अक्षर आकार:

श्रीधर्मसंवर्धनीस्तोत्रम्

Shri Dharmasamvardhani Stotram

श्रीधर्मसंवर्धनीस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ धर्माम्बायै च विद्महे । भवमोक्त्र्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ धर्मसंवर्धनी माता क्षेत्रपञ्चनदालया । त्यागब्रह्मसुगेया च बहुरत्नकृतिस्फुरा ॥ १॥ धर्माम्बिका पराशक्तिश्चराचरमयी जनी । ध्यानतत्परसान्निध्या नारायणी नमस्कृता ॥ २॥ तडिल्लतातनुष्कान्तिस्तेजोमयशरीरिणी । तारागणस्फुरद्दृष्टिर्धारिणी भवतारिणी ॥ ३॥ पुराणी पूर्णसज्ज्ञाना भ्रूमध्यैक्यविलासिनी । गुरुकीर्तनसम्पूर्णा रागलयसुलासिनी ॥ ४॥ करस्थितशुकालापरामनामप्रमोदिनी । श्रीत्यागब्रह्मसद्भक्तिगानसन्नाममोदिनी ॥ ५॥ रामनामप्रिया माता श्रीरामसोदरी सती । त्यागराजमधुस्वादुभजनानन्दकामिनी ॥ ६॥ घनसुस्वरसङ्गीता सुस्वरालयवासिनी । सुस्वराजितसारङ्गा सङ्गीतवरदायिनी ॥ ७॥ वीणासङ्गीतसाराध्या वीणाप्रक्वणनादिनी । जितवीणास्वरस्वादुः सङ्गीतस्वरसालया ॥ ८॥ कार्तस्वरस्वरामिष्टा कार्तस्वरसुविग्रहा । कञ्जलोचनवैशाल्या कर्मकर्दममोचनी ॥ ९॥ राजराजविराजाभा राजीवालोकनच्छविः । स्मेरनेत्रकृपावर्षा सत्त्वसम्मृदुभाषिणी ॥ १०॥ नगजा पञ्चनद्याभा अघजालविमोचनी । भक्तिवैराग्यभिक्षादा आयुरारोग्यदायिनी ॥ ११॥ पञ्चापगेशजायाम्बा प्रणतार्तिहरप्रिया । कावेरीतीरसानन्दा क्षेत्रपावित्र्यवर्धनी ॥ १२॥ हस्ताभयकरी माता इन्दुशीतललोचनी । पदपद्मनतागोप्त्री भवसङ्ग्राहमोचनी ॥ १३॥ दमादिशमसंवर्धा दुरितक्षयकारिणी । कर्मबन्धनविच्छेत्री शरणागतपावनी ॥ १४॥ मनोजारिप्रिया गौरी मनोवाक्कर्मपूजिता । मानसालयपुष्पार्चा मानसालयभासुरा ॥ १५॥ चिन्तनाहरसान्निध्या प्रशान्तमनआलया । मनआलयनिध्याता निष्कामस्थितिभावना ॥ १६॥ भावनापूरनैर्मल्या निष्कामपूजिता वरा । नैष्कर्म्यसिद्धिसम्पादा मुक्तिदायपदाम्बुजा ॥ १७॥ ऐहिकामुष्मिकाधात्री पुनर्जन्मनिवारिणी । ज्ञानमोक्षफलादात्री ज्ञानसद्गुरुरूपिणी ॥ १८॥ त्यागराजगुरुस्वामिशिष्यापुष्पास्तवार्चनम् । बालालापनिभागीतं बालाम्बिकापदार्पणम् ॥ १९॥ अम्बास्तोत्रं गुरुप्रेर्यं अम्बापादसमर्पितम् । अम्बानुग्रहकारं च सर्वाघनाशनं शुभम् ॥ २०॥ अम्बारामं गुरुप्रेष्ठं पञ्चापगेशमोदितम् । गायेत्सुरागसम्पूर्णं पूर्णसौमङ्गलावहम् ॥ २१॥ अनुरागनुते देवि विरागत्वं प्रदेहि मे । संसाराद्बहुतप्ताहं भवजालान्विमोचय ॥ २२॥ भवप्रिये प्रियालोके मे प्रसीद मदम्बिके । रागतालवरं देहि देहि मे तव सुस्वरम् ॥ २३॥ कुरु सद्गानसौभाग्यं देहि मे तव दर्शनम् । कुरु स्थिरसुमाङ्गल्यं देहि मे तव सात्मकम् ॥ २४॥ मङ्गलं शिवजायायै क्षेत्रेश्वर्यै सुमङ्गलम् । मङ्गलं गुरुगेयायै मोक्षदायै सुमङ्गलम् ॥ २५॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीधर्मसंवर्धनीस्तोत्रम् गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan