अक्षर आकार:

श्रीधूमावत्युच्चाटन मन्त्रः

Shri Dhumavati Uchatana Mantra

श्रीधूमावत्युच्चाटन मन्त्रः

ध्यानम् - काकारूढातिकृष्णाभा भिन्नदन्ता विरागिणी । मुक्तकेशी सुधूम्राक्षी क्षुत्तृषार्ता भयातुरा ॥ चञ्चला चाति कामार्ता क्लिष्टा पुष्टालसाङ्गिका । मलिना श्रमनी रक्ता व्यक्तगर्भाविरोधिनी । धृतसर्पाग्रहस्ता च ध्येया धूमावतीपरा ॥ मनुः-- ॐ धूं धूमावति देवदत्तो धावतीति स्वाहा । ऋषिः क्षपणकः गायत्री छन्दः धूमावती देवता धूं बीजं स्वाहाशक्तिः समुच्चाटे विनियोगः- लक्षं जपेत्महेशानि जगदुच्चाटनं चरेत् । इति श्रीधूमावत्युच्चाटन मन्त्रः ।