अक्षर आकार:

श्रीधनलक्ष्मीस्तोत्रम्

Shri Dhanalakshmi Stotram

श्रीधनलक्ष्मीस्तोत्रम्

श्रीधनदा उवाच- देवी देवमुपागम्य नीलकण्ठं मम प्रियम् । कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥ १॥ श्रीदेव्युवाच- ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् । दरिद्र-दलनोपायमञ्जसैव धनप्रदम् ॥ २॥ श्रीशिव उवाच- पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः । उचितं जगदम्बासि तव भूतानुकम्पया ॥ ३॥ ससीतं सानुजं रामं साञ्जनेयं सहानुगम् । प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥ ४॥ धनदं श्रद्दधानानां सद्यः सुलभकारकम् । योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥ ५॥ पठन्तः पाठयन्तोऽपि ब्राह्मणैरास्तिकोत्तमैः । धनलाभो भवेदाशु नाशमेति दरिद्रता ॥ ६॥ भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् । प्रार्थयेत्तां यथाकामं कामधेनुस्वरूपिणीम् ॥ ७॥ धर्मदे धनदे देवि दानशीले दयाकरे । त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ॥ ८॥ धरामरप्रिये पुण्ये धन्ये धनदपूजिते । सुधनं धार्मिकं देहि यजमानाय सत्वरम् ॥ ९॥ var यजनाय सुसत्वरम् रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये । शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ॥ १०॥ var शशिप्रभमनोमूर्ते आरक्त-चरणाम्भोजे सिद्धि-सर्वार्थदायिके । var सिद्धसर्वाङ्गभूषिते दिव्याम्बरधरे दिव्ये दिव्यमाल्योपशोभिते ॥ ११॥ समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते । (अधिकपाठ. जातरूपमणीन्द्वादि-भूषिते भूमिभूषिते ।) शरच्चन्द्रमुखे नीले नील-नीरज-लोचने ॥ १२॥ चञ्चरीकचमू-चारु-श्रीहार-कुटिलालके । मत्ते भगवति मातः कलकण्ठरवामृते ॥ १३॥ var मुखामृते हासावलोकनैर्दिव्यैर्भक्तचिन्तापहारिके । रूप-लावण्य-तारूण्य-कारूण्य-गुणभाजने ॥ १४॥ क्वणत्कङ्कणमञ्जीरे लसल्लीलाकराम्बुजे । रुद्रप्रकाशिते तत्त्वे धर्माधारे धरालये ॥ १५॥ प्रयच्छ यजमानाय धनं धर्मैकसाधनम् । मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥ १६॥ var मातर्मे मावि कृपया करुणागारे प्रार्थितं कुरु मे शुभे । वसुधे वसुधारूपे वसु-वासव-वन्दिते ॥ १७॥ धनदे यजमानाय वरदे वरदा भव । var यजनायैव ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशङ्करे ॥ १८॥ var ब्रह्मण्ये ब्राह्मणे स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् । श्रीकरे शङ्करे श्रीदे प्रसीद मयि किङ्करे ॥ १९॥ पार्वतीशप्रसादेन सुरेश-किङ्करेरितम् । श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ॥ २०॥ सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् । धनदाय नमस्तुभ्यं निधिपद्माधिपाय च । भवन्तु त्वत्प्रसादान्मे धन-धान्यादिसम्पदः ॥ २१॥ ॥ इति श्रीधनलक्ष्मीस्तोत्रं सम्पूर्णम् ॥