीटिकाच्छत्रभृङ्गारादर्शपादुकाम् ॥ ४९॥ मणिवीणां शुकं शारीं तालवृन्तं कमण्डलुम् । पानपत्रं स्वर्णवेत्रं पूर्णस्वर्णघटद्वयम् ॥ ५०॥ जयकाहलिकाभेरीशङ्खदुन्दुभिमद्दलाम् । दिव्यानि धूपपात्राणि तथा सौवर्णदीपिकाः ॥ ५१॥ बिभ्रतीभिश्च बालान्नपूर्णताराभिरावृताम् । गायत्र्या चैव सावित्र्या सिद्धलक्ष्म्यादिशक्तिभिः ॥ ५२॥ वाग्वादिन्या नकुल्या च तुरङ्गारूढयाऽऽवृताम् । सम्पत्कर्या च साम्राज्यलक्ष्म्या च कुरुकुल्यया ॥ ५३॥ पद्मवत्या रेणुकया भीमवत्या च दुर्गया । नीलकर्ण्या महाकाल्या भद्रकाल्या च भद्रया ॥ ५४॥ गङ्गाद्याभिस्सरिद्भिश्च मातृभिश्च सुसेविताम् । महाषोडोदिताशेषदेवतागणसेविताम् ॥ ५५॥ गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । पञ्चाशत्पीठमध्यस्थां पञ्चाशद्वर्णरूपिणीम् ॥ ५६॥ नवचक्रात्मिकां देवीं नवचक्राधिदेवताम् । नित्यानन्दमयीं नित्यां नित्यषोडशिकान्विताम् ॥ ५७॥ ओड्याणपीठनिलयां गुरुमण्डलमण्डिताम् । अनेकयोगिनीवृन्दैरणिमाद्यैर्महोज्ज्वलैः ॥ ५८॥ कोटिकोटिप्रभेदैश्च बालार्कद्युतिसन्निभैः । चतुस्समयदेवीभी षड्विधैर्योगिनीगणैः ॥ ५९॥ षड्दर्शनाधिदेवैश्च षडाम्नायाधिदैवतैः । चतुरायतनोद्भासि गणेशार्कहरीश्वरैः ॥ ६०॥ नवावरणदेवीभिर्न्नवधा योगिनीगणैः । सेवितामरुणानेककोटिकोट्यर्कपाटलाम् ॥ ६१॥ अनेककोटिभिश्चैव बालार्कायुतसन्निभैः । ब्रह्माणीकोटिसहितैर्ब्रह्मकोटिभिरावृताम् ॥ ६२॥ नामपारायणोद्युक्तैर्ल्लक्ष्मीनारायणैः स्तुताम् । ज्वलन्मन्युभिरत्युग्रैः शतरुद्रीयसंज्ञितैः ॥ ६३॥ रुद्राणीकोटिसहितै रुद्रकोटिभिरावृताम् । अनेकाघोरशरभैर्बडवानलभैरवैः ॥ ६४॥ दुर्गाभिः कालिकाभिश्च महाकाल्यैश्च संवृताम् । माकालीभिश्च गणपैर्वीरभद्रैश्च वटुकैः क्षेत्रपालकैः ॥ ६५॥ सुकुमारैः कुमारैश्च तथा हरिहरात्मजैः । अनेककोटिदिक्पालैश्चन्द्रार्कवसुकोटिभिः ॥ ६६॥ सनकाद्यैश्च योगीन्द्रैः सप्तर्षीणाञ्च कोटिभिः । नारदादिसुरर्षीणां कोटिभिः परिसेविताम् ॥ ६७॥ अप्सरोयक्षगन्धर्वकिन्नराणाञ्च कोटिभिः । कोटिभिर्गुह्यकानाञ्च सविद्याधरकोटिभिः ॥ ६८॥ शङ्खपद्मनिधीनाञ्च कोटिभिः परिसेविताम् । भैरवीभैरवानेककोटिकोटिभिरावृताम् ॥ ६९॥ सुरासुराणां कोटीनां कोटिभिः परिसेविताम् । सर्वमन्त्रमयीं देवीं सच्चिदानन्दरूपिणीम् ॥ ७०॥ इच्छाज्ञानक्रियारूपामिच्छाकलितविग्रहाम् । परादिवैखरीरूपां महामायां परात्पराम् ॥ ७१॥ महालक्ष्मीं महादेवीं महात्रिपुरसुन्दरीम् । जगदाह्लादजननीं जगत्सङ्कल्पविग्रहाम् ॥ ७२॥ जगदुज्जीवनोद्युक्तां जगद्रञ्जनकारिणीम् । राजराजेश्वराङ्कस्थां राजराजेश्वरीं शिवाम् ॥ ७३॥ एवं ध्यायेत्पराशक्तिं हृदि श्रीचक्ररूपके । पूर्वोक्तन्यासशुद्धात्मा सात्माभेदेन भावयेत् ॥ ७४॥ अन्तर्याग्रक्रमेणैव सिद्धदैवसमन्वितः । रक्ताम्बरस्रगालेपो रक्तभूषणभूषितः ॥ ७५॥ लाक्षारुणगृहे स्थित्वा पूजां कुर्यात् समाहितः । आवाहनादिभेदैश्च दशमुद्राः प्रदर्शयेत् ॥ ७६॥ सौभाग्यदण्डिनीमुद्रां रिपुजिह्वाग्रयन्त्रिणीम् । शक्तिसञ्चलनं कुर्यन्मुखवेष्टनमाचरेत् ॥ ७७॥ यथाशक्ति जपेद्विद्वान् श्रीविद्यां सर्वसिद्धिदाम् । शाक्तञ्च तिलकं कुर्यात् शक्तिलक्षणचिह्नितम् ॥ ७८॥ पुनः सौवर्णया चैव गलोर्ध्वं विन्यसेद्बुधः । व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाभिवादयेत् ॥ ७९॥ संहारञ्च ततः सृष्टिं स्थितिन्यासं समाचरेत् । ऋष्यादिकन्यासजालं षडङ्गन्यासमाचरेत् ॥ ८०॥ ब्रह्मरन्ध्रे न्यसेत्पूर्वं मणिबन्धद्वये तथा । ललटेऽनामिकां कृत्वा त्रैलोक्यस्याप्यहं प्रभुः ॥ ८१॥ गुरूपदिष्टमार्गेण प्राणायामं समाचरेत् । क्रमपूजापरो मन्त्री श्रीचक्रार्चनपूर्वकम् ॥ ८२॥ बिन्दुबिन्दुद्वयारूढं हार्दयोनिस्वरूपकम् । महाकामकलारूपमात्मानं भावयेत्सुधीः ॥ ८३॥ सम्पूर्णाञ्चिन्तयेद्विद्वान् ब्रह्मरन्ध्रारुणप्रभाम् । द्रवत्सुताषोडशार्णां सर्वसौभाग्यदां स्मरेत् ॥ ८४॥ षोडशार्णमहामन्त्रं मन्त्रराजोत्तमोत्तमम् । सकृत्स्मरणमात्रेण कोटिजन्माघनाशनम् ॥ ८५॥ महापातककोटीनां मार्जनं स्मृतिमात्रतः । उपवातकदौर्भाग्यशमनं भुक्तिमुक्तिदम् ॥ ८६॥ विषरोगादिदारिद्र्यमृत्युसंहारकारकम् । सप्तकोटिमहामन्त्रपारायणफलप्रदम् ॥ ८७॥ चतुःसमुद्रपर्यन्तभूदानफलदं शिवे!। सहस्रकोटिगोदानफलदं स्मृतिमात्रतः ॥ ८८॥ कोट्यश्वमेधफलदं जरामृत्युनिवारणम् । किं पुनर्बहुनोक्तेन शिवसायुज्यदायकम् ॥ ८९॥ घुटिका पादुका सिद्धिः खेचरत्वादिदायकम् । ब्रह्मविष्णुमहेशाद्यैर्जप्यं तत्पदसिद्धये ॥ ९०॥ तद्रूपाद्देशिकाल्लब्धं षोडशार्णं महामनुम् । सहस्रं प्रजपेद्विद्वान् त्रिशतं शतमेव वा ॥ ९१॥ स जीवन्मुक्त एव स्यात्सर्वसौभाग्यसुन्दरः । चतुःषष्टिकलापूर्णहृदयः सदयोदयः ॥ ९२॥ श्रीगुरोः पादुकां मूर्ध्नि श्रीचक्रं हृदि देवता । श्रीविद्या यस्य जिह्वाग्रे स साक्षात्परमः शिवः ॥ ९३॥ सहस्रारसुधाक्षिप्तषडम्बुरुहमण्डलः । आचन्द्रतारकस्थायि निजवंशयशोज्ज्वलः ॥ ९४॥ श्रीचक्रदेवी श्रीनाथस्वात्मानमैक्यमादिशेत् । त्रैलोक्यमरुणं ध्यात्वा श्रीविद्यां यो जपेत्सुधीः ॥ ९५॥ स योगी कृतकृत्यश्च चराचरगुरुर्भवेत् । सिद्धचारणगन्धर्वयक्षरक्षोगणैः स्तुतः ॥ ९६॥ समस्तभूतप्रेतादिकृत्याकृत्यविभञ्जनः । जङ्गमस्थावरोद्भूतविषविद्रावकोविदः ॥ ९७॥ दिव्यमङ्गलकल्याणगुणरत्नैरलङ्कृतः । मृतसञ्जीवको योगी महाद्भुतचरित्रभूः ॥ ९८॥ विचरत्सकलान् लोकान् निग्रहानुग्रहक्षमः । महालक्ष्मीमयो भूत्वा लक्ष्मीवृन्दैश्च सेवितः ॥ ९९॥ भुञ्जानो विविधान् भोगान् मूर्तिमानिव मन्मथः । चराचरगुरुर्योगी साक्षाच्छिव इवापरः ॥ १००॥ राजराजेश्वरीरूपो राजराजादिवन्दितः । कुलकोटिं समृद्धृत्य देवीसायुज्यमाप्नुयात् ॥ १०१॥ ॥ इत्युमामहेश्वरसंवादे राजराजेश्वरीतन्त्रे मोक्षप्रदे दिव्यमङ्गलाध्यानं सम्पूर्णम् ॥