अक्षर आकार:

धर्मपुरी गोदावरी वर्णनम्

dharmapurI godAvarI varNanam

धर्मपुरी गोदावरी वर्णनम्

कोरिडे विश्वनाथ शर्मा संस्कृतोपन्यासकः श्री लक्ष्मी नरसिंहसंस्कृतान्ध्र कलाशाला अयिकरिकर्णिक ! मूषिकवाहन!! पर्वतजासुत ! साम्बप्रिय ! नुतजनपोषक ! षण्मुखसेवित ! शङ्करचुम्बितफालतट! । वरचतुराननदेवगणार्चित ! दानवभञ्जक ! दासरत! जय गणनायक ! विघ्नविनाशक ! धर्मपुरीजनपाल विभो! अयिनिजमूर्धजपाशजटोद्भवगौतमजासिकतोद्भव भोः वररघुवंशकलानिधिकीर्तितराघवसेवितलिङ्गतनो! । निजवरभक्तकृताघविनाशक दासजनार्थितदानरते! जय रजनीकरभूषितशेखर! धर्मपुरीविलसन्निलय! ॥ त्वद्दर्शनं यदि लभे न तु नीलकण्ठ! नामं भजामि यदि कण्ठगतं न ते हि । रूपं स्मरामि तव चेन्न मनोहरं मे तज्जीवनं मम निरर्थकमेव शम्भो ॥ प्रातःकालवर्णनं गोदावरी लक्ष्मीनृहरेःपदाब्जलसिता ब्रह्मादिदेवैर्युता या रामार्चितरामलिङ्गनिलया भक्ताघविध्वंसिनी यस्याः प्राग्दिशि गौतमी रविकरान् प्रक्षालयन्ती सदा सेयं धर्मपुरी सनातनपुरं क्षेत्रं सतीर्थं महत् ॥ १॥ गोदावरीगतसुरार्पणकौतुकेन्दुः पीयूषभाण्डपरिपूर्णसुधाकरो ऽयम् । वीचीनिबद्धप्रतिबिम्बतनुर्नितातं सूर्योदये लसति गच्छति खान्निशेशः ॥ २॥ गोदावरीवरजलेषु विनोदमिच्छुः तारायुतो वरतरङ्गहृतात्मरूपः । आवृत्य वार्वसितकैरवमात्मबन्धुं सूर्योदये लसति गच्छति खाद्धिमांशुः ॥ ३॥ निष्कास्य द्विजराट् तमोऽन्धपटलं यात्येकतो ह्यम्बरात् निद्रामुद्रितमानवान् द्विजवराः जाग्रन्ति रावैर्मुहुः । छित्त्वाऽन्धं द्विजकान्तिभिर्द्विजवराः श्राव्यन्ति वेदश्रुतीः प्रातर्धर्मपुरीपुरस्य हि जनान् कुर्वन्ति चैतन्यकान् ॥ ४॥ गौतम्यास्तु तरङ्गपङ्क्तिनिनदैर्माधुर्यमापूर्यते आब्राह्मी हरिताश्च छात्रवटवः पूर्यन्ति वेदश्रुतीः । गावोऽम्भेति नदन्ति वत्सकगणं स्वोधास्यदानाय ताः प्रातर्धर्मपुरं हि मङ्गलकरैर्ध्वानैः पवित्रीकृतम् ॥ ५॥ यस्यां ब्राह्मणपुङ्गवैरनुदिनं सुस्नातलिप्ताङ्गकैः गायत्री श्रुतिराव सुस्वरगलैर्दत्ताञ्जलिर्भास्करः । स्नात्वा क्षालितरश्मिभिर्नरहरिं सन्द्रष्टुकामो मुदा निद्रामुद्रितपद्ममुन्नयति यः संसेवनाय प्रभोः ॥ ६॥ गोदावरीविमलवारितरङ्गहॄद्यै- र्यत्कैरवैर्रतिमुपेत्य मुदा निशान्ते । इन्दौ गते हि कमलानि निमीलितानि उन्मील्य भास्करकरैर्विकसन्ति प्रातः ॥ ७॥ ये चैव बद्धतनवः कमलोदरेषु भृङ्गा हि भानुहृतचित्तमुमुक्षवस्ते । सन्तुष्टभास्करकरैः सुविमुक्तसङ्गाः गीतोपदेशकवरा ननु यान्ति चोर्ध्वम् ॥ ८॥ श्री वैष्णवा नृहरिसेवनतत्पराश्च दिक्पूर्यमाणशुभमङ्गलवाद्यघोषैः । गोदोदपूर्णवरहेमघटा निवृत्य निर्यान्ति वेदपठनैर्भृतदेवचित्ताः ॥ ९॥ गोपालबालकगणैर्धृतहस्तदण्डैः गावो मुदा प्रतिगृहात् किल मुक्तबन्धाः । वात्सल्यदत्तपयसोऽन्वयगोगणाश्च गोदावरीतटवनं ह्युपयान्ति धीरम् ॥ १०॥ कोक्कोरकोध्वनियुतैर्ननु कुक्कुटैश्च दिक्पूर्यमाणनिनदैः प्रविमुक्तकण्ठैः । जाग्रन्ति येन हि विबुध्य वर त्यक्त मञ्चाः यद्गौतमीनिवहनाय जनास्तु यान्ति ॥ ११॥ यद्गायतो बुध सदाशिव विश्वनाथौ राजन्नशास्त्रिकृतवाङ्मयसेवनं तु । प्राभातिकं ननु सकीर्तनचित्तजिह्वाः गोदावगाढतनवः स्वगृहाणि यान्ति ॥ १२॥ गोदां हि गोपतरुणीमणयस्तरण्यां गोक्षीरपूरितघटाः बहवो तरन्त्यः । ग्रामं प्रविश्य मधुरस्वरकण्ठरावैः उद्घोषयन्ति ननु विक्रयणाय दुग्धम् ॥ १३॥ कन्या गृहाङ्गणतलं परिशुध्य चाद्भिः कृत्वा मुदा रजितभासितरङ्गवल्लीम् । सन्दीप्तगोमयगिरिप्रतिमा विधाय कुर्वन्ति चापहृतचित्तजना हि मार्गम् ॥ १४॥ गङ्गे ! त्रिविक्रमपदोद्भवि ! हे सुरार्च्ये ! त्रैलोक्यपावनि! शिवजटाहृतवारिरूपे! । ? विध्वस्त गौतममहर्षिकृताघराशे! त्वं जागृहीत्युषसि भक्तवराः स्तुवन्ति ॥ १५॥ अभ्यागता विविधदेशसमागताश्च अबालवृद्धपुरवासगणाश्च वीथ्याम् । स्नात्वाऽऽगतान् द्विजवरानभिवन्द्य नम्राः गोदानिमज्जनपरास्त्वरितं प्रयान्ति ॥ १६॥ श्रीशेषयोक्तनिगमान्तभृतात्मतत्त्वं यन्नारसिंहशतकं हरिभक्तिसारं भ्राजन्नृसिंहचरणाब्जकहृष्टचित्ताः गायन्ति प्रोद्गलितगानयुता स्तु नार्यः ॥ १७॥ मालां क्वचिद्धि धनुराकृतिभङ्क्वचिच्च खड्गं क्वचिन्ननु सुदर्शनरूपमन्यत् । भिन्नैः सदाकृतिविशेषगणैर्बलाकाः बध्नन्ति धर्मपुरमम्बरवीथिमार्गम् ॥ १८॥ पित्राज्ञया गतवनो रघुरामचन्द्रः स्नात्वा च यत्र पितरं त्वकरोद्धि तृप्तम् । भक्त्यार्चयत् स्वकृतसैकतलिङ्गमूर्तिं तद्गौतमीस्थसिकता हि पुनन्ति भक्तान् ॥ १९॥ सङ्कल्पमन्त्रपठना वटवा स्तु केचित् केचिन्निमज्जनपरा हरशब्दपूर्वम् । सन्ध्यान्त्वुपासनपराः सुनिमीलिताक्षाः गोदाजलेषु विधिकर्मरता द्विजा हि ॥ २०॥ श्रीनारसिंह वचसा त्वनुलात्मजः किं आज्ञापयेत् कपिकुलं पुररक्षणार्थम् । यत् त्रासयन्ति शठबुद्धिनरांस्तु वीथ्यां सौधाग्रभागविहरद् वरवानरा हि ॥ २१॥ उद्यद्दिनेशकिरणैर्ज्वलदग्नितेजः स्नातानुलिप्तवरभक्तसमाह्वनाय । यद् राजगोपुरमहो हरिमन्दिरस्य धीरं विलोकयति पूर्वदिशाभिमुख्यम् ॥ २२॥ यद्राजगोपुरगवाक्षकवाटमार्गात् आवृत्य पक्षिनिवहान् खलु मेघमालाः । गच्छन्ति मन्दिरमहो शुभकृष्णवर्णाः द्रष्टुं रमानरहरिं विनता निनादैः ॥ २३॥ ब्रह्मादि देवगमनाय शुभाङ्कितं हि भक्ताग्रदैत्यगमनाय महोन्नतं च । यत्स्वागतादरणपूर्वक भृत्यवर्गं यद्राजगोपुरमहो किमु वर्णशक्यम् ॥ २४॥ दीव्यत् सुवर्णकलशैर्ननु भ्राजमानं ? आकाशचुम्बनपरं शिखराग्रभागम् । आदित्यदैत्यप्रतिमाहृतचित्तहृद्यं यद्राजगोपुरमहो किमु वर्णशक्यम् ॥ २५॥ दैनन्दिकेन विधिना गगनान्तरालात् सप्ताश्ववाहनरथं त्वधिरूढभानुम् । आयान्तमाह्वयति हि श्रममोचनाय यद् गोपुरं धृतकपोत सुपुष्पमालम् ॥ २६॥ वराहतीर्थम् यस्मिन् मुदा निवहनाद्धि सभार्यकश्च चिन्तामणिः परमवाप हि मुक्तिमार्गम् । चिन्तमणीति यदगाद्धि सरः प्रसिद्धं वाराहतिर्थमिह राजति धर्मपुर्याम् ॥ २७॥ लक्ष्मीनृसिंहविभुदर्शनसाभिलाषं ग्रामं प्रविष्टमतिथिं ननु सादरेण । भृङ्गानुरञ्जितसुमङ्गलवाद्यघोषैः सुस्वागतं वदति चेह वराहतीर्थम् ॥ २८॥ उत्थाय चैकचरणं च निमील्य नेत्रे ध्यानैकचित्तविलसज्जलधिप्रसुप्ताः । निष्किम्पमानलसदङ्गविभासवृक्षाः किं तापसाननुसरन्ति बका हि तीरे ॥ २९॥ प्रातः सदा ? मुकुलीकृतहस्तकुड्मं ? सन्तुष्टकं विकसिताननपद्मबृन्दम् । अभ्यागताय मधुपाय विनम्रभावैः दत्त्वा हि मधुपर्कमनन्यचित्तं वाराहतीर्थमिह शिक्षति चातिथेयम् ॥ ३०॥ लोकैकरक्षणविधौ हतहेमनेत्रः श्रीशो धृतक्षितिमृदङ्कितदंष्ट्रभागान् । प्रक्षाल्य पूतमकरोत्स तीर्थम् वाराहतीर्थमिह राजति धर्मपुर्याम् ॥ ३१॥ इति कोरिडे विश्वनाथशर्मणाविरचितं धर्मपुरी गोदावरी वर्णनं सम्पूर्णम् ।